________________
४१२
प्रश्नव्याकरणदशाङ्गसूत्रम् १/३/१५
सञ्चरन्तो-भ्रमन्तः, “चियग'त्ति चितिषु प्रतीतासु प्रज्वलितानि-वह्निदीप्तानि सरसानिरुधिरादियुक्तानि दरदग्धानि-ईषद्भस्मीकृतानि कृष्टानि-आकृष्टानि तथाविधप्रयोजनिभिः कडेवराणि-मृतशरीराणि यत्र तत्तथा तत्र श्मशाने क्लिश्यमानाअटवीं समुपयन्तीति सम्बन्धः, पुनः किम्भूते ?
रुधिरलिप्तवदनानि अक्षतानि-समग्राणि मृतकावीति गम्यते खादितानि-भक्षितानि पीतानि च शोणितापेक्षया यकाभिः तास्तथा ताभिश्च डाकिनीभिः-शाकिनीभिः भ्रमतां-तत्र सञ्चरतां भयङ्करं यत्तत्रुधिरलिप्तवदनाक्षतखादिपीतडाकिनीभ्रमद्भयंकरं, क्वचिदक्षत इत्येतस्य स्थाने 'अदर'त्ति पठ्यते तत्रादराभिः-निर्भयाभिरिति व्याख्येयं 'जंबुयखिंखियंते'त्ति खीखीलिशब्दायमानाः श्रगालाः ततः कर्मधारयोऽतस्तत्र, तथा घूतकृतघोरशब्दे-कौशिकविहितरौद्रध्वाने वेतालेभ्यः-विकृतपिशाचेभ्य उत्थितं-समुपजायन्तं निशुद्धं- शब्दान्तरामिश्रं 'कहकहेंति'त्ति कहकहायमानं यत् प्रहसितं तेन 'बीहणगंति भयानकमत एव निरभिरामंचअरमणीयं यत्तत्तथा तत्र, अतिबीभत्सदुरभिगन्धे इति व्यक्तं,
पाठान्तरेणातिदुरभिगन्धबीभत्सदर्शनीये इति, कस्मिन्नेवंभूत इत्याह-श्मशाने-पित-वने तथा वने-काननेयानिशून्यगृहाणि प्रतीतानि लयनानि-शिलामयगृहाणिअन्तरे-ग्रामादीनामर्धपथे आपणा-हट्टागिरिकन्दराश्च--गिरिगुहा इति द्वन्द्वस्ततस्ताश्च ता विषमश्वापदसमाकुलाश्चेति कर्मधारयोऽतस्तासु, कास्वेवंविधास्वित्याह-वसतिषु-वासस्थानेषु क्लिश्यन्तः शीतातपशोषितशरीराइति व्यक्तं, तथा दग्धच्छवयाः शीतादिभिरुपहतत्वचः तथा निरयतिर्यग्भवा एव यत्सङ्कट-गहनं तत्र यानि दुःखानि निरयतिर्यग्भवेषु वा यानि सङ्कटदुःखानि-निरन्तरदुःखानि तेषांयः सम्भारो-बाहुल्यं तेन वेद्यन्ते अनुभूयन्ते यानि तानि तथा तानि पापकर्माणी सञ्चिन्वन्तोबध्नन्तः दुर्लभं-दुरापं भक्ष्याणां-मोदकादीनामन्नानां-ओदनादीनां पानानां च-मद्यजलादीनां भोजनं-प्राशनं येषां ते तथा,
अतएव पिपासिताः-जाततृषः 'झुझिय'त्ति बुभुक्षितः क्लान्ता-ग्लानीभूताःमांसंप्रतीतं 'कुणिमंतिकुणपः-शवः कन्दमूलानि प्रतीतानि यत्किञ्चिच्च-यथाऽवाप्तं वस्तुइति द्वन्द्वः एतानि कृतो-विहित आहारो भोजनं यैस्ते तथा, उद्विग्ना-उद्वेगवन्त उत्प्लता-उत्सुका अशरणाःअत्राणाः, किमित्याह-अटवीवासं-अरण्यवसनमुपयन्ति, किम्भूतं ?-व्यालशतशङ्कनीयंभुजङ्गादिभिर्भयङ्करमित्यर्थः, तथा अयशस्करास्तस्करा भयङ्कराः एतानि व्यक्तानि, कस्य हरामः-चोरयामइति इदं विवक्षितंअद्य-अस्मिनहनिद्रव्यं-रिक्थं इति–एवंरूपं सामथ्यं मन्त्रणं कुर्वन्ति गुह्यं-रहस्यं,
-तथा बहुकस्य जनस्य कार्यकरणेषु-प्रयोजनविधानेषु विघ्नकरा-अन्तरायकारकाः मत्तप्रमत्तप्रसुप्तविश्वस्तान् छिद्रे-अवसरेनन्तीत्येवंशीला येते तथा व्यसनाभ्युदयेषुहरणबुद्धय इति व्यक्तं, किंवत् ? -विगव्य'त्ति वृका इव नाखरविशेषा इव 'रुहिरमहिय'त्ति लोहितेच्छवः 'परंति'त्ति सर्वतो भ्रमन्ति, पुनः कथम्भूताः ? -नरपतिमर्यादामतिक्रान्ता इति प्रतीतं सजनजनेन-विशिष्टलोकेन जुगुप्सिता-निन्दिता येतेतथा, स्वकर्मभिः हेतुभूतैः पापकर्मकारिणःपापानुष्ठायिनःअशुभपरिणताश्च-अशुभपरिणामा दुःखभगिन इतिप्रतीतं निच्चाविलदुहमनिब्बुति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org