SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ ज्ञाताधर्मकथाङ्ग सूत्रम् - १/-/३/५७ सद्धिं पचत्तरंति जेणेव थूणामंडवे तेणेव उवागच्छंति २ धूणामंडवं अणुपविसंति २ सव्वालंकारविभूसिया आसत्था वीसत्था सुहासणवरगया देवदत्ताए सद्धिं तं विपुलं असणं ४ धूयपुप्फगंधवत्थं आसाएमाणा वीसाएमाणा परिभुंजेमाणा एवं च णं विहरंति, जिमियभुत्तुत्तरागयाविय णं समाणा देवदत्ताए सद्धिं विपुलातिं माणुस्सगाइं कामभोगाई भुंजमाणा विहरंति । १०२ 'वृ. 'चउसडी' त्यादि, चतुःषष्टिकलाः गीतनृत्यादिकाः स्त्रीजनोचिता वात्स्यायनप्रसिद्धाः चतुःषष्टिगणिकागुणाः आलिङ्गनादिकानामष्टानां क्रियाविशेषाणां प्रत्येकमष्टभेदत्वात्, एतेऽपि वात्स्यायनप्रसिद्धाः, एवं विशेषादयोऽपि, 'नवंगसुत्तपडिबोहिय' त्ति प्राग्वत् नवयौवनेति भावः 'संगयगयहसिय' इत्येनेनेदं सूचितं 'संगयगयहसियभणियविहियविलाससललियसंलावनिउणजुत्तोवयारकुसला' व्याख्यात्वस्य पूर्ववत्, वाचनान्तरे त्विदमधिकं 'सुंदरथणजघणवयणचरणनयणलावण्णरूव जोव्वणविलासकलिया' उच्छ्रितध्वजा सहैर्भाट्यां लाभो यस्याः सा तथा, वितीर्णानि राज्ञा छत्रचामराणि वालवीजनिका च चामरविशेषो यस्याः सा तथा, कर्णीरथः - प्रवहणविशेषस्तेन प्रयातं - गमनं यस्याः सा तथा, कर्णीरथो हि ऋद्धिमतां केषांचिदेव भवतीति सोऽपि तस्या अस्तीत्यतिशयप्रतिपादनार्थोऽपिशब्द इति, स्थूणाप्रधानो वस्त्राच्छादिती मण्डपः स्थूणामण्डपः ‘आहणह' त्ति निवेशयतेति भावः, 'लघुकरणे' यादि, लघुकरणं गमनादिका शीघ्रक्रिया दक्षत्वमित्यर्थः तेन युक्ता ये पुरुषास्तैर्योजितं यत्रयूपादिभिः सम्बन्धितं यत्तत्तथा प्रवहणमिति सम्बन्धः, पाठान्तरेण 'लघुकरणजुत्तएहिं ति तत्र लघुकरणेन - दक्षत्वेन युक्तौ यौजितौ यौ तौ तथा ताभ्यां ककार इह स्वार्थिकः, गोयुवभ्यां युक्तमेव प्रवहणमुपनयतेति सम्बन्धः, समखुरवालधानौ -- समानशफपुच्छौ समे-तुल्ये लिखिते - शस्त्रेणापनीतबाह्यत्वक्के तीक्ष्णे शृङ्गे ययोस्ती तथा ततः कर्मधारयः, ताभ्यां वाचनान्तरे - , जंबूणयमयकलावजुत्तपइविसिट्ठएहिं' जम्बूनदमयी- सुवर्णमयी कलॉपी- कण्ठाभरणविशेषौ योस्त्रे च-यूपेन सह कण्ठसंयमनरज्जू प्रतिविशिष्टे ययोस्तौ च तथा ताभ्यां रजतमयीरूप्यविकारौ घण्टे ययोस्तौ तथा, सूत्ररज्जुके- कार्पासिकसूत्रदवरकमय्यौ वरकनकखचिते ये नस्ते--नासिकान्यस्तरज्जुकेतयोः प्रग्रहेण - रश्मिना अवगृहीतकौ - बद्धौ यौ तथा ततः कर्मधारयोऽतः ताभ्यां नीलोत्पलकृतापीडाभ्यां आपीडः - शेखरः, प्रवरगोयुवभ्यां, नानामणिरत्नकाञ्चनघण्टिकाजालेन परिक्षिप्तं प्रवरलक्षणोपेतं, वाचनान्तरेऽधिकमिदं 'सुजातजुगजुत्तउज्जुगपसत्यसुविरइयनिम्मियं 'ति तत्र सुजातं - सुजातदारुमयं युगं-यूपः युक्तं संगतं ऋजुकं - सरलं प्रशस्तं शुभं सुविरचितं - सुघटितं निर्मितं - निवेशितं यत्र तत्तथा, युक्तमेव-सम्बद्धमेव प्रवहणं - यानं परिदक्षमन्त्रीत्यर्थः ' किन्ते जाव सिरी' त्यादि व्याख्यातं धारिणीवर्णके । भू. (५८) तते णं ते सत्थवाहदारगा पुव्वावरण्हकालसमयंसि देवदत्ताए गणियाए सद्धिं थूणामंडवाओ पडिनिक्खमति २ हत्थसंगेल्लीए सुभूमिभागे बहुसु आलिधरएसु य कयलीधरेसु य लयाधरएसुय अच्छणधरएसु य पेच्छणधरएसु य पसाहणधरएसु य मोहणधरएसु य सालधरएसु य जालधरएसु य कुसुमधरएसु य उज्जाणसिरिं पञ्चणुभवमाणा विहरंति । वृ. 'हत्थसंगेल्लीए' त्ति अन्योऽन्यं हस्तावलम्बनेन, 'आलिघरसुय कयलिधरएसुय' आलीकदल्यौ वनस्पतिविशेषौ, 'लताघर ऐसु य' लताः - अशोकादिलता 'अच्छणघरएसुय' अच्छणंति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003340
Book TitleAgam Sutra Satik 06 Gnatadharmakath AngSutra 06
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages280
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 06, & agam_gyatadharmkatha
File Size7 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy