________________
श्रुतस्कन्धः-१, वर्गः-, अध्ययन-८
१४७ सैव निवसनं-परिधानं यस्य स तथा तं, सरसं-रुधिरप्रधानं यद्गजचर्म तद्विततं-विस्तारितं यत्र तत्तथा तदेवंविधं 'ऊसवियंति उच्छृतं-ऊर्धीकृतं बाहुयुगलं येन स तथा तं, ताभिश्च तथाविधाभिःखरपरुषा-अतिकर्कशाःअस्निग्धाः-स्नेहविहीना दीप्ता-ज्वलन्त्य इवोपतापहेतुत्वात् अनिष्टा-अभिलाषाविषयभूताःअशुभाः स्वरूपेणअप्रियाः अप्रीतिकरत्वेन अकान्ताश्चविस्वरत्वेन था वाचस्ताभिः त्रस्तान् कुर्वाणं-त्रस्तयन्तं तर्जयन्तं च पश्यन्ति स्म,
__-पुनस्तत्तालपिशाचरूपं “एजमाणं'ति नावं प्रत्यागच्छत् पश्यन्ति 'समतुरंगेमाणे'त्ति आश्लिष्यन्तः, स्कन्दः कार्तिकेयः रुद्रः-प्रतीतःशिवो-महादेवः वैश्रमणो-यक्षनायकः नागोभवनपतिविशेषः भूतयक्षा-व्यन्तरभेदाःआर्या-प्रशान्ताप्रसन्नरूपादुर्गा कोट्टक्रिया सैव महिषारूढरूपा, पूजाभ्युपगमपूर्वकाणि प्रार्थनानि उपयाचटितान्युच्यन्ते, उपयाचितवन्तोविदधतस्तिष्ठन्ति स्मेति, अर्हन्नकवर्जानामियमितिकर्तव्यतोक्ता, अधुनाऽर्हन्नकस्य तामाह
'तएणमित्यादि, 'अपत्थियपत्थिय' त्ति अप्रार्थितं यत्केनापिन प्राथ्यते तप्राथ्यति यः सतथा तदामन्त्रणं पाठान्तरेण अप्रस्थितःसन्यः प्रस्थितइवमुमूर्षुरित्यर्थःसतथोच्यतेतस्यामन्त्रणं हे अप्रस्थितप्रस्थित!, यावत्करणात् 'दुरंतपं तलक्खणे'त्ति दुरन्तानि-दुष्टपर्यन्तानि प्रान्तानिअपसदानि लक्षणानि यस्य स तथा तस्यामन्त्रणं 'हीणपुण्णचाउद्दसी' इति हीना-असमग्रा पुण्या-पवित्रा चतुर्थी तिथिर्यस्य जन्मनि सतथा, चतुर्दशीजातो हि किल भाग्यवान् भवतीति आक्रोशे तदभावो दर्शित इति, सिरिहिरिधीकित्तिवज्जिय'त्ति प्रतीतं, 'तवसीलव्वए'त्यादि, तत्र शीलव्रतानि-अणुव्रतानिगुणाः--गुणव्रतानि विरमणानि-रागादिविरतिप्रकाराःप्रत्याख्यानानिनमस्कारसहितादीनि पौषधोपवासः-अष्टम्यादिषु पर्वदिनेश्र्वसनं आहारशरीरसत्काराब्रह्मव्यापारपरिवर्जनमित्यर्थः, एतेषां द्वन्द्वः, 'चालित्तए'त्ति मङ्गकान्तरगृहीतान् भङ्गकान्तरेण कर्तुक्षोभयितुं-एतान्येवं परिपालयाम्युतोज्झामीति क्षोभविषयान् कर्तुखण्डयितुं-देशतः भऋतुं सर्वतः उज्झितुं-सर्वस्या देशविरतेस्त्यागेन परित्यक्तुं-सम्यकत्वस्यापि त्यागत इति, _ 'दोहिं अंगुलीहिं'तिअङ्गुष्टकतर्जनीभ्यां अथवा तर्जनीमध्यामाभ्यामिति, 'सत्तट्टतलप्पमाणमेत्तायतितलो-हस्ततलःतालाभिधानोवाऽतिदीर्घवृक्षविशेषः स एव प्रमाणं-मानंतलप्रमाणं सप्ताटी वा सप्ताष्टानि तलप्रमाणानि परिमाणं येषां ते सप्ताष्टतलप्रमाणमात्रास्तान गगनभागान यावदिति गम्यते 'उड्डवेहासंति ऊर्ध्वं विहायसि-गगने 'उबिहामि त्ति नयामि 'जेणं तुम'ति येन त्वं 'अदुहट्टवसट्टे'त्ति आर्तस्य-ध्यानविशेषस्य यो 'दुहट्ट'त्ति दुर्घटः दुःस्थगो दुर्निरोधो वशः-पारतन्त्र्यं तेन ऋतः-पीडितः आतंदुर्घटवशातः, किमुक्तं भवति? ---
असमाधिप्राप्तः, ववरोविज्जसि तिव्यपरोपयिष्यसिअपेतोभविष्यसीत्यर्थः, 'चालित्तए'त्ति इह चलनमन्यथाभावत्वं, कथं ? -'खोभित्तए'त्ति क्षोभयितुं संशयोत्पादनतः तथा विपरिणामित्तए'त्ति विपस्णिमयितुं विपरीताध्यवसायोत्पादनत इति, 'संते'इत्यादौ यावत्करणात् 'तंते परितंते' इति द्रष्टव्यं, तत्र श्रान्तो वा मनसा तान्तः-कायेन खेदवान् परितान्तः-सर्वतः खिन्नः निर्बिण्णः-तस्मादुपसर्गकरणादुपरतः, लद्धे'त्यादि, तत्र लब्धा-उपार्जनतःप्राप्ता तप्राप्तेरभिसमन्वागता-सम्यगासेवनतः, 'आइक्खई'इत्यादि, आख्याति सामान्येन भाषते विशेषतः, एतदेव द्वयंक्रमेण पर्यायशब्दाभ्यामुच्यते प्रज्ञापयति प्ररूपयति,
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org