________________
४८८
प्रश्नव्याकरणदशाङ्गसूत्रम् २/३/३८
'बीयं 'ति द्वितीयं भावनावस्तु अनुज्ञातसंस्तारकग्रहणं नाम, तच्चैवम् - आरामोदम्पतिरमणस्थान भूतमाधवीलतादिगृहयुक्तः उद्यानं - पुष्पादिमव क्षङ्कृलादौ उत्सवादी बहुजनभोग्यं काननं– सामान्यवृक्षोपेतं नगरासन्नं च वनं-नगरविप्रकृष्टं एतेषां प्रदेशरूपो यो भागः स तथा तत्र यत्किञ्चिदिति - सामान्येनावग्रहणीयं वस्तु, तदेव विशेषेणाह - इक्कडं वा- ढंढणस शं तृणविशेषं एवं कठिनकं जन्तुकं च - जलाशयजं तृणविशेषमेव पर्णमित्यर्थः तथा परा- तृणविशेषः मेरा तु-मुसरिका कूर्ची- येन तृणविशेषेण कुविन्दाः कूर्चान् कुर्वन्ति कुश दर्भयोराकारकृतो विशेषः पलालं - कङ्गवादीनां मूयको - मेदपाटप्रसिद्धस्तृणविशेषः वल्वजः तृणविशेषः पुष्पफलत्वक्प्रवालकन्दमूलतृणकाष्ठशर्कराः प्रतीतास्ततः परादीनां द्वन्द्वः पुनस्ता आदिर्यस्य तत्तथा तद् गृह्णाति -आदते,
किमर्थं ? -य्योपधेः - संस्तारकरूपस्योपधेरथवा संस्तारकस्योपाधेश्चार्थाय हेतवे, इह तदिति शेषोदृश्यः, ततस्तन्न कल्पते- न युज्यते अवग्रहे- उपाश्रयान्तर्वर्त्तिनि अवग्राह्ये वस्तुनि अदत्ते - अननुज्ञाते शय्यादायिना 'गिहिउं चे 'त्ति ग्रहीतुं - आदातुं जे इति निपातः, अयमभिप्रायःउपाश्रयमनुज्ञाप्य तन्मध्यगतं तृणाद्यप्यनुज्ञापनीयं, अन्यथा तदग्राह्यं स्यादिति, एतदेवाह - 'हणि हणि 'त्ति अहनि २ -- प्रतिदिवसं, अयमभिप्रायः - उपाश्रयानुज्ञापनादिने 'उग्गहं' ति अवग्राह्यमिक्कडादि अनुज्ञाप्य ग्रहीतव्यमिति, 'एव' मित्यादि निगमनं प्रथमभावनावदवसेयं, नवरमवग्रहसमितियोगेन- अवग्रहणीयतृणादिविषयसम्यक्प्रवृत्तिसम्बन्धेनेत्यर्थः २ ।
'तइयं 'ति तृतीयं भावनावस्तु शय्यापरिकर्म्मवर्जनं नाम, तच्चैवं पीठफलक शय्यासंस्तारकार्थतायै वृक्षा न छेत्तव्याः न च छेदनेन-तद्भूम्याश्रितवृक्षादीनां कर्त्तनेन भेदनेन च तेषां पाषाणादीनां वा शय्या - शयनीयं कारयितव्या, तथा यस्यैव गृहपतेरुपाश्रयेनिलये वसेत्-निवासं करोति शय्यां शयनीयं तत्रैव गवेषयेत् मृगयेत् नच विषमां सतीं समां कुर्यात् न निवातप्रवातोत्सुकत्यं कुर्यादिति वर्त्तते, न च दंशमशकेषु विषये क्षुभितव्यं क्षोभः कार्यः, अतश्च दंशाद्यपनयनार्थं अग्निधूर्मो वा न कर्त्तव्यः,
एवमुक्तप्रकारेण संयमबहुलः - पृथिव्यादिसंरक्षणप्रचुरः संवरबहुलः - प्राणातिपाताद्याश्रवद्वारनिरोधप्रचुरः संवृतबहुलः - कषायेन्द्रियसंवृतत्वप्रचुरः समाधिबहुलः - चित्तस्वास्थ्यप्रचुरः धीरो-बुद्धिमान् अक्षोभो वा परीषहेषु, कायेन स्पृशन्न मनोरथमात्रेण, तृतीयं संवरमिति प्रक्रमगम्यं, सततं-सन्ततमध्यात्मनि-आत्मानमधिकृत्य आत्मालम्बनं ध्यानं - चित्तनिरोधस्तेन युक्तो यः स तथा, तत्रात्मध्यानं अमुकोऽहं अमुककुले अमुगसिस्से अमुगधम्मट्ठाणठिइए न य तव्विराहणे त्यादिरूपं, ‘समिए’त्ति समितः समितिभिः एकः - ससहायोऽपि रागाद्यभावात् चरेद्-अनुतिष्ठेत् धर्म- चारित्रं, अथ तृतीयभावनां निगमयन्नाह एवं अनन्तरोदितन्यायेन शय्यासमितियोगेनशयनीयविषयसम्यक्प्रवृत्तियोगेन शेषं पूर्ववत् ३ ।
इह चतुर्थ भावनावस्तु अनुज्ञातभक्तादिभोजनलक्षणं, तच्चैवं - साधारणः - सङ्घाटिकादिसाधर्मिकस्य सामान्यो यः पिण्डस्तस्य भक्तादे; पात्रस्य च - पतद्रहलक्षणस्य उपलक्षण- त्वादुपध्यन्तरस्य च पात्रे वा - अधिकरणे लाभो -दायकात्सकाशात्प्राप्तिः स साधारणपिण्डपात्र लाभस्तत्र सति भोक्तव्यं - अभ्यवहर्त्तव्यं परिभोक्तव्यं च, केन कथमित्याह-संयतेन-साधुना 'समियं' ति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org