SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ ३६६ प्रश्नव्याकरणदशाङ्गसूत्रम् १/१ / ६ अभिधानानीमानि - वक्ष्यमाणतया प्रत्यक्षासन्नानि गौणानि - गुणनिष्पन्नानि भवति त्रिंशत्, तद्यथा- प्राणानां - प्राणिनां वधो- घातः प्राणवधः १ 'उम्मूलणा सरीराउ 'त्ति वृक्षस्योन्मूलनेव उन्मूलना - निष्काशनं जीवस्य शरीराद्-देहादिति २, 'अवीसंभो' त्ति अविश्वासः, प्राणिवधप्रवृत्तो हि जीवानामविश्रभणीयो भवतीति प्राणवधस्याविश्रम्भकारणत्वादविश्रम्भव्यपदेश इति ३, 'हिंसविहिंस' त्ति हिंस्यंत इति हिंस्याजीवास्तेषां विहिंसा-विधातो हिंस्यविहिंसा, अजीवविधाते किल कथंचित्प्राणवधो न भवतीति हिंस्यानामिति विशेषणं विहिंसाया उक्तमथवा हिंसा विहिंसा चैकैवेह ग्राह्या द्वयोरुपादानेऽपि बहुसमत्वादिति, अथवा हिंसनशीलो हिं: - प्रमत्तः 'जो होइ अप्पमत्तो अहिंसओ हिंसओ इयरो' त्ति वचनात् तत्कृता विशेषवती हिंसा हिंविहिंसा ४, तथा 'अकिच्चं व 'त्ति तथा तेनैव प्रकारेण हिंस्यविषयमेवेत्यर्थः, अकृत्यं च अकरणीयं च, चशब्द एकार्थिकसमुच्चयार्थः ५, घातना मरणा च प्रतीते, चकारः समुच्चयार्थ एव ६-७, 'वहण' त्ति हननं ८ ' उद्दवण' त्ति उपद्रवणमपद्रवणं वा ९ 'तिवायणायेति त्रयाणां मनोवाक्कायानामथवा त्रिभ्योदेहायुष्केन्द्रियलक्षणेभ्यः प्राणेभ्यः पातना - जीवस्य भ्रंसंना त्रिपातना, उक्तं च- 'कायवइमणो तिण्णि उ अहवा देहाउइंदि अप्पाणा' त्यादि, अथवा अतिशयवती यातना- प्राणेभ्यो जीवस्यातिपातना तीतपिधानादिशब्देष्वि - वाकारलोपात् चकारोऽत्रापि समुच्चयार्थ इति १०, 'आरंभसमारंभो' त्ति आरभ्यन्ते - विनाश्यन्त इति आरम्भा - जीवास्तेषां समारम्भः - उपमर्दः अथवा आरम्भः कृष्यादिव्यापारस्तेन समारम्भो जीवोपमर्द्दः अथवा आरम्भो - जीवानामुपद्रवणं तेन सह समारम्भः - परितापनमित्यारम्भसमारम्भः प्राणवधस्य पर्याय इति, अथवा आरम्भसमारम्भशब्दयोरेकतर एव गणनीयो, बहुसमरूपत्वादिति ११, 'आउयकम्मस्सुवद्दवो भेदनिट्टवणगालणा य संवट्टगसंखेवो'त्ति आयुः कर्म्मण उपद्रव इति वा तस्यैव भेद इति वा तन्निष्ठापनमिति वा तद्गालनति वा, चः समुच्चये, तत्संवर्त्तक इति वा, इह स्वार्थे कः, तत्सङ्घप इति वा, प्राणवधयस्य नाम, एतेषां च उपद्रवादीनामेकतरस्यैव गणनेन नाम्नां त्रिंशत्पूरणीया, आयुश्छेदलक्षणार्थापेक्षया सर्वेषामेकत्वादिति १२ मृत्यु: १३ असंयमः १४ एतौ प्रतीतौ तथा कटकेन - सैन्येन किलिञ्जेन वा आक्रम्य मर्द्दनं कटकमर्दनं, ततो हि प्राणवधो भवतीत्युपचारात् प्राणवधः कटकमर्द्दनशब्देन व्यपदिश्यत इति १५ 'वोरमणं' ति व्युपरमणं प्राणेभ्यो जीवस्य व्युपरतिः, अयंच व्युपरमणशब्दोऽन्तर्भूतकारितार्थः, प्राणवधपर्यायो भवतीति भावनीयं १६ 'परभवसङ्क्रमकारक' इति प्राणवियोजितस्यैव परभवे सङ्कङ्क्रान्तिसद्भावात् १७ दुर्गतौ नरादिकायां कर्त्तारं प्रपातयतीति दुर्गतिप्रपातः दुर्गतौ वा प्रपातो यस्मात् स तथा १८ 'पापकोवो य'त्ति पापं - अपुण्यप्रकृतिरूपं कोपयति-प्रपञ्चयति पुष्णाति यः स पापकोप इति अथवा पापं चासौ कोपकार्यत्वात् कोपश्चेति पापकोपः चः समुच्चये १९ प पापलोभो 'त्ति पाप - अपुण्यं लुभ्यति - प्राणिनि स्निह्यति संश्लिष्यतीतियावत् यतः स पापलोभः, अथवा पापं चासौ लोभश्च तत्कार्यत्यात्पापलोभः २० 'छविच्छेओ'त्ति छविच्छेदः - शरीरच्छेदनं तस्य च For Private & Personal Use Only www.jainelibrary.org Jain Education International
SR No.003344
Book TitleAgam Sutra Satik 10 Prashnavyakarana AngSutra 10
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages192
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 10, & agam_prashnavyakaran
File Size4 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy