________________
भगवतीअङ्गसूत्रं (२) २५/-19/८६३ वीर्यान्तरायक्षयोपशमादिसमुत्थकायादिपरिस्पन्दस्य एतस्य च योगस्य चतुर्दशजीवस्थानसम्बन्धाजघन्योत्कर्षभेदाचाष्टाविंशतिविविधस्यात्पबहुत्वादिजीवस्थानकविशेषाद्भवति
तत्र 'सव्योवे इत्यादि सूक्ष्मस्य पृथिव्यादेः सूक्ष्मत्वात् शरीरस्य तस्याप्यपर्याप्तकत्वेनासम्पूर्णत्वात् तत्रापि जघन्यस्य विवक्षितत्वात्सर्वेभ्यो वक्ष्यमाणेभ्यो योगेभ्यः सकाशास्तोकः -सर्वस्तोकोभवति जघन्यो योगः, स पुनर्वैग्रहिककार्णऔदारिकपुद्गलग्रहणप्रथमसमयवर्ती, तदनन्तरंच समयवृद्धयाऽजघन्योत्कृष्टो यावत्सर्वोत्कृष्टो न भवति।
बायरसे त्यादि बादरजीवस्य पृथिव्यादेरपर्याप्तकजीवस्यजघन्योयोगःपूर्वोक्तापेक्षयाऽसङ्ख्यातगुणः-असङ्घख्यातगुणवृद्धो बादरत्वादेवेति, एवमुत्तरत्राप्यसङ्ख्यातगुणत्वं दृश्यम्, इह च यद्यपि पर्याप्तकत्रीन्द्रियोत्कृष्टाकायापेक्षया पर्याप्तकानां द्वीन्द्रियाणां संज्ञिनामसंज्ञिनां च पञ्चेन्द्रियाणामुत्कृष्टः कायः सङ्घख्यातगुणोभवति सङ्ख्यातयोजनप्रमाणत्वात् तथाऽपीह योगस्य परिस्पन्दस्य विवक्षितत्वात् तस्य च क्षयोपशमविशेषसामर्थ्याद यथोक्तमसङ्ख्यातगुणत्वं न विरुध्यते, न ह्यल्पकायस्याल्प एव स्पन्दो भवति महाकायस्य वा महानेव, व्यत्ययेनापि तस्य दर्शनादिति । योगाधिकारादेवेदमाह
. मू. (८६४) दो भंते ! नेरतिया पढमसमयोववन्नगा किं समजोगी किं विसमजोगी?, गोयमा ! सिय समजोगी सियविसमजोगी, से केणडेणं भंते ! एवं वुच्चति सिय समजोगी सिय विसमजोगी?
गोयमा ! आहारयाओ वा से अनाहारए अनाहारयाओ वा से आहारए सिय हीणे सिय. तुल्ले सिय अब्भहिए जइ हीणे असंखेजइभागहीणे वा संखेजइभागहीणे वा संखेजगुणहीणे वा असंखेनगुणहीणे वा अह अन्महिए असंखेजइभागमब्भहिए वा संखेज्जइभागमभहिए वा संखेज्जगुणमब्भहिए वा असंखेनगुणमब्भहिए वा से तेगडेणं जाव सिय विसमजोगी एवं जाव माणियाणं॥
वृ. 'दो भंते' इत्यादि, प्रथमः समय उपपन्नयोर्ययोस्तौ प्रथमसमयोपपन्नौ, उपपत्तिश्चेह नरकक्षेत्रप्राप्ति सा च द्वयोरपि विग्रहेण ऋजुगत्या वा एकस्य वा विग्रहेणान्यस्य ऋजुगत्येति, 'समजोगि'त्ति समो योगो विद्यते ययोस्ती समयोगिनौ एवं विषमयोगिनौ, 'आहारयाओ वा' इत्यादि, आहारकाद्वा-आहारकं नारकमाश्रित्य सेत्तिस नारकोऽनाहारकः अनाहारकाद्वाअनाहारकं नारकमाश्रित्याहारकः, किम् ? इत्याह
'सिय हीणे'त्ति योनारको विग्रहाभावेनागत्याहारक एवोत्पत्रोऽसौ निरन्तराहारकत्वादुपचित एव, तदपेक्षया च यो विग्रहगत्वाऽनाहारको भूत्वोत्पन्नोऽसौ हीनः पूर्वमनाहारकत्वेनानुपचितत्वाद्धीनयोगत्वेन च विषमयोगी स्यादिति भावः, "सिय तुल्ले'त्ति यौ समानसमयया विग्रहगत्याऽनाहारको भूत्वोत्पन्नौ ऋजुगत्या वाऽऽगत्योत्पन्नौ तयोरेक इतरापेक्षया तुल्यः समयोगी भवतीति भावः।
'अब्भहिए'त्ति यो विग्रहाभावेनाहारक एवागतोऽसौ विग्रहगत्यनाहारकापेक्षयोपचिततरत्वेनाभ्यधिको विषमयोगीति भावः, इह च 'आहारयाओ वा से अनाहारए' इत्यनेन हीनतायाः अनहारयाओवाआहारए' इत्यनेनचाभ्यधिकताया निवन्धनमुक्तं, तुल्यतानिबन्धनं
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org