________________
श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-१
अन्यान्यपि ललितानि कृतानि - न्यस्तानि आभरणानि यस्य स तथा ततः पदद्वयस्य कर्मधारयः, तथा नानामणीनां कटकत्रुटिकैः - हस्तबाहाभरणविशेषैर्बहुत्वात् स्तम्भिताविव स्तम्भिती भुजौ यस्य स तथा अधिकरूपेण सश्रीकः - सशोभो यः स तथा कुण्डलोद्योतिताननः मुकुटदीप्तशिरस्कः हारेणावस्तृतम् - आच्छादितं तेनैव सुष्ठु कृतरतिकंवक्षः - उरो यस्यासौ हारावस्तृत सुकृत रतिकवक्षाः, मुद्रिका पिङ्गलाङ्गलीकः - मुद्रिका - अङ्गुलयाभरणानि ताभिः पिङ्गलाः - कपिला अङ्गुलयो यस्य स तथा, प्रलम्बेन--दीर्घेण प्रलम्बमानेन च सुष्टुं कृतं पटेनोत्तरीयम् - उत्तरासङ्गो येन सतथा, नानामणिकनकरलैर्विमलानि महार्हाणि - महार्घाणि निपुणेन शिल्पिना 'उविय'त्ति परिकर्मितानि 'मिसिमिसंत' त्ति दीप्यमानानि यानि विरचितानि - निर्मितानि सुश्लिष्टानि सुगन्धीनि विशिष्टानिविशेषवन्त्यन्येभ्यो लष्टानि - मनोहराणि संस्थितानि प्रशस्तानि च आविद्धानि - परिहितानि वीरवलयानि येन स तथा, सुभटो हि यदि कश्चिदन्योऽप्यस्ति वीरव्रतधारी तदाऽसौ मां विजित्य मोचयत्वेतानि वलयानीति स्पर्द्धयन् यानि परिदधाति तानि वीरवलयानीत्युच्यन्ते,
२९
किं बहुना ? वर्णितेनेति शेषः, कल्पवृक्ष इव सुष्ठु अलङ्क तो विभूषितश्च फलपुष्पादिभिः कल्पवृक्षो राजा तु मुकुटादिभिरलङ्कृतो विभूषितस्तु वस्त्रादिभिरिति, सह कोरण्टकप्रधानैर्माल्यदामभिर्यच्छत्रं तेन ध्रियमाणेन, कोरण्टकः - पुष्पजातिः, तत्पुष्पाणि मालान्तेषु शोभार्थ दीयन्ते, मालायै हितानि माल्यानि-पुष्पाणि दामानि - माला इति, चतुर्णां चामराणां प्रकीर्णकानां वालैर्वीजितमङ्ग यस्येति वाक्यं मङ्गलभूतो जयशब्दः कृत आलोके-दर्शने लोकेन यस्य स तथा, -
- तथा अनेके ये गणनायकाः- प्रकृतिमहत्तरा दण्डनायकाः -- तन्त्रपाला राजानोमाण्डलिकाः ईश्वरा - युवराजानो मतान्तरेणाणिमाद्यैश्वर्ययुक्तैः " तलवराः - परितुष्टनरपतिप्रदत्तपट्टबन्धिभूषिताः राजस्थानीयाः माडम्बिकाः - छिन्नमडम्बाधिपाः कौटुम्बिका ः– कतिपयकुटुम्ब - प्रभवोऽवलगकाः मन्त्रिणः - प्रतीताः महामन्त्रिणो- मन्त्रिमण्डलप्रधानाः हस्तिसाधनोपरिका इति वृद्धाः गणका - गणितज्ञाः भाण्डागारिका इति वृद्धाः दौवारिकाः - प्रतीहाराः राजद्वारिका वा अमात्या-राज्याधिष्ठायकाः चेटा:- पादमूलिकाः पीठमर्दा - आस्थाने आसनासीनसेवकाः वयस्या इत्यर्थः 'नगर' नगरवासिप्रकृतयो निगमाः - कारणिकाः श्रेष्ठिनः -श्रीदेवताध्यासितसौवर्णपट्टविभूषितोत्तमाङ्गाः सेनापतयः - नृपतिनिरूपिताश्चतुरङ्गसैन्यनायकाः सार्थवाहाःसार्थनायकाः दूताः - अन्येषां गत्वा राजादेशनिवेदकाः सन्धिपाला - राज्यसन्धिरक्षकाः एषां द्वन्द्वः ततस्तैः, इह तृतीयाबहुवचनलोपो द्रष्टव्यः सार्द्धं-सह, न केललं तत्सहितत्वमेवापि तु तैः समितिसमन्तात् परिवृतः - परिकरित इति, नरपतिर्मज्जनगृहात्प्रतिनिष्त्रामतीति संबन्धः, किंभूतः ? - प्रियदर्शनः, क इव ? - धवलमहामेघनिर्गत इव शशी, तथा 'ससिव्व'त्ति वत्करणस्यान्यत्र सम्बन्धस्ततो ग्रहणदीप्यमानक्षतारागणानां मध्ये इव वर्तमान इति । सिद्धार्थकप्रधानो यो मङ्गलोपचारस्तेन कृतं शान्तिकर्म-विघ्नोपशमकर्म येषु तानि तथा । -
'नानामणी' त्यादि, यवनिकामाञ्छयतीति सम्बन्धः, अधिकं प्रेक्षणीयं रूपं यस्यां रूपाणि वा यस्यां सा तथा तां, महार्धा चासौ वरपत्तने-वरवस्त्रोत्पत्तिस्थाने उद्गता च-- व्यूता तां श्लक्ष्णानि बहुभक्तिशतानि यानि चित्राणि तषां स्थानं, तदेवाह - ईहामृगाः - वृकाः ॠषभाः " वृषभाः “ तुरगनरमगरविहगाः प्रतीताः व्यालाः- श्वापदभुजगाः किन्नरा - व्यन्तरविशेषाः रूरवो-भृगविशेषाः
--
For Private & Personal Use Only
www.jainelibrary.org
Jain Education International
—-