________________
अध्ययनं ६,
२९९
तंतेमिच्छा।।तएणंसे देवे कुंडकोलिएणंसमणोवासएणंएवं वुत्तेसमाणे संकिएजावकलुससमावन्ने नो संचाएइ कुंडकोलियस्ससमणोवासयस्स किंचिपामोक्खमाइक्खित्तए, नाममुद्दयं च उत्तरिज्जयं च पुढविसिलापट्टए ठवेइ २ त्ता जामेव दिसिं पाउब्भूए तामेव दिसि पडिगए।
तेणं कालेणं तेणं समएणं सामी समोसढे, तए णं से कुंडकोलिए समणोवसए इमीसे कहाए लद्धडे हट्ट जहा कामदेवो तहा निग्गच्छइ जाव पञ्जुवासइ धम्मकहा।
वृ.अथ षष्ठे किमपि लिख्यते–'धम्मपन्नत्ति'त्ति श्रुतधर्मप्ररूपणादरअशनं-मतंसिद्धान्त इत्यर्थः, उत्थानं-उपविष्टः सन् यदूद्धर्वीभवति कर्म-गमनादिकं बलं-शारीरं वीर्य-जीवप्रभवं पुरुषकारः-पुरुषत्वाभिमानः पराक्रमः-- स एव सम्पादितस्वप्रयोजनः, 'इति' उपदर्शने 'वा' विकल्पे, नास्त्येतदुत्थानादि जीवनां, एतस्य पुरुषार्थाप्रसाधकत्वात्, तदसाधकत्वं चपुरुषकारसद्भावेऽपिपुरुषार्थसिद्धयनुपलम्भात्, एवं च नियताः सर्वभावाः-थैर्यथा भवितव्यं ते तथैव भवन्ति, न पुरुषकारबलादन्यथा कर्तुं शक्यन्ते इति, आह च॥१॥
“प्राप्तव्यो नियतिबलाश्रयेण योऽर्थः,
सोहवश्यं भवति नृणां शुभोऽशुभो वा । भूतानां महति कृतेऽपि हि प्रयत्ने, नाभाव्यं भवति न भाविनोऽस्ति नाशः ॥" (तथा) ॥२॥ “न हि भवति यन्न भाव्यं भवति च भाव्यं विनाऽपि यलेन । .. करतलगतमपि नश्यति यस्य तु भवितव्यता नास्ति ।।"
इति ‘मंडुली'त्ति असुन्दरा धर्मप्रज्ञप्तिः-श्रुतधर्मप्ररूपणा, किंस्वरूपाइसा- वित्याहअस्तीत्यादि, अनियताः सर्वेभावाः-उत्थानादेर्भवन्ति तदभावान्न भवन्तीतिकृत्वेत्येवंस्व-रूपा, ततोऽसौ कुण्डकोलिकः तं देवमेवमवादीत्-यदि गोशालकस्य सुन्दरोधर्मो नास्ति कर्मादीत्यतो नियताः सर्वभावा इत्येवंरूपो मङ्गुलश्चमहावीरधर्मःअस्तिकर्मादीत्यनियताः सर्वभावाइत्येवंस्वरूपः, तन्मतमनूद्य कुण्डकोलिकस्तन्मतदूषणाय विकल्पद्वयं कुर्वन्नाह-- _ 'तुमे णमित्यादि, पूर्ववाक्ये यदीति पदोपादानादेतस्य वाक्यस्यादौ तदेति पदं द्रष्टव्यं इति, त्वयाऽयं दिव्यो देवादिगुणः केन हेतुना लब्धः? किमुत्थानादिना ‘उदाहुत्ति आहोश्चित् अनुत्थानादिना? तपोब्रह्मचर्यादीनामकरणेनेति भावः, यद्युत्थानादेरभावेनेतिपक्षो गोशालकमताश्रितत्वाद् भवतः तदा येषां जीवानां नास्त्युत्थानादि-तपश्चरणकरणमित्यर्थः 'ते' इति जीवाः किंन देवाः?, पृच्छतः अयमभिप्रायः-यथा त्वंपुरुषकारं विनादेवः संवृत्तः स्वकीयाभ्युपगमतः एवं सर्वजीवाये उत्थानादिवर्जितास्तेदेवाःप्राप्नुवन्ति, नचैतदेवमिष्टमित्युत्थानद्यपलापपक्षे दूषणं, अथत्वयेयंऋद्धिरुत्थानादिना लब्धाततोयद्वदासि-सुन्दरा गोशालकप्रज्ञप्तिरसुन्दरामहावीरप्रज्ञप्तिः इति तत्ते-तव मिथ्यावचनं भवति, तस्य व्यभिचारादिति॥
ततोऽसौ देवस्तेनैवमुक्तः सन् ‘शङ्कितः' संशयवान् जातः किं गोशालकमतं सत्यमुत महावीरमतं?, महावीरमतस्य युक्तितोऽनेन प्रतिष्ठितत्वाद्, एवंविधविकल्पवान्संवृत्तइत्यर्थः, कासितो-महावीरमतमपि साध्वेतद् युक्तयपेतत्वादिति विकल्पवान् संवृत्त इत्यर्थः, यावत्करणाझेदमापन्नो–मतिभेदमुपागतो, गोशालकमतमेव साध्विति निश्चयादपोढत्वात्, तथा कलुषसमापन्नः-प्राक्तननिश्चयविपर्ययलक्षणं, गोशालकमतानुसारिणांमतेन मिथ्यात्वंप्राप्त इत्यर्थः,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org