SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ ८४ भगवतीअङ्गसूत्रं १/-1५/६८ समचउरंसे ६ । एवं लेश्याद्वारे-'कइ लेसाओ पन्नत्ताओ?, गोयमा ! छ लेस्सा प०, तंजहाकिण्हलेस्सा' ६। "मणुस्साणवित्ति, यथा नैरयिका दशसु द्वारेष्वभिहितास्तथा मनुष्या अपि भणितव्या इति प्रक्रमः, तदेवाह-'जेही त्यादि, तत्रनारकाणांजघन्यस्थितावेकादिसङ्ख्यातान्तसमयाधिकायां १ तता जघन्यावगाहनायां २ तस्यामेव सङ्ख्यातान्तप्रदेशाधिकायां ३ मिश्रे च ४ अशीतिभङ्गका उक्ताः, मनुष्याणामप्येतेष्वशीतिरेव, तत्कारणंच तदल्पत्वमेवेति । नारकाणां मनुष्याणां च सर्वथा साम्यपरिहारायाह-'जेसु सत्तावीसा' इत्यादि, सप्तविंशतिर्भङ्गकस्थानानिचनारकाणां जघन्यस्थित्यसङ्घयातसमयाधिकजघन्यस्थितिप्रभृतीनि, तेषुचजघन्यस्थितौ विशेषस्य वक्ष्यमाणत्वेन तद्वर्जेषु मनुष्याणामभङ्गकं,यतो नारकाणांबाहुल्येन क्रोधोदय एव भवति तेन तेषां सप्तविंशतिर्भकका उक्तस्थानेषु युज्यन्ते, मनुष्याणां तु प्रत्येक क्रोधाधुपयोगवतां बहूनां भावान्न कषायोदये विशेषोऽस्ति, तेन तेषां तेषु स्थानेषु भङ्गकाभाव इति । इहैव विशेषाभिधानायाह-नवरमित्यादि, येषु स्थानेषु नारकाणामशीतिस्तेषु मनुष्याणामप्यशीति तथा जेसु सत्तावीसा तेसुअभंगय' मित्युक्तं, केवलं मनुष्याणामिदमभ्यधिकं यदुत जघन्यस्थिती तेषामशीतिर्न तुनारकाणांतत्र सप्तविंशतिरुक्तेत्यभङ्गकम्।तथाऽऽहारकशरीरे अशीतिराहारकशरीरवतांमनुष्याणामल्पत्वान्नारकाणां तनास्त्येवेत्येतदप्यभ्यधिकंमनुष्याणामिति, इह च नारकसूत्राणां मनुष्यसूत्राणांचप्रायः शरीरादिषु चतुर्षु ज्ञानद्वार एव च विशेषः, तथाहि'असंखेजेसु णं भंते' ! मणुस्सावासेसु मणुस्साणं कइ सरीरा पन्नत्ता?, गोयमा ! पंच, तंजहाओरा लिए वेउविएआहारए तेयए कम्मए, असंखेज्जेसुणंजाव ओरालियसरीरे वट्टमाणामणुस्सा किं कोहोवउत्ता ४, गो०! कोहोवउत्तावि४, एवंसर्वशरीरकेषुनवरमाहारकेऽशीतिभङ्गकानांवाच्या। एवंसंहननद्वारेऽपिनवरं 'मणुस्साणं भंते! कइसंघयणापन्नत्ता?,गोयमा! छस्संघयणा पन्नत्ता, तंजहा-वइरोसहनाराएजावछेवढे संस्थानद्वारे 'छसंठाणा पन्नत्ता, तंजहा-समचउरंसे जाव हुंडे' ।लेश्याद्वारे 'छ लेसाओ, तंजहा-किण्हलेस्सा जाव सुक्कलेसा' । ज्ञानद्वारे 'मणुस्साणं भंते ! कइ नाणाणि? गोयमा! पंच, तंजहा-आभिनिबोहियणाणं जाव केवलनाणं' । एतेषुच केवलवर्जेष्वभङ्गक, केवलेतु कषायोदय एव नास्तीति । 'वाणमंतरे'त्यादि, व्यन्तरादयो दशस्वपिस्थानेषु यथा भवनवासिनस्तथावाच्याः, यत्रा सुरादीनामशीतिभङ्ककाःयत्र च सप्तविंशतिस्तत्रच व्यन्तरादीनामपितेतथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनांतु न तथैव वाच्याः, भङ्गकास्तु लोभमादौ विधायाध्येतव्याः, तत्र भवनवासिभिः सह व्यन्तराणां साम्यमेव, ज्योतिष्कादीनां तु न तथेति तैस्तेषां सर्वथा साम्यपरिहारसूचनायाह-'नवरं नाणत्तं जाणियव्यंजंजस्स'त्ति, यत्' लेश्यादिगतं यस्य ज्योतिष्कादेः 'नानात्वम्' इतरापेक्षया भेदस्तदज्ञातव्यमिति, परस्परतो विशेषं ज्ञात्वैतेषां सूत्राण्यध्येयानीतिभावः । ___ तत्र लेश्याद्वारे-ज्योतिष्काणामेकैव तेजोलेश्या वाच्या, ज्ञानद्वारे त्रीणि ज्ञानानि, अज्ञानान्यपि त्रीण्येव, असज्ञिनां तत्रोपपाताभावेन विभङ्गस्यापर्याप्तकावस्थायामपि भावात्। तथावैमानिकानांलेश्याद्वारेतेजोलेश्यादयस्तिनोलेश्यावाच्याः ।ज्ञानद्वारेचत्रीणि ज्ञानान्यज्ञानानि Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy