________________
२१
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-१ नम्रत्वाद्यत्तत्तथा तत्र, श्यतेच हंसतूल्यादिष्वयं न्याय इति । तथा उयचिय'त्ति परिकर्मितं यत् क्षौमं दूकूलं-कासिकमतसीमयं वा वस्त्रं तस्य युगलापेक्षया यः पट्टः-एकः शाटकः स प्रतिच्छादनम्--आच्छादनं यस्य तत्तथा तत्र, तथा आस्तरको मलको नवतः करुशको लिम्बः सिंहकेसरश्चैते आस्तरणविशेषास्तैःप्रत्यवस्तृतम्-आच्छादितंयत्तत्तथा, इहचास्तरको लोकप्रतीत एव मलककुशक्तौ तु रूढिगम्यौ नवतस्तु ऊर्णाविशेषमयो जीनमिति लोके यदुच्यते,
लिम्बो-बालोरभ्रस्योर्णायुक्ता कृतिः सिंहकेसरो-जटिलकम्बलः,तथा सुष्टुविरचितंशुचि वा रचितं रजस्त्राणं-आच्छादनविशेषोऽपरिभोगावस्थायां यस्मिंस्तत्तथा तत्र, रक्तांशुकसंवृते-मशकगृहाभिधानवस्त्रवृते सुरम्ये तथा आजिनक-चर्ममयो वस्त्रविशेषः सच स्वभावादतिकोमलो भवति तथा स्तं-कसिपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं-म्रक्षणं एभिस्तुल्यः स्पर्शेयस्य, तूलंवा-अर्कतूलंतत्रपक्षे एतेषामिवस्पर्शीयस्य तत्तथा तत्र, पूर्वरात्रश्चासावपररात्रश्च पूर्वरात्रापररात्रःसएव काललक्षणःसमयः नतुसामाचारादिलक्षणःपूर्वरात्रापररात्रकालसमयस्तत्र, मध्यरात्रे इत्यर्थः, इह चार्षत्वादेकरेफलोपेन 'पुव्वरत्तारवरत्ते'त्युक्तं, अपररात्रशब्दोवाऽयमिति, सुप्तजागरा-नातिसुप्ता नातिजानती, अत एवाह 'ओहीरमाणी २'ति वारं वारमीषन्निद्रां गच्छन्तीत्यर्थः, एक महान्तं सप्तोत्सेधमित्यादिविशेषणं मुखमतिगतंगजं दृष्टाप्रतिबुद्धेति योगः, तत्र सप्तोत्सेधं सप्तसु-कुम्भादिषु स्थानेषून्नतं सप्तहस्तोच्छ्रितं वा ‘रययंति रूप्यं नहयलंसि'ति नभस्त-लान्मुखमतिगतमिति योगः,
__वाचनान्तरे त्वेवं श्यते-'जाव सीहं सुविणे पासित्ता णं पडिबुद्धा' तत्र यावत्करणादिदं द्रष्टव्यं एवं चणं महंतं पंडुरंधवलयं सेयं एकार्थशब्दत्रयोपादानं चात्यन्तशुक्लताख्यापनार्थ, एतदेवोपमानेनाह–'संखउलविमलदहिधणगोखीर (विमल) फेणरयणिकरपगासं' शंखकुलस्येव विमलदध्न इव धनगोक्षीरस्येव विमलफेनस्येव रजनीकरस्येव प्रकाशः-प्रभा यस्य स तथा तं, अथवा 'हाररजतखीरसागरदगरयमहासेलपंडुरतरोरुरमणिजदरिसणिज्ज हारादिभ्यः पाण्डुरतरो यः सतथा, इहच महाशैलो-महाहिमवान्तथा उरुः-विस्तीर्णः रमणीयो-रम्योऽत एव दर्शनीय इति पदचतुष्टयस्य कर्मधारयोऽतस्तं, तथा 'थिरलट्टपउट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं' स्थिरौ--अप्रकम्पौ लष्टौ-मनोज्ञौ प्रकोष्ठौ कूर्परागेतनभागौ यस्य स तथा, तथा पीवरा:-स्थूलासुश्लिष्टाः-अविसर्वराविशिष्टा-मनोहरास्तीक्ष्णा यादंष्ट्रास्ताभिः कृत्वा विडंबियंति विवृतमुखंयस्यसतथा ततःकर्मधारयस्तं, तथा परिकम्मियजञ्चकमलकोमलमाईयसोहंतलहउटुं परिकर्मितं-कृतपरिकर्मा 'माइय'त्ति मात्रावान् परिमित् इत्यर्थः, शेषं प्रतीतं, तथा 'रत्तुप्पलपत्तमउयसुकुमाल-तालुनिल्लालियग्गजीह रक्तोत्पलपत्रमिव मृदुकेभ्यः सुकुमारमतिकोमलं तालु चनिलालिताग्रा-प्रसारिताग्रा जिह्वा च यस्य स तथा तं,
तथा 'महुरगुलियभिसंतपिंगलच्छं'मधुगुटिकेव-क्षौद्रवतिरिव 'भिसंत'त्ति दीप्यमाने पिङ्गले-कपिले अक्षिणी यस्यसतथातं, तथा मूसागयपवरकणयतावियआवत्तायंतवट्टतडियविमलसरिसनयणं' मूषागतं-मृन्मयभाजनविशेषस्थं यप्रवरकनकं तापितमाग्निधमनात् 'आवत्तायंत'त्ति आवर्तत कुर्चत् तद्वत् तथा वृत्तेच तर्दिते -विवृत्ते विमले च सशे च-समाने नयने यस्य स तथा तं, अत्र च वट्टत' इत्यातावदेव पुस्तके दृष्टं संभावनया तु वृत्ततदित इति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org