________________
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-/१/३३ कोठागारं-धान्यगृहं आयुधगारं-प्रहरणशाला, बलवंदुब्बलपञ्चमित्ते' प्रत्यमित्राः-प्रातिवेशिकाः, 'ओहयकंटयं निहयकंटयंगलियकंटयंउद्धियकंटयंअकंटयं कण्टकाः-प्रतिस्पर्द्धिनो गोत्रजाः उपहता विनाशनेन निहताः समृद्धयापहारेण गलिताः मानभङ्गेन उद्ध ता देशनिर्वासनेन अत एवाकण्टकमिति, एवं उवहयसत्तु'मित्यादि, नवरं शत्रवो गोत्रजा इति,
___ 'ववगयदुब्भिवक्खमारिभयविप्पमुक्कं खेमं सिवं सुभिक्खं पसंतडिंबडमरं' अन्वयव्यतिरेकाभिधानस्य शिष्टसंमतत्वालपुनरुक्ततादोषोऽत्र 'रजंपसाहेमाणे विहरईत्ति। 'जाया इति हे जात ! पुत्र 'किं दलयामो'त्ति भवतोऽभिमतं कि विघटयामविनाशयाम इत्यर्थः, अथवा भवतोऽभिमतेभ्याः किंदद्मः, तथा भवते एव किंप्रयच्छामः?, किंवा ते हियइच्छिय-सामत्थे'त्ति को वा तव हृदयवाञ्छितो मन्त्र इति ‘कुत्तियावणाउ'त्ति देवताधिष्ठितत्वेन स्वर्गमर्त्यपाताललक्षणभूत्रि-तयसंभविवस्तुसंपादक आपणो हट्टः कुत्रिकापणः तस्मात् आनीतं काश्यपकं च-नापितं शब्दितुं-आकारितुमिच्छामीति वर्तते, श्रीगृहात्-भाण्डागारात् 'निक्केत्ति सर्वथा विगतमलान् ‘पोत्तियाइ'त्तिवस्त्रेणं महरिहे' त्यादि, महरिहेणं'त्तिमहतां योग्येन महापूजने वा हंसस्येव लक्षणं-स्वरूपं शुक्लता हंसा वा लक्षणं-चिह्नं यस्य स तथा तेन शाटको-वस्त्रमात्रं स चपृथुलः पटोऽभिधीयतइतिपटशाटकस्तेन 'सिंदुवारे तिवृक्षविशेषोनिर्गुण्डीति केचित्तकुसुमानि सिन्दुवाराणि तानि च शुक्लानि । ___'एस गंति एतत् दर्शनमिति योगः णमित्यलंकारे, अभ्युदयेषु-राज्यलाभादिषु उत्सवेषुप्रियसमागमादिमहेषु प्रसवेषु-पुत्रजन्मसु तिथिषु-मदनत्रयोदशीप्रभृतिषु क्षणेषुइन्द्रमहादिषु यज्ञेषु-नागादिपूजासु पर्वणीषु च-कार्तिक्यादिषु अपश्चिम-अकारस्यामङ्गलपरिहारार्थत्वात् पश्चिमं दर्शनं भविष्यति, एतत्केशदर्शनपनीतकेशावस्थस्य भेषकुमारस्य यद्दर्शनं सर्वदर्शनपाश्चात्यं तद्भविष्यतीति भावः, अथवा न पश्चिममपश्चिमं--पौनःपुन्येन मेघकुमारस्य दर्शनमेतद्दर्शनेन भविष्यतीत्यर्थः ।
_ 'उत्तरावक्कमण तिउत्तरस्यांदिश्यपक्रमणं अवतरणंयस्मात्तदुत्तराप्रक्रमणं-उत्तराभिमुखं राज्याभिषेककाले पूर्वाभिमुखं तदासीदिति, 'दोच्चंपि' द्विरपि 'तच्चंपि' त्रिपपि 'श्वेतपीतैः' रजतसौवर्णेः 'पायपलंब'तिपादौ यावद्यःप्रलम्बतेऽलङ्कारविशेषः सपादप्रलम्बः, 'तुडियाईति बाहुरक्षकाः,केयूबराङ्गदयोर्यद्यपि नामकोशे बाह्यभरणतया न विशेषः तथापीहाकारभेदेन भेदो दृश्यः, 'दशमुद्रिकानन्तकं' हस्ताङ्गुलिसंबन्धि मुद्रिकादशक 'सुमणदाम'ति पुष्पमालां पिनध्यतः-परिधत्तः दर्दर:-चीवरावनद्धकुण्डिकादिभाजनमुखं तेन गालितास्तत्र पक्का वा ये 'मलय'त्तिमलयोद्भवं श्रीखण्डंतत्संबन्धिःसुगन्धयो-गन्धास्तान् पिनध्यतः,हारादिस्वरूपंप्राग्वत्, ___ ग्रन्थिमं यद्ग्रथ्यते सूत्रादिनां वेष्टिमं यद्ग्रथितं सद्वेष्टयते यथा पुष्पलम्बूसकः गेन्दुक इत्यर्थः, पूरिमं-येन वंशशलाकामयपञ्जरकादि कूर्चादि वा पूर्यते सायोगिक-यत्परस्परतो नालसंघातनेन संघात्यते अलङ्कतं कृतालों , विभूषितं-जातविभूषं ।
'सद्दावेह जाव सदाविंति' “एगा वरतरुणी त्यादि श्रृङ्गारस्यागारमिव शृङ्गारगारं अथवा शृङ्गारप्रधान आकारो यस्याश्चारुश्च वेषो यस्याः सातथा, सङ्गतेषु गतादिषुनिपुणायुक्तेषूपचारेषु कुशला च या सा तथा, तत्र विलासो-नेत्रविकारो, यदाह
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org