SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ १६९ श्रुतस्कन्धः-१, वर्ग:-, अध्ययनं-९ प्रावृषि पुष्यन्ति सितकुसुमाश्च भवन्ति त एव कुसुमिताः सन्तो दन्ता यस्य धवलत्वासाधात् सकन्दलसिलीन्ध्रदन्तः, इहचसिलीन्ध्राणांकुसुमितत्वविशेषणं सामर्थ्याव्याख्यातं, कुसुमाभावे तेषां प्रावृषोऽन्यत्रापि कालान्तरेसम्भवादिति, तथा निउरो'त्ति वृक्षविशेषः तस्ययानिवरपुष्पाणि तान्येवपीवरः-स्थूरःकरोयस्यसतथा, कुटजार्जनुनीपा-वृक्षविशेषास्तत्पुष्पाणिकुटजार्जुननीपानि तान्येव सुरभिदानं-सुगन्धिमदजलं यस्य स तथा, प्रावृट् ऋतुरेव गजवरः प्रावृऋतुगजवरः स्वाधीनः, इह सिलिन्ध्रादिवनस्पतीनां कालान्तराकृतकुसुमानां सदाकुसुमितानां भावादात्मवशोऽस्तीति भावः। भू. (११५) तत्थ य-सुरगोवमणिविचित्तो दहुरकुलरसियउज्झररयो। बरहिणविंदपरिणद्धसिहरो वासारत्तो उऊपव्वतो साहीणो। वृतथा तत्रैव वनखण्डे सुरगोपा-इन्द्रगोपकाभिधाना रक्तवर्णाः कीटास्त एव मणयः पद्मरागादयः तैर्विचित्र:-कर्बुरो यः स तथा, तथा दर्दुरकुलरसितं-मण्डूकसमूहरटितं तदेव उज्झररवो-निर्झरशब्दो यत्र स तथा, बर्हिणवृन्देन-शिखण्डिसमूहेन परिणद्वानि-परिगतानि शिखराणि ऋतुपक्षे वृक्षसम्बन्धीनि पर्वतपक्षे कूटानि यत्र स तथा वर्षारात्रऋतुरेव पर्वत इति विग्रहः, स्वाधीनः-स्वायत्तस्तद्धर्माणां सर्वदा तत्र भावादिति । मू. (११६) तत्थ णं तुब्भे देवाणुप्पिया! बहुसु बावीसु य जाव सरसरपंतियासु बहूसु आलीघरएसुयमालीघरएसुयजाव कुसुमघरएसु य सुहंसुहेणं अभिरममाणा विहरेजाह, जति गंतुन्भे एत्थवि उद्विग्गावा उस्सुयावा उप्पुयावाभवेजाह तो गंतुब् उत्तरिलं वणसंडं गच्छेञ्जाह, तत्थ णं दो ऊऊ सया साहीणा तं०-सरदो य हेमंतो य। वृ. 'वावीसु' इत्यादिप्रथमाध्ययनवत्, ‘सरओहेमंतोय'त्तिकार्तिकमार्गशीर्षी पौषमाधौ चेत्यर्थः, इहापि गीतिकाद्वयंमू. (११७) तत्थ उ सणसत्तवण्णकउओ नीलुप्पलपउमनलिणसिंगो। सारसचक्कवायरवितघोसो सरयऊऊगोवती साहीणो। वृ. 'तत्याउ'इत्यादि, तत्रैवसनो-वल्कप्रधानो वनस्पतिविशेषः सप्तपर्णः-सप्तच्छदस्तयोः पुष्पाणि सनसप्तपर्णानि तान्येव ककुदं स्कन्धदेशविसेषो यस्य स तथा, नीलोत्पलपद्मनलिनानि-जलजकुसुमविशेषास्तान्येव श्रृङगेयस्य स तथा, सारसाश्चक्रवाकाश्च-पक्षिविशेषां 'रवियं'ति रुतं तदेव घोषो-नर्दितं यस्य स तथा शरदतुरेव गोपतिः-गवेन्द्रः शरदतुगोपतिः स्वाधीनः। मू. (११८) तत्थय सियकुंदधवलजोण्हो कुसुमितलोद्धवणसंडमंडलतलो । तुसारदगधारपीवरकरो हेमंतऊऊससी सया साहीणो । वृ.तथैव तत्र वनखण्डे सितानि यानि कुन्दानि-कुन्दाभिधनवनस्पतिकुसुमानि तान्येव धवलाज्योत्स्ना-चन्द्रिका यस्यस तथा, पाठान्तरेण 'सितकुंदविमलजोण्हो'त्ति स्पष्टं, कुसुमितो यो लोनवनखण्डः स एव मण्डलतलं-बिम्ब यस्य स तथा, तुषारं-हिमंतप्रधानाः या उदकधारा-उदकबिन्दुप्रवाहास्ता एव पीवराः-स्थूलाः कराः-किरणा यस्य स तथा, हेमन्तऋतुरेव शशी-चन्द्र इति विग्रहः स्वाधीनः। Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy