________________
द्वार-२, अध्ययनं-१,
४७१
मनःसमितियोगेन-चित्तसप्रवृत्तिलक्षणव्यापारेण भावितो-वासितो भवन्त्यपन्तरात्मा-जीवः, किंविधइत्याह-अशबलासङ्किलष्टनव्रणचारित्रभावनाकः अशबलासङ्किलष्टनिव्रणचारित्रभावनया वा अहिंसकः संयतः सुसाधुरिति प्राग्वत्।
तइयं च' ति तृतीयं पुनर्भावनास्तु वचनसमितिः यत्र वाचा पापं न भणितव्यमिति, एतदेवाह-वईए पावियाए' इति काक्वाऽध्येतव्यं, एतदव्याख्यानं च प्राग्वत् ।
चतुर्थंभावनावस्तुआहारसमितिरिति, तामेवाह-'आहारएसणाए सुद्धंउंछंगवेसियव्वं ति व्यक्तं, इदमेव भावयितुमाह-अज्ञातः-श्रीमप्रवजितादित्वेन दायकजनेनावगतः अकथितः स्वयमेव यथा ऽहं श्रीमत्रप्रवजितादिरिति अशिष्टः-अप्रतिपादितः परेण वाचनान्तरे 'अन्नाए अगढिए अदुढे त्ति ६श्यते अद्दीणे'त्यादि तुपूर्ववत्,
भिक्षुः-भिक्षैषणया युक्तः ‘समुदाणेऊण त्ति अटित्वा भिक्षाचर्या-गोचरं उञ्छमिवोञ्छअल्पाल्पं गृहीतं भैक्ष्यं गृहीत्वा आगतो गुरुजनस्य पार्श्व-समीपं गमनागमनातितचाराणा प्रतिक्रमणेन ईर्यापथिकादण्डकेनेत्यर्थः प्रतिक्रान्तं येन स कतथा 'आलोयणदायणं च'त्ति आलोचनं यथागृहीतभक्तपाननिवेदनं तयोरेवोपदर्शनं च 'दाउण'त्ति कृत्वा ‘दाउण'त्ति कृत्वा 'गुरुजणस्सति गुरोर्गुरुसन्दिष्टस्य वा वृषभस्य 'जहोवएस'ति उपदेशानतिक्रमेण निरतिचारं च-दोषवर्जनेन अप्रमत्तः पुनरपि च अनेषणाया:-अपरित्रातानालोचितदोषरूपायाः प्रयतोयत्नावान्प्रतिक्रम्य कायोत्सर्गकरणेनेति भावः प्रशान्तः-उपशान्तोऽनुत्सुकः आसीन-उपविष्टः स एव विशेष्यते-सुखनिष्णः --अनाबाधवृत्त्योपविष्टः, ततः पदद्वयस्य कर्मधारयः, मुहूर्तमात्रं च कालं ध्यानेन-धर्मादिना शुभयोगेन-संयमव्यापारेण गुरुविनयकरणादिना ज्ञानेनग्रन्थानुप्रेक्षणरूपेण स्वाध्यायेन च–अधीतगुणनरूपेण गोपितं-विषयान्तरगमने निरुद्धं मनो येन स तथा अत एव धर्मे श्रुतचारित्ररूपे मनो यस्य स तथा अत एव अविमनाः-अशून्यचित्तः शुभमनाःअसङ्किलष्टचेताः 'अविग्गहमणे'त्ति अविग्रहमनाः-अकलहचेताः अव्युद्ग्रहमना वा-अविद्यमानासदभिनिवेशः _ 'समाहितमणे'त्ति सम-तुल्यं रागद्वेषानाकलितं आहितं-उपनीतमात्मनि मनो येन स समाहितमनाःसमेन वा-उपशमेन अधिकं मनो यस्य समाधिकमनाः समाहितं वा-स्वस्थं मनो यस्य समाहितमनाः श्रद्धा च-तत्त्वश्रद्धानं संयमयोगविषयो वा निजोऽभिलाषः संवेगश्चमोक्षमार्गाभिलाषः संसारभयं वा निर्जरा च-कर्मक्षपणं मनसि यस्य स श्रद्धासंवेगनिर्जमनाः, प्रवचनवात्सल्यभावितमना इति कण्ठ्यं, उत्थाय च प्रहष्टतुष्ट:-अतिशयप्रमुदितः यथारानिकंयथाज्येष्ठं निमन्त्र्य च साधून्-साधर्मिकान् भावतश्च-भक्त्या 'वइण्णे यत्ति वितीर्णे च भुङ्गव त्वमिदमशनादीत्येवं अनुज्ञाते च सति भक्तादौ गुरुजनेन-गुरुणा उपविष्ट उचितासने संप्रमृज्य मुखवस्त्रिकारजोहरणाभ्यां सशीर्षं कायं-समस्तकं शरीरं तथा करतलं-हस्ततलं च ।
अमूर्छितः-आहारविषये मूढिमानमगतः अगृद्धः-अप्राप्तेषु रसेष्वनाकाङ्क्षवान् अग्रथितःरसानुरागतन्तुभिरसन्दर्भितः अगर्हितः-आहारविषयेऽकृतगर्ह इत्यर्थः अनध्युपपन्नो-न रसेष्वेकाग्रमनाअनाविलः--अकलुषः अलुब्धः-लोभविरहितः 'अणत्तहिए'त्ति नात्मार्थ एव यस्यास्त्यसावनात्मार्थिकः परमार्थकारीत्यर्थः, 'असुरसुरं'ति एवंभूतशब्दरहतं 'अचवचवंति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org