________________
४५८
प्रश्नव्याकरणदशाङ्गसूत्रम् १/५/२५
कर्मोदयसम्पाद्यो जीवपर्यायः पर्यन्तो - विभागो यस्य स तथा तं 'अनुपरिवर्तन्ते' परिभ्रमन्ति 'संसार' भवमिति ।।
मू. (२६) सव्वगई०,
बृ. 'सव्वगई' गाहा, सर्वगतीनां देवादिसम्बन्धिनीनां प्रस्कान्दा- गमनानि सर्वगतिप्रस्कन्दास्तान् करिष्यन्ति अनन्तकान्-अनन्तान् अकृतपुण्याः - अविहिताश्रवनिरोध-लक्षणपवित्रानुष्ठानाः येचन श्रण्वन्तिधर्मं श्रुतरूपं श्रुत्वा च ये प्रमाद्यन्ति श्लथयन्ति श्रुतार्थं - संवरात्मकंनानुतिष्ठन्तीत्यर्थः ॥ मू. (२७) अनुसिपि,
बृ. ‘अनुसिट्ठि' गाहा अनुशिष्टमपि - गुरुणोपदिष्टमपि बहुविधं - बहुप्रकारं धर्म्ममिति सम्बन्धः, पाठान्तरेण अनुशिष्टाः - अनुशासिताः बहुविधं यथा भवति मिथ्याध्ष्टयो नरा अबुद्धयो बद्धनिकाचितकर्माणः, तत्र बद्धं--प्रदेशेषु संश्लेषितं निकाचितं - धढतरं बद्धं उपशमनादिकरणानामविषयीकृतमिति भावः, श्रृवन्ति केवलमनुवृत्त्यादिना धर्म - श्रुतरूपं न च न पुनः कुर्वन्ति - अनुतिष्ठन्तीति ॥
मू. (२८) किं सक्का ०
वृ. 'किं सक्का' गाहा, किं शक्यं कर्तु ?, न शक्यमित्यर्थः, जे इति पादपूरणे यत्यस्मान्नेच्छथ- नेप्सथ औषधं मुधा-प्रत्युपकारानपेक्षतया दीयमानमिति गम्यं पातुं आपातुं, किंरूपमषधमित्याह-जिनवचनं गुणमधुरं विरेचनं - त्यागकारि सर्वदुःखानाम् ।।
मू. (२९) पंचेव०
वृ. पञ्चैव-प्राणातिपाताद्याश्रवद्वाराणि उज्झित्वा त्यक्त्वा पञ्चैवप्राणातिपातविरमणादिसंवरान् रक्षित्वा -पालयित्वा भावेन - अन्तःकरणवृत्त्या कर्मरजोविप्रमुक्ता इति प्रतीतं, सिद्धानां मध्ये वरा सिद्धिवरा - सकलकर्म्मक्षयलभ्या भावसिद्धिरित्यर्थः तां अत एव अनुत्तरां - सर्वोत्तमां यान्ति गच्छन्ति ॥
अध्ययनं - ५ – समाप्तम्
अधर्मद्वारः समाप्तम् ः
मुनि दीपरत्नसागरेण संशोधिता सम्पादीता प्रश्नव्याकरणअङ्गसूत्रे अधर्मद्वारस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
संवरद्वार:
-: संवर द्वारे अध्ययनं - १ - अहिंसा :
वृ. उक्ता आश्रवाः अथ तत्प्रतिपक्षभूतानां संवराणां प्रथमहिंसालक्षणं संवरमभिधातुकामस्तत्प्रतावनार्थं शिष्यमामन्त्र्येदमाह
पू. (३०)
-
(जंबू ! ) - एत्ती संवरदाराइं पंच वोच्छामि आणुपुव्यीए।
जह भणियाणि भगवया सव्वदुहविमोक्खणट्टाए ।।
वृ. 'जंबु' त्ति हे जम्बू ! 'एत्तो' गाहा इतः - आश्रवद्वारभणनान्तरं संवरणं संवरः- कर्मणाम
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org