________________
३२
ज्ञाताधर्मकयाङ्ग सूत्रम् - 9/-/१/१८
वर्द्धितुं प्रवृत्तेषु अभ्युन्नतेषु - गगनमण्डलव्यापनेनोन्नतिमत्सु अभ्युत्थितेषु - प्रवर्षणाय कृतोद्योगेषु सगर्जितेषु - मुक्तमहाध्वनिषु सविद्युत्केषु प्रतीतं 'सफुसिएसु' त्ति प्रवृत्तप्रवर्षणबिन्दुषु सस्तनितेषु - कृतमन्दमन्दध्वनिषु ध्मातेन - अग्नियोगेन यो धीतः - शोधितो रूप्यपट्टो - रजतपत्रकं स तथा अङ्गो - रत्नविशेषः शङ्खचन्द्री - प्रतीतौ कुन्दः - पुष्पविशेषः शालिपिष्ट- राशि:- व्रीहिविशेष - चूर्णपुञ्ज एतत्समा प्रभा येषां ते तथा तेषु शुक्लेष्वित्यर्थः,
तथा चिकुरो - रागद्रव्यविशेष एव हरितालो वर्णकद्रव्यं भेदस्तद्गुटिकाखण्डं चम्पकसन कोरण्टकसर्षपग्रहणात्तत्पुष्पाणि गृह्यन्ते पद्मरजः प्रतीतं तत्समप्रभेषु, वाचनान्तरे सनस्थाने काञ्चनं सर्षपस्थाने सरिसगोत्ति पठ्यते, तत्र चिकुरादिभिः सध्शाश्च ते पद्मरजः समप्रभाश्चेति विग्रहोऽतस्तेषु पीतेष्वित्यर्थः, तथा लाक्षारसेन सरसेन सरसरक्तकिंशुकेन उवासुमनोभिः रक्तबन्धुजीवकेन, बन्धुजीवकं हि पञ्चवर्णं भवतीति रक्तत्वेन विशिष्यते, जातिहिङ्गुलकेन- वर्णकद्रव्येण स कृत्रिमोऽपि भवतीति जात्या विशेषितसरसकुङ्कुमेन, नीरसं हि विवक्षितवर्णोपेतं न भवतीति सरसमुक्तं,
तथा उरभ्रः--ऊरणः शशः - शशकस्तयो रुधिरेण रक्तेन इन्द्रगोपको - वर्षासु कीटकविशेषस्तेन च समा प्रभा येषां ते तथा तेषु रक्तेष्वित्यर्थः, तथा बर्हिणो - मयूराः नीलं - रत्नविशेषः गुलिका - वर्णकद्रव्यं शुकचाषयोः पक्षिविशेषयोः पिच्छंपत्रं भृङ्गः--कीडविशेषस्तस्य पत्रं - पक्षः सासको - बीकनामा वृक्षविशेषेः अथवा सामत्ति पाठः तत्र श्यामा-प्रियङ्गुः नीलोत्पलनिकरःप्रतीतः नवशिरीषकुसुमानि च नवशावलं - प्रत्यग्रहरितं एतत्समप्रभषु नीलप्रभेषु नीलवर्णोष्वित्यर्थः, तथा जात्यं - प्रधानं यदञ्जनं-सौवीरकं भृङ्गभेदः - भङ्गाभिधानंः कीटविशेषः विदलिताङ्गारो वा रिष्ठकं - रत्नविशेषः भ्रमरावली प्रतीता गवलगुलिका - महिषशृङ्गगोलिका कज्जलं - मषी तत्समप्रभेषु कृष्णेष्वित्यर्थः, स्फुराद्विद्युत्काश्च सगर्जिताश्च ये तेषु,
--तथा वातवशेन विपुले गगने चपलं यथा भवत्येवं 'परिसक्किरेसु' त्ति परिष्वष्कितुं शीलं येषां ते तथा तेषु, तथा निर्मलवरवारिधाराभिः प्रगलितः - क्षरितः प्रचण्डमारुतसमाहतः सन् 'समोत्थरंत 'त्ति समवस्तृणंश्च महीपीठमाक्रामन् उपर्युपरि च सातत्येन त्वरितश्च शीघ्रो यो वर्षो - जलसमूहः स तथा तं प्रवृष्टेषु वर्षितुमारब्धेषु मेघेष्विति प्रक्रमः, धाराणां 'पहकरो' ति निकरस्तस्य निपातः- पतनं केन निर्वापितं शीतलीकृतं यत्तत्तथा तस्मिन्, निर्वापितशब्दाच्च सप्तम्येकवचनलोपो दृश्यः,
--
-
Jain Education International
कस्मिन्नित्याह- मेदिनीतलेभूतले, तथा हरितकानां ह्रस्वतृणानां यो गण; स एव कञ्चुको यत्राच्छादकत्वात् तत्तथा तत्र, 'पल्लविय'त्ति इह सप्तमीवहुवचनलोपो ६श्यः, ततः पल्लवितेषु पादपगणेषु तथा वल्लीवितानेषु प्रसृतेषु - जातप्रसरेष्वित्यर्थः, तथोन्नतेषु भूप्रदेशेष्विति गम्यते सौभाग्यमुपगतेषु अनवस्थितजलत्वेनाकर्दमत्वात् पाठान्तरे नगेषु - पर्वतेषु नेदेषु वा-हदेषु तथा वैभाराभिधानस्य गिरेः ये प्रपाततटाः- भृगुतटा : कटकाश्च पर्वतैकदेशास्तेभ्यो ये विमुक्ताःप्रवृत्तास्ते कथा तेषु केषु ? 'उज्झरेसु' त्ति निज्झरिषु त्वरितप्रधावितेन यः 'पल्लोट्ट' तिप्रवृत्त उत्पन्नः फेनस्तेन आकुलं व्याप्तं । 'सकलुसं' ति सकालुष्यं जलं वहन्तीषु गिरिनदीषु सञ्जर्जुननीपकुटजानां वृश्रविशेषाणां यानि कन्दलानि -- प्ररोहाः शिलन्ध्राश्च - छत्रकाणि तैः कलितानि यानि तानि तथा
For Private & Personal Use Only
www.jainelibrary.org