________________
शतकं-२४, वर्गः-, उद्देशकः-१२
३३९
त्पत्तिस्थानभूतानामुत्कृष्टस्थितिकत्वात्, 'अंतोमुहुतमब्महियाईतिअप्कायिकस्यतत्रोत्पित्सोधिकत्वेऽपि जघन्यकालस्य विवक्षितत्वेनान्तर्मुहूर्त्तस्थितिकत्वात्, “उक्कोसेणं सोलसुत्तरं वाससयसहस्सं'ति, इहोत्कृष्टस्थितिकत्वात्पृथिवीकायिकानां तेषां च चतुर्णा भवानां भावात् तत्रोत्पिसोचाप्कायिकस्यौधिकत्वेऽप्युत्कृष्टकालस्य विवक्षितत्वादुत्कृष्टस्थितयश्चत्वारस्तद्भवाः, एवंच द्वाविंशतेर्वर्ष सहस्राणां सप्तानांच प्रत्येकं चतुर्गुणितत्वे मीलने च षोडशहनाधिकं लक्षं भवति । 'छडे गमए' इत्यादि, षष्ठे गमे हि जघन्यस्थितिक उत्कृष्टस्थितिषूत्पद्यत इत्यन्तर्मुहूर्तस्य वर्षसहस्रद्वाविंशतेश्च प्रत्येकं चतुर्भवग्रहणगुणितत्वे यधोक्तमुत्कृष्टं कालमानं स्यात् अत एव सप्तमादिगमसंवेधा अप्यह्याः नवरं नवमे गमे जघन्येनैकोनत्रिंशद्वर्षसहस्राणि अप्कायिकपृथिवीकायिकोत्कृष्टस्थितेर्मीलनादिति । ____ अथ तेजस्कायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह-'जई'त्यादि, 'तिनि लेसाओ'त्ति अकायिकेषु देवोत्पत्तेः तेजोलेश्यासद्भावाच्चतमस्ता उक्ताः इह तु तदभावात्ति एवेति, 'ठिई जाणियव्य'ति तत्र तेजसो जघन्या स्थितिरन्तर्मुहूर्त्तमितरा तुत्रीण्यहोरात्राणीति ।
'तईयगमे इत्यादि, तृतीयगमेऔधिकस्तेजस्कायिक उत्कृष्टस्थितिषुपृथिवीकायिकेषूत्पद्यते इत्यत्रैकस्य पक्षस्योत्कृष्टस्थितिकत्वमतोऽष्टौ भवग्रहणान्युत्कर्षतः, तत्रच चतुर्युपृथिवीकायिकोस्कृष्टभवग्रहणेषु द्वाविंशतेर्वर्षसहस्राणां चतुर्गुणितत्वेऽष्टाशीतिस्तानि भवन्ति, तथा चतुर्वेद तेजस्कायिकभवेषूत्कर्षतः प्रत्येकमहोरात्रत्रयपरिमाणेषु द्वादशाहोरात्राणीति, ‘एवं संवेहो उवजुंजिऊण भाणियब्वोत्ति, सचैवं-षष्ठादिनवान्तेषु गमेष्वष्टौ भवग्रहणानि तेषुच कालमानं यथायोगमभ्यूां, शेषगमेषु तूत्कृष्टतोऽसङ्घयया भवाः कालोऽप्यसङ्ख्येय एवेति ।
अथ वायुकायिकेभ्यः पृथिवीकायिकमुत्पादयन्नाह- 'जईत्यादि, संवेहोवाससहस्सेहिं कायव्यो'त्ति तैजस्कायिकाधिकाऽहोरात्रैः संवेधः कृतः इह तुवर्षसहनैः सकार्यो वायूनामुत्कर्षतो वर्षसहस्रत्रयस्थितिकत्वादिति ।। ___ 'तइयगमए' इत्यादि, 'उक्कोसेणं एवं वासप्सयसहस्संति अत्राष्टौ भवग्रहणानि तेषु च चतुर्घष्टाशीतिवर्षसहस्राणि पुनरन्येषु चतुर्पु वायुसत्केषु वर्षसहनत्रयस्य चतुर्गुणितत्वे द्वादश उभयमीलने च वर्षलक्षमिति, ‘एवं संवेहो उवजुंजिऊण भाणियव्वोत्ति स च यत्रोत्कृष्टस्थितसम्भवस्तत्रोत्कर्षतोऽष्यै भवग्रहणानि इतरत्र त्वसङ्ख्येयानि, एतदनुसारेणच कालोऽपि वाच्य इति ।
अथवनस्पतिभ्यस्तमुत्पादयन्नाह-'जइवणस्सई'त्यादि, 'वणस्सइकाइयाणंआउक्काइयगमसरिसा नव गमा भाणियव्य'त्ति, यस्त्वत्र विशेषस्तमाह-'नानासंठिए'त्यादि, अप्कायिकानां स्तिबुकाकारवगाहना एषांतुनानासंस्थिता ।
तथा पढमएसु'इत्यादि,प्रथमकेष्वौधिकेषुगमेषुपाश्चात्येषुचोत्कृष्टस्थितिकगमेष्ववगाहना वनस्पतिकायिकानां द्विधाऽपि मध्यमेषु जघन्यस्थितिकगमेषु त्रिषु यथा पृथिवीकायिकानां पृथिवीकायिकेषूत्पद्यमानानामुक्तातथैव वाच्या, अड्डलासङ्ख्यातभागमात्रैवेत्यर्थः, संवेहो ठिई यजाणियव्य'त्ति तत्रस्थितिरुत्कर्षतोदशवर्षसहस्राणिजघन्या तु प्रतीतैव, एतदनुसारेणसंवैधोऽपि ज्ञेयः, तमेवैकत्र गमे दर्शयति-'तइए'इत्यादि, 'उक्कोसेणं' अट्ठावीसुत्तरं वाससयसहस्संति, इह गमे उत्कर्षतोऽष्टौ भवग्रह-णानितेषु च चत्वारि पृथिव्याश्चत्वारि च वनस्पतेः तत्र चतुर्षु पृथिवी
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org