________________
शतकं - २४, वर्ग:, उद्देशकः - २
इह पल्योपमासङ्घयेयभागग्रहणेन पूर्वकोटी ग्राह्या, यतः संमूर्च्छिमस्योत्कर्ष पूर्वकोटीप्रमाणमायुर्भवति, स चोत्कर्षतः स्वायुष्कतुल्यमेव देवायुर्वघ्नाति नातिरिक्तं, अत एवोक्तं चूर्णिकारेण“उक्कोसेणं स तुल्लपुव्वकोडी आउयत्तं निव्वत्तेइ, नय संमुच्छिमो पुव्वकोडीआयत्ताओ परो अस्थि त्ति । असङ्ख्यातवर्षायुः सञ्ज्ञिपञ्चेन्द्रियतिर्यग्गमेषु 'उक्कोसेणं तिपलिओवमट्ठिएसु उववज्रेज' त्ति, इदं देवकुर्वादिमिथुनकतिरश्चोऽधिकृत्योक्तं, ते हि त्रिपल्योपमायुष्कत्वेनासङ्ख्यात- वर्षायुषी भवन्ति, ते च स्वायुः सदृशं देवायुर्वघ्नन्तीति ।
'संखेज्जा उपवनंति 'त्ति असङ्ख्यातवर्षायुस्तिरश्चामसङ्ख्यातानां कदाचिदप्यभावात्, 'वयरोसहनारायसंघयणी'ति असङ्ख्यातवर्षायुषां यतस्तदेव भवतीति, 'जहन्त्रेणं धनुहपुहुत्तं ' ति इदं पक्षिणोऽधिकृत्योक्तं, पक्षिणामुत्कृष्टतो धनुः पृथकत्वप्रमाणशरीरत्वात्, आह च - "धणुयपुहुत्तं पक्खिसुत्ति असङ्ख्यातवर्षायुषोऽपि ते स्युर्यदाह - 'पलिय असंखेज्जपक्खीसु' त्ति पल्योपमासङ्घयेयभागः पक्षिणामायुरिति, 'उक्कोसेणं छ गाउयाई 'ति ।
३३३
इदं च देवकुर्वादिहस्त्यादीनधिकृत्योक्तं, 'नो नपुंसगवेय'त्ति असङ्ख्यातवर्षायुषो हि नपुसकवेदा न संभवन्त्येवेति, 'उक्कसेणं छप्पलि ओवमाई' ति त्रीण्यसङ्ख्यातवर्षायुस्तिर्यग्भवसम्बन्धीनि त्रीणि चासुरभवासम्बन्धीनीत्येवं षट्, न च देवभवादुद्वृत्तः पुनरप्यसङ्ख्यातवर्षायुष्केषूत्पद्यत इति ।' सो चेव अप्पणा जहन्नकालट्ठितीओ' इत्यादिश्चतुर्थो गमः, इह च जघन्यकालस्थितिकः सातिरेकपूर्वकोट्यायुः सच पक्षिप्रभृतिकः प्रक्रान्तः 'उक्कोसेणं सातिरेगपुव्वकोडिआउए सो त्ति असङ्ख्यातवर्षायुषां पक्ष्यादीनां सातिरेकं पूर्वकोटिरायुः ते च स्वायुस्तुल्यं देवायुः कुर्वन्तीतिकृत्वा सातिरेकेत्याद्युक्तमिति, 'उक्कोसेणं सातिरेगं घणुसहस्सं 'ति यदुक्तं तत् सप्तमकुलकरप्राक्कालभाविनो हस्त्यादीनपेक्ष्येति संभाव्यते ।
तथाहि - इहासङ्ख्यातवर्षायुर्जघन्यस्थितिकः प्रक्रान्तः स च सातिरेकपूर्वकोट्यायुर्भवति तथैवागमे व्यवहृतत्वात् एवंविधश्च हस्त्यादि सप्तमकुलकरप्राक्काले लभ्यते, तथा सप्तमकुलकरस्य पञ्चविंशत्यधिकानि पञ्च धनुः शतानि उच्चैस्त्वं तत्प्राक्कालभाविनां च तानि समधिकतराणीति तत्कालीनहस्त्यादयश्चैतद्विगुणोच्छ्रायाः अतः सप्तमकुलकरप्राक्कालभाविनामसङ्ख्यातवर्षायुषां हस्त्यादीनां यथोक्तमवगाहनाप्रमाणं लभ्यत इति, 'सातिरेगाओ दो पुव्वकोडीओ' इति एका सातिरेका तिर्यग्भवसत्काऽन्या तु सातिरेकैवासुर भवसत्केति ४ ।
'असुरकुमारट्ठिई संवेहं च जाणिज्ज' त्ति तत्र जघन्याऽ सुरकुमारस्थितिर्दशवर्षसहस्राणि संवेधस्तु सातिरेका पूर्वकोटी दशवर्षसहस्राणि चेति ५, शेषगमास्तु स्वयमेवाभ्युह्याः ९ ।
एवमुत्पादितोऽसङ्ख्यातवर्षायुः सञ्ज्ञिपञ्चेन्द्रियतिर्यगसुरे, अथ सङ्ख्यातवर्षायुरसावुत्पाद्यते - 'जइ संखेज्जे 'त्यादि, 'उक्कोसेणं सातिरेगसागरीवमट्टितीएसु'त्ति यदुक्तं तद्बलिनिकायमाश्रित्येति 'तिसुवि गमएसु' त्ति जघन्यकास्थितिकसम्बन्धिषु औधिकादिषु चत्तारि लेसाओ ति रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानां तिस्रता उक्ताः एषु पुनस्ताश्चतस्रः असुरेषु तेजोलेश्यावानप्युत्पद्यत इति, तथा रत्नप्रभापृथिवीगामिनां जघन्यस्थितिकानामध्यवसायस्थानान्यप्रशस्तान्येवोक्तानि इह तु प्रशस्तान्येव, दीर्घस्थितिकत्वे हि द्विविधान्यपि संभवन्ति न त्वितरेषु कालस्याल्पत्वात्, 'संवेहो सातिरेगेण सागरोवमेण कायव्वो' त्ति रत्नप्रभागमेषु सागरोपमेण संवेध
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org