________________
२८
ज्ञाताधर्मकथाङ्ग सूत्रम्-१/-19/१७
पण्डानि-नलिनीषण्डानि तेषां बोधको यः तस्मिन् उत्थिते-उदयानन्तरावस्थावाप्ते 'सूरे आदित्ये किंभूते? --सहमरश्मी तथा “दिनकरे' दिनकरणशीले तेजसा ज्वलति सतीति ।
___ 'अट्टणसाल'त्ति अट्टनशाला व्यायामशालेत्यर्थः, अनेकानि यानि व्यायामानि योग्या च-गुणनिका वल्गनंच-उल्ललनव्यामर्दनंच-परस्परेणबाह्यद्यङ्गमोटनंमल्लयुद्धंच-प्रतीतंकरणानि च-बाहुभङ्गविशेषा मल्लशास्त्रप्रसिदअधानि तैः श्रान्तः सामान्येन परिश्रान्तो अङ्गप्रत्यङ्गापेक्षया सर्वतः शतकृत्वो यत्पक्वंशतेन वा कार्षापणानां यत्पक्वं तच्छतपक्वमेवमितरदपि सुगन्धिवरतैलादिभिरभ्यंगैरिति योगः आदिशब्दात् घृतकर्पूरपानीयादिग्रहः किम्भूतैः?
'प्रीणनीयैः' रसरूधिरादिधातुसमताकारिभिद्दीपनीयैः-अग्निजननैः दर्पणीयैः-बलकरैः मदनीयैः मन्मथबृंहणीयैर्मासोपचयकारिभिः सर्वेन्द्रियगात्रप्रसादनीयैः अभ्यंगः-स्नेहनैः अभ्यंगः क्रियतेयस्यसोऽभ्यङ्गितःसन्, ततस्तैलचर्मणि-तैलाभ्यक्तस्यसंबाधनाकरणाय यच्चर्मततैलचर्म तस्मिन् संवाहिते समणे'त्ति योगः, कैरित्याह?-पुरुषैः, कथम्भूतैः?-प्रतिपूर्णानां पाणिपादानां सुकुमालकोमलानि-अतिकोमलानितलानि-अधोभागा येषांतेतथा तैः, छेकैः-अवसरज्ञैर्द्धिसततिकलापण्डितैरिति च वृद्धाः, दक्षैः-कार्याणामविलम्बितकारिभिः प्रष्टैः-वाग्गिमभिरिति वृद्धव्याख्या, अथवा प्रष्टैः--अग्रगामिभिः कुशलैः-साधुभिःसंबाधनाकर्मणिमेधाविभिः-अपूर्वविज्ञानग्रहणशक्तिनिष्ठैः निपुणैः-क्रीडाकुशलैर्निपुणशिल्पोपगतैः-निपुणानि--सूक्ष्माणि यानि शिल्पानि-अङ्गमर्दनादीनी तान्युपगतानि-अधिगतानि यैस्ते तथा तैर्जितपरिश्रमैः,,
___ -व्याख्यान्तरंतुछेकैः प्रयोगर्दक्षैः-शीघ्रकारिभिः एत्त हिंतिप्राप्ताथै रधिकृतकर्मणि निष्ठांगतैः कुशलैः-आलोचितकारिभिःमेधाविभिः सुकृच्छ्रुतदष्टकर्मज्ञैःनिपुणैः-उपायारम्भिभिः नमिपुणशिल्पोपगतैः-सूक्ष्मशिल्पसमन्वितैरिति, अभयङ्गनपरिमर्दनोद्वलनानांकरणे ये गुणास्तेषु निर्मातैः, अस्थ्नां सुखहेतुत्वादस्थिसुखा तया 'संवाहनये ति विश्रामणया अपगतपरिश्रमः 'समंतजालाभिरामे'त्ति समन्तात्-सर्वतो जालकैर्विच्छित्तिभिः छिद्रवद्गहावयवविशेषैरभिरामो-रम्यो यः स्नानमण्डपः स तथा, पाठान्तरे 'समत्तजालाभिरामे'त्ति तत्र समस्तैर्जालकैरभिरामो यः स तथा, पाठान्तरेण 'समुत्तजालाभिरामे' सह मुक्ताजालो वर्ततेऽभिरामश्च स तथा तत्र, शुभोदकैः पवित्रस्थानाहतैः गन्धोदकैः-श्रीखण्डादिमित्रैः पुष्पोदकैः-पुष्परसमित्रैः शुद्धोदकैश्च स्वाभाविकैः, कथं मज्जित इत्याह- 'तत्र स्नानावसरे यानि कौतुकशतानि रक्षादीनि तैः 'पक्ष्मले त्यादि पक्ष्मला-पक्ष्मवतीअत एव सुकुमाला गन्धप्रधाना काषायिका-कषायरक्ता शाटिका तया लुषितमङ्गंयस्य स तथा,अहतं-मलमूषिकादिभिरनुपद्रुतंप्रत्यग्रमित्यर्थः, सुमहाध दूष्यरलं-प्रधानवस्त्रंतेन सुसंवृतः-परिगतस्तदवासुष्ठुसंवृतं परिहितंयेनसतथा, शुचिनी-पवित्रे माला च-पुष्पमाला वर्णकविलेपनं च-मण्डनकारि कुमादि विलेपनं यस्य स तथा, आविद्धानि-परिहितानिमणिसुवर्णानि येन सतथा, कल्पितो-विन्यस्तो हारः-अष्टादशसरिकः अर्द्धहारो-नवसरिकः त्रिसरिकंच प्रतीतमेव यस्य स तथा,
प्रालम्बो-झुम्बनकं प्रलम्बमानो यस्य स तथा, कटिसूत्रेण-कट्याभरणविशेषेण सुष्टु कृता शोभा यस्य स तथा, ततः पदत्रयस्य कर्मधारयः, अथवा कल्पितहारादिभिः सुकृता शोभा यस्य स तथा, तथा पिनद्धानि-परिहितानि नैवेयकाङ्गुलीयकानि येन स तथा, तथा ललिताङ्गके
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org