________________
ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/१/१२
अस्तरविशेषः जालं- सच्छिद्रो गवाक्षविशेषः, अर्द्धचन्द्रः - अर्धचन्द्रकारं सोपानं निर्यूहकंद्वारपार्श्वविनिर्गतदारु अंतरं - अस्तरविशेष एव पानीयान्तरमिति सूत्रधारैर्यद् व्यपदिश्यते निर्यूहकद्वयस्य यान्यन्तराणि तानि वा निर्यूहकान्त राणि कणकालीअस्तरविशेषश्चन्द्रसालिका च - गृहोपरि शाला एतेषां गृहांशानां या विभक्तिः - विभजनं विविक्तता तया कलितं युक्तं यत्तत्तथा तस्मिन्, 'सरसच्छवाडवडंबसरइए' त्ति स्थाप्यं, कैश्चित् पुनरेवं संभावितमिदं
२०
'सरसच्छधाउवलवन्नरइए' ति तत्र सरसेन अच्छेन धातूपलेन - पाषाणधातुना गैरिकविशेषेणेत्यर्थः वर्णो रचितो यत्र तत्तथा 'बाहिरओ दूमियघट्टमट्ठे त्ति दूमितं - धवलितं धृष्टं-कोमलपाषाणादिना अत एव मृष्टं-मसृणं यत्तत्तथा तस्मिन्, तथा अभ्यन्तरतः प्रशस्तं - स्वकीय २ कर्मव्यापृतं शुचि - पवित्र लिखितं चित्रकर्म यत्र तत्तथा तस्मिन्, तथा नानिविधानां जातिभेदेन पञ्चवर्णानां मणिरत्नाना सत्कं कुट्टिमतलं - मणिभूमिका यस्मिंस्तत्तथा तत्र तथा पद्मः - पद्माकारैरेवं लताभिरशोकलताभिः पद्मलताभिर्वा मृणालिकाभिः पुष्पवल्लीभिः पुष्पप्रधानाभिः पत्रवल्लिभिः तथा वराभिः पुष्पजातिभिः - मालतीप्रभृतिभिश्चित्रितमुल्लोकतलं- उपरितनभागो यस्मिन् तत्तथा तत्र, इह च प्राकृतत्वेन ‘उल्लोयचित्तियतले' इत्येवं विपर्ययनिर्देशो द्रष्टव्य इति, अथवा पद्मादिभिरुल्लोकस्य चित्रितं तलं - अधोभागो यस्मिन्निति, तथा वन्द्यन्त इति वन्दना - मङ्गल्याः ये वरकनकस्य कलशाः सुष्ठु –'निम्मिय'त्तिन्यस्ताः प्रतिपूजिताः - चन्दनादिचर्चिताः सरसपद्माः -- सरसमुखस्थगनकमलाः शोभमाना द्वारभागेषु यस्य पाठान्तरापेक्षया चन्दनवरकनककलशैः सुन्यस्तैस्तथा प्रतिपुञ्जितैःपुञ्जीकृतैः सरसपद्यैः शोभमाना द्वारभागा यस्य तत्तथा तस्मिन्,
तथा प्रतरकाणि-स्वर्णादिम या आभरणविशेषास्तत्प्रधानैर्मणिमुक्तानां दामभिः - नग्भिः सुष्ठु विरचिता द्वारशोभा यस्य तत्तथा तस्मिन्, तथा सुगन्धिवरकुसुमैर्मृदुकस्य- मृदोः पक्ष्मलस्य च - पक्ष्मवतः शयनस्य – तूल्यादिशयनीयस्य यः उपचारः - पूजा उपचारो वा स विद्यते यस्मिन्मण इत्यस्य मत्वर्थीयत्वात् तत् सुगन्धिवरकुसुममृदुपक्ष्मलशयनीयोपचारवत्तञ्च यद् हृदयनिर्वृतिकरं च--मनःस्वास्थ्यकरं तत्तथा तस्मिन्, तथा कर्पूरश्च लवङ्गानि च फलविशेषाः मलयचन्दनं च-पर्वतविशेषप्रभवं श्रीखण्डं कालागुरुश्च- कृष्णागरुः प्रवरकुन्दुरुक्कं च-चीडाभिधानो गन्धद्रव्यविशेषः तुरुष्कं च- सिल्हकं धूपश्च गन्धद्रव्यसंयोगज इति द्वन्द्वः, एतेषां वा संबन्धी यो धूपः तस्य दह्यमानस्य सुरभिर्यो मघमघायमानः - अतिशयवान् गन्धः उद्भूतः - उद्भूतः तेनाभिरामम्-अभिरमणीयं यत्तत्तथा तस्मिन्, तथा सुठु गन्धवराणां - प्रधानचूर्णानां गन्धो यस्मिन् अस्ति तत् सुगन्धवरगन्धिकं तस्मिन्, तथा गंधवर्त्तिः - गन्धद्रव्यगुटिका कस्तूरिका वा गन्धस्तद्गुटिका गन्धवर्त्तिस्तद्भूते - सौरभ्यातिशया- त्तत्कल्पे, तथा मणिकिरणप्रनाशितान्धकारे,
किंबहुना वर्णकेन ?, वर्णकसर्वस्वमिदं द्युत्या गुणैश्च सुरवरविमानं विडम्बयति जयति यद्वरगृहकं तत्तथा तत्र तथा तस्मिन् ताशे शयनीये सहालिङ्गनवर्त्या शरीरप्रमाणोपधानेन यत्तत्सालिङ्गनवर्त्तिकं तत्र, 'उभओ विव्वोयणे' त्ति उभयतः उभौ-शिरोऽन्तपादान्तावाश्रित्य 'विव्वोयणे' त्ति उपधाने यत्र तत्तथा तस्मिन्, 'दुहओ' त्तिउभयतः उन्नतेमध्ये नतं च तन्निम्नत्वाद्गभीरं च महत्त्वान्नतगम्भीरं अथवा मध्येन च भागेन तु गम्भीरे-अवनते गङ्गापुलिनवालुकायाः अवदातः - अवदलनं पादादिन्यासेऽधोगमनमित्यर्थः तेन 'सालिसए' त्ति सध्शकमति
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org