________________
द्वार-२, अध्ययन-३,
४८९ सम्यक्यथाअदत्तादानं न भवतीत्यर्थः, सम्यकत्वमेवाह-नशाकसूपाधिक-साधारणस्य पिण्डस्य शाकसूपाधिके भोगे भुज्यमाने सङ्घाटिकादिसाधोरप्रतीरुत्पद्यते ततस्तददत्तं भवति,
तथा 'न खद्धं ति प्रचुरं प्रचुरभोजनेऽप्यप्रीतिरेव, प्रचुरभोजनता च साधारणेऽपि पिण्डे भोजनकान्तरापेक्षया वेगेन भुज्यमाने भवतीति तन्निषेधायाह
न वेगितं-ग्रासस्य गिलने वेगवत् न त्वरितं-मुखक्षेपे न चपलं-हस्तिग्रीवादिरूपकायचलनवत्न साहसं-अवितर्कितं अतएव न च परस्य पीडाकरंचतत्सावधं चेति परपीडाकरसावा, किं बहुनोक्तेन ?, तथा भोक्तव्यं संयतेन नित्यं यथा 'से' तस्य संयतस्य तद्वा तृतीयव्रतं न सीगति-न भ्रश्यति, दूरक्षं चेदं सूक्ष्मत्वादित्यत आह-साधारणपिण्डपात्रलाभे विषयभूते सूक्ष्मसुनिपुणमतिरक्षणीयत्वादणु, किंतदित्याह-अदत्तादानविरमणलक्षणेन व्रतेन यनियमनं-आत्मनो नियन्त्रणं तत्तथा, पाठान्तरे अदत्तादानाद्वतमितिबुद्धया नियमेन-अवश्यंतया यद्विरमणंनिवृत्तिस्तत्तथा, एतनिगमनायाह-एवमुक्तन्यायेन साधारणपिण्डपात्रलाभे विषयभूते समितियोगेन-सम्यक्प्रवृत्तिसम्बन्धेन भावितो भवत्यन्तरात्मा, किंभूत इत्याह- 'निच्चमित्यादि तथैव ४।
'पंचमग तिपञ्चमं भावनावस्तु, किंतदित्याह-साधर्मिकेषु विनयःप्रयोक्तव्यः, एतदेव विषयभेदेनाह–'उवकरणपारणासुत्तिआत्मनोऽन्यस्य वा उपकरणं ग्लानाद्यवस्थाया-मन्येनोपकारकरणं तच्च पारणा च-तपसः श्रुतस्कन्धादिश्रुतस्य वा पारगमनं उपकारपारणे तयोर्विनयः प्रयोक्तव्यो, विनयश्चेच्छाकारादिदानेन बलात्कारपरिहारादिलक्षणः एकत्रान्यत्र च गुर्वनुज्ञया भोजनादिकृत्यकरणलक्षणः, तथा वाचना-सूत्रग्रहणं परिवर्तना-तस्यैव गुणनं तयोविनयः प्रयोक्तव्यो वन्दनादिदानलक्षणः
तथा दानलब्धस्यान्नदेग्लानादिभ्यो वितरणं ग्रहणं-तस्यैव परेण दीयमानस्यादानं प्रच्छना-विस्मृतस्त्रार्थप्रश्नः एतासुविनयःप्रयोक्तव्यः, तत्रदानग्रहणयोर्गुर्वनुज्ञालक्षणःप्रच्छनायां तु वन्दनादिविनयः, तथा निष्क्रमणप्रवेशनयोविनयस्तु आवश्यकीनैषेधिक्यादिकरणमथवा हस्तप्रसारणपूर्वकं भूप्रमार्जनान्तरपादनिक्षेपलक्षणः, किंबहुना?
प्रत्येक विषयभणनेनेत्यत आह-अन्येषु चैवमादिकेषु बहुषु कारणशतेषु विनयः प्रयोक्तव्यः, कस्मादेवमित्याह-विनयोऽपि न केवलमनशनादि तपः अपि तु विनयोऽपि तपो वर्तत, अभ्यन्तरतपोभेदेषु पठितत्वात् तस्य, यद्येवं ततः किमत आह-तपोऽपि धर्मः, न केवलं संयमो धर्मस्तपोऽपि धर्मो वर्त्तते चारित्रांशत्वात् तस्य, यत एवं तस्माद्विनयः प्रयोक्तव्यः, केष्वित्याह-गुरुषु साधुषु तपस्विषु च–अष्टमादिकारिषु, विनयप्रयोगे हि तीर्थकराधुनुज्ञास्वरूपादत्तादानविरमणंपरिपालितं भवतीति, पञ्चमभावनानिगमनार्थमाह-एवमुक्तन्यायेन भावितो भवत्यन्तरात्मा, किंभूतः? -नित्यमित्यादि पूर्ववत् ५।।
अध्ययनार्थोपसंहारार्थमाह-“एवमिणंसंवरस्स दारंसम्म संवरियंहोइ सुप्पणिहियं इमेहिं पंचहिं कारणेहिं मणवयणकायपरिरखिएहिं निचं आमरणंतं च एस जोगो नेयव्यो धितिमया मतिमया अनासवो अकलुसो अच्छिद्दो अपरिस्साई आसंकिलिट्ठो सुद्धो सव्वजिणमणुनाओ, एवं तइयं संवरदारं फासियंपालियं सोहियंतीरिअंकिट्टि सम्मं आराहियं आणाए अनुपालियं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org