________________
श्रुतस्कन्धः -१, वर्ग:, अध्ययनं- 9
७५
पलम्बलंबोयराहरकरेत्ति- प्रलम्बं च लम्बी च क्रमेणोदरं च - जठणरधरकरौ च - ओष्ठहस्तौ यस्य स तथा पाठान्तरे लम्बी लम्बोदरस्येवगणपतेरिव अधरकरौ यस्य स तथा,
धनुः पृष्ठाकृति - आरोपितज्यधनुराकारं विशिष्टं - प्रधानं पृष्ठं यस्य स तथा आलीनानि - सुलिष्टानि प्रमाणयुक्तानि वर्त्तितानि - वृत्तानि पीवराणि - उपचितानि गात्राणि - अङ्गानि अपराणि - वर्णितगात्रेभ्योऽन्यानि अपरभागगतानि वा यस्य स तथा, अथवा आलीनादिविशेषणं गात्रं--उरः अपरश्च--पश्चाद्भागो यस्य स तथा, वाचनान्तरे विशेषणद्वयमिदं - अभ्युद्गता - उन्नता मुकुलमल्लिकेव- कोरकावस्थविचक्लिकुसुमवद्धवलाश्च दन्ता यस्य सोऽभ्युद्गतमुकुलमल्लिकाधवलदन्तः आनामितं यच्चापं - धनुस्तस्येव ललितं-विलासो यस्याः सा तथा सा च संवेल्लिता घ- संवेल्लन्ती सङ्कोचिता वा अग्रसुण्डा - सुण्डानं यस्य स आनामितचापललितसंवेल्लिताग्रसुण्डः,
आलीनप्रमाणयुक्तपुच्छः प्रतिपूर्णाः सुचारवः कूर्म्मवच्चरणायस्य स तथा पाण्डुराः -- शुक्ला: सुविशुद्धाः-निर्मलाः स्निग्धाः - कान्ता निरुपहताः - स्फोटादिदोषरहिता विंशतिर्नखा यस्य स तथा, तत्र त्वं हे मेघ १ ‘बहुभिर्हस्त्यादिभिः सार्द्ध संपरिवृतः आधिपत्यं कुर्वन् विहरसीति सम्बन्धः तत्र हस्तिनः - परिपूर्णप्रमाणाः लोट्टकाः- कुमारकावस्थाः कलभाः - बालकावस्थाः हस्तिसहस्य नायकः - प्रधानः न्यायको वा देशको हितमार्गादिः प्राकर्षी प्राकर्षको अग्रगामी प्रस्थापको - विविधकार्येषु प्रवर्तको यूथपतिः तत्स्वामी वृन्दपरिवर्द्धकः तदूवृद्धिकारकः 'सई पललिए'त्ति सदा प्रललितः - प्रक्रीडितः कन्दर्परतिः - केलिप्रियः मोहनशीलो - निधुवनप्रियः अवितृप्तो–मोहने एवानुपरतवाञ्छः, तथा सामान्येन कामभोगेऽतृषितः गिरिषुच - पर्वतेषु दरीषु च - कन्दरविशेषेषु कुहरेषु च पर्वतान्तरालेषु कन्दरासुच - गुहासु उज्झरेषुच - उदकस्य प्रपातेषु निर्झरिषु च स्यन्दनेषु विदरेषु च - क्षुद्रनद्याकारेषु नदीपुलिनस्यन्दजलगतिरूपेषु चा गर्तासु चप्रतीतासु पल्वलेषु च - प्रह्लादनशीलेषु चिल्ललेषु च चिक्खिल्लमिश्रेषु कटकेषु च - पर्वततटेषु कटकपल्चलेषु - पर्वततटव्यस्थितजलाशयविशेषेषु तटीषु च -- नद्यादीनां तदेषु वितटीषुच - तास्वेद विरूपासु अथवा वियडिशब्देन लोके अटवी उच्यते,
षु च - एकदिशि छिन्नेषु पर्वतेषु कुटकेषु च अधोविस्तीर्णेषूपरि संकीर्णेषु वृत्तपर्वतेषु हस्त्यादिबन्धनस्थानेषु वा शिखरेषुच - पर्वतोपरिवर्त्तिकूटेषु प्राग्भारेषुच ईषदवनतपर्वतभागेषु मञ्चेषुच-स्तम्मन्यस्तफलकमयेषु नद्यादिलङ्घनार्थेषु मालेषु च श्वापदादिरक्षार्थेषु तद्विशेषेष्वेव मञ्चमालकाकारेषु पर्वतदेशेष्वित्यन्ये काननेषु च - स्त्रीपक्षस्य पुरुषपक्षस्य चैकतरस्य भोग्येषु वनविशेषेषु अथवा यत्परतः पर्वतोऽटवी वा भवति तानि काननानि जीर्णवृक्षाणि वा तेषु वनेषु च - एकजातीयवृक्षेषु वनखण्डेषु च - अनेकजातीयवृक्षेषु वनराजीषुच - एकानेकजातीयवृक्षाणां पङ्कितषु नदीषु च प्रतीतासु नदीकक्षेषु च तद्गहनेषु यूथेषु च वानरादियूथाश्रयेषु सङ्गमेषु च - नदीमीलकेषु वापीषु च चतुरासु पुष्करिणीषु च वर्तुलासु पुष्करवतीषु वा दीर्घिकासु च - ऋजुसारिणीषु गुंजालिकासु च वक्रासिणीषु सरस्सु च जलाशयविशेषेषु सरः पङ्कितकासु च - सरसां पद्धतिषु सरः सरः पङ्कितकासु च - यासु सरः पङ्कितषु एकस्मात्सरसोऽ न्यस्मिन्नन्यस्मादन्यत्रैवं सञ्चारकपाटकेनोदकं संचरति तासु बहुविधास्तरुपल्लवाः प्रचुराणि पानीयतृणानि च यस्य भोग्यतया स तथा, निर्भयः शूरत्वात्, निरुद्विग्नः सदैव अनुकूलविषयप्राप्तेः,
--
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org