SearchBrowseAboutContactDonate
Page Preview
Page 912
Loading...
Download File
Download File
Page Text
________________ ३४५ शतकं-२४, वर्गः:, उद्देशकः-१२ वृ. 'जई'त्यादि, तत्रच ‘एवंजहे त्यादि, यथा हि असंज्ञिपञ्चेन्द्रियतिरश्चोजघन्यस्थितिकस्य त्रयो गमास्तथैव तस्यापि त्रय औधिकागमा भवन्ति, जघन्योत्कृष्टस्थितिकत्वात्, संमूर्छिममनुष्याणां न शेषगमषट्कसम्भव इति ।। अथ संज्ञि मनुष्यमधिकृत्याह-- 'जइ सन्नी'त्यादि, 'जहेव रयणप्पभाए उववजमाणस्स'त्तिसंज्ञि मनुष्यस्यैवेति प्रक्रमः, 'नवर 'मित्यादि, रत्नप्रभायामुत्पित्सोर्हि मनुष्यस्यावगाहनाजघन्येनामुलपृथक्त्वमुक्तमिह त्वङ्गुलासङ्खयेयभागः, स्थितिश्च जघन्येन मासपृथक्त्वं प्रागुक्तमिह त्वन्तर्मुहूर्तमिति, संवेधस्तु नवस्वपि गमेषु यथैव पृथिवीकायिकेषूत्पद्यमानस्य संज्ञिपञ्चेन्द्रियतिरश्च उक्तस्तथैवेह वाच्यः, संज्ञिनो मनुष्यस्य तिरश्चश्च पृथिवीकायिकेषु समुत्पित्सोर्जघन्यायाः स्थितेरन्तर्मुहूर्तप्रमाण-त्वादुत्कृष्टायास्तु पूर्वकोटीप्रमाणत्वादिति। मज्झिल्ले' त्यादिजघन्यस्थितिकसम्बन्धिनि गमत्रयेलब्धिस्तथेह वाच्या यथातत्रैव गमत्रये संज्ञिपञ्चेन्द्रियतिरश्च उक्ता सा च तत्सूत्रादेवेहावसेया, 'पच्छिल्ले'त्यादि, औघिकगमेषु हि अङ्गुलासङ्खयेयभागरूपाऽप्यवगानाऽन्तर्मुहूर्तरूपाऽपि स्थितिरुक्ता सा चेह न वाच्या अत एवाह-'नवरंओगाहणे' त्यादि । अथ देवेभ्यस्तमुत्पादयन्नाह-'जई त्यादि, छण्हं संघयणाणंअसंघयणि'त्ति, इह यावत्करणादिदं दृश्यं-'नेणेवट्ठी नेव छिरा नेव पहारू नेव संघयणमत्थि जे पोग्गला इट्ठा कंता पिया मणुना मणामा तेतेसिं सरीरसंघायत्ताए'त्ति, 'तत्थ णंजा सा भवधारणिज्जा सा जहन्नेणं अंगुलस्स असंखेज्जइभाग'ति उत्पादकालेऽनाभोगतः कर्मपारतन्त्र्यादङ्गुलासङ्खयेयभागमात्रावगाहना भवति, उत्तरवैक्रिया तु जघन्याङ्गुलस्य सङ्खयेयभागमाना भवित आभोगजनितत्वात्तस्या न तथाविधा सूक्ष्मता भवति याशी भवधारणीयाया इति। . ___ 'तत्थ णं जे ते उत्तरवेउब्विया ते नानासंठिय'त्ति इच्छावशेन संस्थाननिष्पादनादिति, 'तिनिअन्नाणा भयणाए'त्ति येऽसुरकुमारा असंज्ञिभ्य आगत्योत्पद्यन्ते तेषामपर्याप्तकावस्थायां विभंगस्याभावात् शेषाणां तु तद्भावादज्ञानेषु भजनोक्ता, 'जहन्नेणं सदवाससहस्साई अंतोमुत्तमब्भहियाईति तत्र दशवर्षसहम्नाण्यसुरेषुअन्तर्मुहूर्त पृथिवीकायिकेष्विति, इत्थमेव 'उक्कोसेणं साइरेगं सागरोवमं' इत्याधपि भावनीयम्, एतावानेव चोत्कर्षतोऽप्यत्र संवेधकालः, पृथिवीत उद्धृत्तस्यासुरकुमारेषूत्पादाभावादिति, 'मन्झिल्लएसु पच्छिल्लएसु'इत्यादि, अयं चेह स्थितिविशेषो मध्यमगमेषुजघन्यासुरकुमाराणां दशवर्षसहस्राणि स्थिति अन्त्यगमेषुच साधिकं सागरोपममिति। ___ ज्योतिष्कदण्डके 'तिन्नि नाणा तिन्नि अन्नाणा नियमति इहासंज्ञी नोत्पद्यते संज्ञिनस्तूत्पत्तिसमयएव सम्यग्दृष्टेस्त्रीणज्ञानानिमत्यादीनिइतरस्यत्वज्ञानानिमत्यज्ञानादीनि भवन्तीति, 'अट्ठभागपलिओवमं'ति अष्टमो भागोऽटभागः स एवावयवे समुदायोपचारादष्टभागपल्योपमं, इदं च तारकदेवदेवीराश्रित्योक्तम्, 'उक्कोसेणं पलिओवमं वाससयसहस्समब्भहिय'ति इदं च चन्द्रविमानदेवानाश्रित्योक्तमिति । अथ वैमानिकेभ्यस्तमुत्पादयन्नाह–'जई'त्यादि, एतच्च समस्तमपि पूर्वोक्तानुसारेणा-वसेयमिति॥ शतकं-२४ उद्देशकः-१२ समाप्तः Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy