SearchBrowseAboutContactDonate
Page Preview
Page 85
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/३९ द्वित्रिचतुष्पञ्चषट्सप्तमासमानाः, अष्टमीनवमीदशम्यः प्रत्येकं सप्ताहोरात्रमानाः एकादशी अहोरात्रमाना द्वादशी एकरात्रमानेति, ॥१॥ तत्र ‘परडिवञ्जइ एयाओ संघणयधिइजुओ महासत्तो। पडिमाओ भावियप्पा सम्मं गुरुणा अणुन्नाओ॥ ॥२॥ गच्छेचिया निम्माओ जा पुव्वा दस भवे असंपुण्णा। नवमस्स तइय वत्थू होइजहन्नो सुयाहिगमो।। ॥३॥ वोसट्टचत्तदेहो उवसग्गसहो जहेव जिणकप्पी। एसण अभिग्गहिया भत्तं च अलेवडं तस्स ॥ ॥४॥ दुट्ठस्सहत्थिमाइ तओभएणं पयंपिनोसरइ । एमाइ नियमसेवी विहरइ जाऽखंडिओ मासो ।।" इत्यादिग्रन्थान्तराभिहितो विधिरासां द्रष्टव्यः यच्चेह एकादशाङ्गविदोऽपि मेघानगारस्य प्रतिमानुष्ठानं भणितं तत्सर्ववेदिस-मुपदिष्टत्वादनवद्यमवसेयमिति, 'यथासूत्र' सूत्रानतिक्रमेण 'यथाकल्प' प्रतिमाचारानतिक्रमेण यथामार्ग ज्ञानादयनतिक्रमेणक्षायोपशमिकभावानतिक्रमण वाकायेन न मनोरथमात्रेण 'फासेइ'त्तिउचितकाले विधिना ग्रहणात् पालयति' असकृदुपयोगेन प्रतिजागरणात् 'शोभयति' पारणकदिने गुरुदत्तशेषभोजनकरणात् शोधयति वा-अतियारपकक्षालनात् 'तीरयति' पूर्णेऽपि काले स्तोककालमवस्थानात् 'कीर्तयति' पारणकदिने इदं चेदं चैतस्याः कृत्यं कृमित्येवं कीर्तनात् । गुणानां-निर्जराविशेषाणां रचना-करणं संवत्सरेण-सत्रिभागवर्षेण यस्मिंस्तत्तपो गुणरचनसंवत्सरं गुणा एव वा रलानि यत्र स तथा गुणरलः संवत्सरो यत्र तपसि तद्गुणरलसंवत्सरमिति, इह च त्रयोदश मासाः सप्तदश दिनाधिकास्तपःकालः, त्रिसप्ततिश्च दिनानि पारणककाल इति, एवं चायं॥१॥ ___पन्नरस वीस चउवीस चेवचउवीस पण्णवीसाय। चउवीस एक्कवीसा चउवीसा सत्तवीसाय॥ तीसा तेतीसावि यचउवीस छवीस अट्ठवीसा य। तीसा बत्तीसाविय सोलस मासेसुतवदिवसा ।। एन्नरसदसट्टछप्पंचचउर पंचसुय तिण्णि तिण्णित्ति। पंचसु दो दो यतहा सोलसमासेसुपारगणा ॥" इह च यत्र मासे अष्टमादितपसो यावन्ति दिनानि न पूर्यन्ते तावन्त्यग्रेतमासादाकृष्य पूरणीयान्यधिकानि चाग्रेतनमासे क्षेप्तव्यानीति । चउत्थ;मित्यादि, चत्वारिभक्तानियत्र त्यज्यन्ते तच्चतुर्थ, इयं चोपवासस्य संज्ञा, एवंषष्ठादिरूपवासद्वयादेरिति, अणिक्खित्तेणं'ति अविश्रान्तेन 'दिया ठाणुक्कुडुएणं' दिवा-दिवसे स्थानं-आसनमुत्कुटुकं आसनेषु पुतालगनरूपं यस्य स तथा आतापयन्-आतापनांकुर्वन् वीरासणेणं ति सिंहासनोपविष्टस्य भुविन्यस्तपादस्यापनीतसिंहासनस्येवयदवस्थानंतद्वीरासनंतेन व्यवस्थित इतिगम्यते।किंभूतेन अप्रावृतेन-अविद्यमानप्रावरणेन स एव वा अप्रावृतः णंकारस्तु अलङ्कारार्थः । Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy