________________
द्वारं-१, अध्ययनं -१,
श्रीमन्महावीरेणैवार्थतोऽस्याभिधानेऽपि यन्महर्षिभिरिति बहुवचननिर्देशेन तीर्थकरान्तराभिहितत्वमस्य प्रतिपादितं तत्सर्वतीर्थकराणां तुल्यमतत्वप्रतिपादनार्थं, विषयममतत्वे हि तेषामसर्वज्ञत्वप्रसङ्गादिति इह च महर्षिग्रहणेन तदन्येषामपि सम्भवे यत् तीर्थकरैरिति व्याख्यातं तत् 'अत्यं भासइ अरहा सुत्तं गंथति गणहरा निउण' मिति वचना- नुसारान्निरुपचरितमर्हच्छब्दप्रयोगस्य च तेष्वेव युज्यमानत्वादित, एतेन चास्य शास्त्रस्योपक्रमाख्यानुयोगद्वारसम्बन्धिनः प्रमाणाभिधानभेदस्यागमाभिधानप्रतिभेदस्याभेदभूता तीर्थकरापेक्षयाऽर्थत आत्मागमता गणधरापक्षयाऽर्थतः अनन्तरागमता तच्छिष्यापेक्षया परम्मपरागमता प्रोक्ता,
-'जम्बू' इत्यनेन सूत्रतः सुधर्म्मस्वाम्यपेक्षया आत्मागमता जम्बूस्वाम्यपेक्षयाऽनन्तरागमता तच्छिष्पापेक्षया च परम्परागमतेति, अथवा अनुगमाख्यतृतीयानुयोगद्वारस्य प्रभेदभूतो य उपोद्घातनिर्युक्त्यनुगमस्तत्सम्बन्धिनः पुरुषद्वारस्य प्रभेदभूताऽर्थतस्तीर्थकरलक्षणभावपुरुषप्रणीतता सूत्रतो गणधरलक्षणभावपुरुषप्रणीतता चास्योक्ता, तथा च गुरुपर्वक्रमलक्षणः सम्बन्धोऽप्यस्य दर्शितः, एतदुपदर्शनेन चास्मिन् शास्त्रे आप्तप्रणीततयाऽविसंवादित्वेन ग्राह्यमेतदिति बुद्धिः प्रेक्षावतामाविर्भाविता, तथा आश्रवसंवरविनिश्चयमित्यनेनास्याभिधेयमुकतं एतदभिधाने चोपक्रमद्वारान्तर्गतमर्थधिकारद्वारं तद्विशेषभूतस्वसमयवक्तव्यताद्वारेकदेशरूपमुपदर्शितमिति,
प्रवचनस्य निस्यन्दमित्यनेन तु प्रवचनप्रधानावयरूपत्वमस्योक्तं, प्रवचनस्य क्षायोपशमिकभावरूपत्वेनोपक्रमाख्यानुयोगद्वारस्य नामाख्याप्रतिभेदस्य षण्णामाख्यप्रतिद्वारस्यावतारश्च दर्शितः, षण्णामद्वारे द्यौदयिकादयः षड् भावाः प्ररूप्यन्त इति, निश्चयार्थमनेन त्वस्य शास्त्रस्य निश्चयलक्षणमनन्तरप्रयोजनमुक्तं, तद्भणनेन हि तदर्थिनः प्रेक्षावन्तोऽत्र प्रवर्त्तिता भवन्त्विति, नहि निष्प्रयोजनं प्रेक्षावन्तः कर्तु श्रोतुं वा प्रवर्त्तन्ते, प्रेक्षावत्ताहानिप्रसङ्गात्, एवं चानुगमास्यतृतीयानुयोगद्वारा स्योपोद्घातनिर्युक्त्यभिधानप्रतिद्वारस्य प्रतिभेदभूतं कारणद्वारमभिहितं, यतस्तत्रेदं चिन्त्यते - केन कारणेनेमध्यचयनमुक्तमिति, इहापि च तस्यैव निश्चयरूपस्य शास्त्रप्रतिपादनकारणस्य चिन्तितत्वात् नन्वाश्रवसंवरविनिश्चयमित्युक्तावपि निश्चयार्थमित्युच्यमानमतिरिच्यमानमिवाभाति,
३६३
यत्र ह्याश्रवसंवरा विनिश्चीयन्ते तत् तद्विनिश्चयार्थं भवत्येवेति सत्यं, किन्तु आश्रवसंवरविनिश्चयमित्यनेनाभिधेयविशेषाभिधायकत्वलक्षणं तत्स्वरूपमात्रमेव विवक्षितं, निश्चयार्थमनेन तु तत्फलभूतं प्रयोजनमिति न पुनरुक्ततेति, प्रयोजनंच प्रतिपादयतोपा-योपेयभावलक्षणोऽपि सम्बन्धो दर्शितो भवति, यत इदं शास्त्रमुपायो निश्चयश्चास्योपेयमित्येवंरूप एवासाविति यद्यपि चानुयोगद्वाराण्यध्ययनस्यैवावश्यकादावुपदश्यन्ते तथापीहाङ्गे श्रुतस्क- न्धयोरध्ययनसमुदायरूपत्वात् कथञ्चिदुपक्रमादिद्वाराणां युज्यमानत्वात् यथासम्भवं गाथावयवैदर्शितानि, अत एवाचारटीकाकृताऽङ्गमुद्दिश्य तान्युपदर्शितानि ।
अनन्तरमाश्रवसंवरा इहाभिधेयत्वेनोक्ताः, तत्रच 'यथोद्देशं निर्द्देश' इति न्यायादाश्रवांस्तावत्परिमाणतो नामतश्च प्रतिपादयन्नाह
मू. (३)
पंचविहो पन्नत्तो जिणेहि इह अण्हओ अनादीओ । हिंसामोसमदत्तं अब्बंभपरिग्गहं चेव ॥
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org