________________
द्वार-२, अध्ययनं-१,
४६१
निर्वाणं-मोक्षस्तद्धेतुत्वात् निर्वाणं तथा निवृत्तिः-स्वास्थ्यं समाधिः-समता शक्तिः शक्तिहेतु-त्वात् शान्तिर्वा-द्रोहविरतिः कीर्तिः ख्यातिहेतुत्वात् कान्तिः कमनीयताकारणत्वात् रतिश्च रतिहेतुत्वात् विरतिश्च-निवृत्तिः पापात् श्रुतं-श्रुतज्ञानमङ्गं कारणं यस्याः सा श्रुताङ्गा, आह च-“पढमं नाणं तओ दए" त्यादि, तृप्तिहेतुत्वातृप्तिः, ततःकर्मधारयः, १०,
तथा दया-देहिरक्षा तथा विमुच्यते प्राणी सकलबन्धनेभ्यो यया सा विमुक्तिः तथा क्षान्तिः-क्रोधनिग्रहस्तजन्यत्वादहिंसाऽपिक्षान्तिरुक्ता सम्यकत्वं-सम्यग्बोधिरूपमाराध्यते यया सा सम्यकत्वाराधना ‘महंति'त्ति सर्वधर्मानुष्ठानाना बृहती, आह च
“एकं चिय एत्थ वयं निद्दिष्टं जिनवरेहिं सब्बेहि।
पाणातिवायविरमणमवसेसा तस्स रक्खट्टा ॥" बोधिः-सर्वधर्मप्राप्तिः अहिंसारूपत्वाच तस्याः अहिंसा बोधिरुक्ता, अथवा अहिंसा-अनुकम्पासाच बोधिकारणमिति बोधिरेवोच्यते, बोधिकारणत्वं चानुकम्पायाः ॥१॥ "अनुकंपऽकामनिज्जरबालतवे दानविणयविमंगो।
__संजोगविप्पजोगे वसणूसवइड्डिसकारे'।"
-इति वचनादिति, तथा बुद्धिसाफल्यकारणत्वाद्धद्धिः, यदाह॥१॥ “बावत्तरिकलाकुसला पंडियपुरिसा अपंडिया चेव।
सव्वकलाणं पवरंजे धम्मकलं न याणंति॥" धर्मश्चाहिंसैव, धृतिः-चित्तदाढ्यतत्परिपालनीयत्वादस्या धृतिरेवोच्यते, समृद्धिहेतुत्वेन समृद्धिरेवोच्यते, एवं ऋद्धिः २०, वृद्धिः, तथा साद्यपर्यवसितमुक्तिस्थितेर्हेतुत्वास्थितिः, तथा पुष्टिः पुण्योपचयकारणत्वात्, आह च–'पुष्टिः पुण्योपचयः" नन्दयति-समृद्धिं नयतीति नन्दा, भदन्ते कल्याणीकरोति देहिनमिति भद्रा, विशुद्धिः पापक्षयोपायत्वेन जीवनिर्मलतास्वरूपत्वात्, आह च-"शुद्धिः पापक्षयेण जीवृनिर्मलता" तथा केवलज्ञानादिलब्धिनिमित्तत्वाल्लब्धिः, विशिष्टष्टिः-प्रधानं दर्शनं मतमित्यर्थः, तदन्यदर्शनस्याप्राधान्याद्, आह च॥१॥ “किंतीए पढियाए? पयोकोडीए पलालभूयाए।
जत्थेत्तियं न नायं परस्स पीडा न कायव्वा ।।" कल्याणं कल्याणप्रावपकत्वात् मङ्गलं दुरितोपशान्तिहेतुत्वात् ३०, प्रमोदः प्रमोदोत्पादकत्वात् विभूतिः सर्वविभूतिनिबन्धत्वात् रक्षा जीवरक्षणस्वभावत्वात् सिद्ध्यावासः मोक्षवासनिबन्धत्वात्अनाश्रवः कम्मबन्धनिरोधोपायत्वात् केवलिनांस्थानं केलवलिनामहिंसायां व्यवस्थितत्वात् 'सिवसमितिसीलसंजमोत्तिय शिवहेतुत्वेन शिवं समितिः-सम्यकतप्रवृत्तिस्तदूपत्वादहिंसासमितिः शीलं-समाधानंतद्रूपत्वाच्छीलं संयमो-हिंसात उपरमः इतिः-उपप्रदर्शन चः समुच्चये ४०,
'सीलपरिधरो तिशीलपरिगृहं चारित्रस्थानसंवरश्चप्रतीतः गुप्तिः अशुभानांमनःप्रभृतीनां निरोधः विशिष्टोऽवसायो-निश्चयो व्यवसाय; उच्छ्रयश्च-भावोन्नतत्वं यज्ञो-भावतो देवपूजा आयतनं-गुणानामाश्रयःयजनं अभयस्यदानंयतनंवा-प्राणिरक्षणप्रयत्नः-अप्रमादःप्रमादवर्जनआश्वासः-आश्वासनंप्राणिनामेव ५० विश्वासो-विश्रमंभः 'अभउतिअभयंसर्वस्यापीति
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org