________________
४६०
प्रश्नव्याकरणदशाङ्गसूत्रम् २/१/३३
करणत्रययोगत्रयेण यावजीवतया सर्वविषयनिवृत्तिरूपत्वात् अणुव्रतापेक्षया बृहन्ति व्रतानिनियमा महाव्रतानि
'लोए धिइअब्वायाईति लोके धृतिदानि-जीवलोकचित्तस्वास्थ्यकारीणि व्रतानि यानि तानितथा, वाचनान्तरे–'लोयहियसब्बयाई तितत्र लोकाय हितं सर्वंददतियानि तानि, श्रुतसागरे देशितानियानितानितथा,तथातपः-अनशनादिपूर्वकर्मनिर्जरणफलं संयमः पृथिव्यादिसंरक्षणलक्षणोऽभिनवकर्मानुपादानफलस्तद्रूपाणि व्रतानितपःसंयमयोर्वा नास्तिव्ययः-क्षयो येषुतानि तपःसंयमाव्ययानि
तथा शीलं-समाधानं गुणाश्च-विनयादयः तैर्वराणि-प्रधानानि यानि व्रतानि तानि शीलगुणवरव्रतानि शीलगुणवराव्यायानि वा अथवा शीलस्य गुणवराणांच-वरगुणानां व्रजःसमुदायोयेषुतानिशीलगुणवरव्रजानि, तथा सत्यं मृषावादवर्जनंआर्जव मायावर्जनंतप्रधानानि व्रतानि यानि तानि तथा सत्यार्जवाव्ययानि वा, तथा नरकतिर्यग्मनुजदेवगतीर्विवर्जयन्तिमोक्षप्रापकतया व्यवच्छेदयन्ति यानि तानि तथा,
सर्वैजिनैः शिष्यन्ते-प्रतिपाद्यन्ते यानि तानि सर्वजिनशासनानि तान्येव कप्रत्यये सर्वजिनशासनकानि, कर्मरजो विदारयन्ति-स्फोटयन्ति यानि तानितथा, भवशतविनाशकानि अतएव दुःखशतविमोचनकानिसुखशतप्रवर्तकानीति चकण्ठ्यं, कापुरुषैः, दुःखेनोत्तर्यन्ते-निष्ठां नीयन्त इति कापुरुषदुरुत्तराणि, सत्पुरुषनिषेवितानि, वाचनान्तरे ‘सप्पुरिसतीरियाईति सत्पुरुषप्राप्तीराणीत्यर्थः, इह च पुरुषग्रहः स्त्रीणामुपलक्षणमिति न तन्निषेधोऽत्र प्रतिपत्तव्यः,
बहुचेहवाच्यंतच्च ग्रन्थातरेभ्योऽवसेयं, 'विन्नाणगमणमग्गसग्गपणायगाईतिनिर्वाणगमने मार्ग इवमार्गो यानितानि तथा स्वर्गेच देहिनं प्रणयन्ति-नयन्ति यानि तानि तथा, क्वचित् 'सग्गपयाणगाईतिपाठः तत्रस्वर्गेगन्तव्येप्रयाणकानीव-गमनानीवयानि तानिस्वर्गप्रयाणकानि, ततः कर्मधारयः, अथ महाव्रतसंज्ञितानां संवरद्वाराणां परिमाणमाह-संवरद्वाराणि पञ्च,
एतेषामेव शिष्टप्रणेतृकत्वमाह-कथितानि तु भगवता-अभिहितानि पुनरेतानि भगवता-श्रीमन्महावीरेण अतः श्रद्धेयानि भवन्तीति भाव इति प्रथमसंवराध्ययनप्रस्तावना ।
अथप्रथमसंवरनिरूपणायाह-'तत्थे'त्यादि, तत्र-तेषुपञ्चसुसंवरद्वारेषुमध्येप्रथम-आद्यं संवरद्वारमहिंसा, किंभूता?-या सा सदेवमनुजासुरस्य लोकस्य भवति, 'दीवो'त्ति द्वीपो दीपो वायथाऽगाधजलधिमध्यमग्नानां स्वैरं श्वापदकदम्बकदर्थितानां महोर्मिलामामध्यमानगात्राणां त्राणंभवति द्वीपः प्राणितांएवमियमहिंसा संसारसागरमध्यमधिगतानांव्यसनशतश्वापदपीडितानां संयोगवियोगवीचिविधुराणां त्राणं भवति, तस्याः संसारसागरोत्तारहेतुत्वात् इति अहिंसा द्वीप उक्तः, यथा वा दीपोऽन्धकारनिराकृतहकप्रसराणं हेयोपादेयार्थहानोपादानविमूढमनसांतिमिरनिकरनिराकरणेन प्रवृत्त्यादिकारणंभवत्येवमहिंसा ज्ञानावरणादिकर्मतमिंसनेन विशुद्धबुद्धिप्रभापटलप्रवर्ततनेन प्रवृत्त्यादिकारणत्वाद्दीप उक्ता,___-तथा त्राणं स्वपरेषामापदः संरक्षणात्तथाशरणं तथैव सम्पदः सम्पादकत्वात् गम्यतेश्रेयोऽर्थिभिराश्रीयते इति गतिः प्रतिष्ठन्ति-आसते सर्वगुणाः सुखानि वा यस्यां सा प्रतिष्ठा तथा
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org