________________
भगवती अङ्गसूत्रं (२) २०/-/५/७८७
लघुष्णपदाभ्यां ४, एवं लघुशीतोष्णपदैरिति ४ एवमेतेऽपि षोडश १६, एतेव दर्शयति
'एवं गुरुएणं एगत्तएण 'मित्यादि, तथा कर्कशादिनैकवचनान्तेन गुरुपदेन च बहुवचनान्तेनैत एव, तथा गुरूष्णाभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुशीतभ्यां ४, एवं गुरुशीतोष्णैः ४ एवं चैते षोडश, तथा गुरुलघुभ्यां बहुवचनान्ताभ्यामेत एव ४, एवं गुरुलघूष्णै: ४, एवं गुरुलघुशीतैः ४, एवं गुरुलघुशीतोष्णः ४, एतेऽपि षोडश, सर्वेऽप्यादित एते चतुःषष्टि 'कक्खडमउएहिं एगत्तेहिं ति कर्कशमृदुपदाभ्यामेकवचनवद्भयां चतुःषष्टिरेते भङ्गा लब्धा इत्यर्थः, 'ताहे' ति तदनन्तरं 'कक्खडेणं एगत्तएणं' ति कर्कशपदेनैकत्वगेन एकवचनान्तेनेत्यर्थः 'मउएणं पोहत्तएणं'ति मृदुकपदेन पृथक्त्वगेनानेकवचनान्तेनेत्यर्थः एते चेव'त्ति एतं एव पूर्वोक्तक्रमाच्चतुःषष्टिर्भङ्गकाः कर्तव्या इति ।
'ताहेकक्खडेण' मित्यादि, 'ताहे' त्ति ततः कर्कशपदेन बहुवचनान्तेन मृदुपदेन चैकवचनान्तेन चतुःषष्टिर्भङ्गाः पूर्वोक्तक्रमेणैवकर्त्वयाः, तत्तानेव कर्कशमृदुपदाभ्यां बहुवचनान्ताभ्यां पूर्ववच्चतुष्षष्टिर्भङ्गाः कर्त्तव्याः एताश्चादितश्चतश्चतुःषष्टयो मीलिता द्वे शते षटपञ्चाशदधिते स्यातामिति । एतदेवाह - 'सव्वे ते अट्ठफासे दो छप्पन्ना भंगसया भवंति 'ति,
२९८
'बारसछन्नउया भंगसया भवंति त्ति बादरस्कन्धे चतुरादिकाः स्पर्शा भवन्ति, तत्र च चतुःस्पर्शादिषु क्रमेण षोडशानामष्टाविंशत्युत्तरसतस्य चतुरशीत्यधिकशतत्रयस्य द्वादशोत्तरशतपञ्चकस्य षट्पञ्चाशदधिकशतद्वयस्य च भावाद्यथोक्तं मानं भवतीति ।
.मू. (७८८) कइविहे भंते! परमाणु पं० ?, गोयमा ! चउबिहे परमाणु प० तं० - दव्वपरमाणु खेत्तपरमाणू कालपरमाणू भावपरमाणू ।
दव्वपरमाणु णं भंते! कइविहे प० ?, गोयमा ! चउव्विहे प० तं०-अच्छेज्जे अभेजे अज्झे अगेज्झे, खेत्तपरमाणू णं भंते! कइविहे प० ?, गोयमा ! चउव्विहे प० तं० - अणद्धे अमज्झे अपदेसे अविभाइणे ।
कालपरमाणू पुच्छा, गोयमा ! चउव्विहे प० तं०-अवन्ने अगंधे अरसे अफासे । भावपरमाणू णं भंते! कइविहे प० ?, गोयमा ! चउव्विहे प० तं०-वन्नमंते गंधमंते रसमंते फासमंते । सेवं भंते २ त्ति जाव विहरति ॥
वृ. परमाण्वाद्यधिकारादेवेदमाह - 'कई' त्यादि, तत्र द्रव्यरूपः परमाणुद्रव्यपरमाणुःएकोऽणुर्वर्णादिभावानामविवक्षणात् द्रव्यत्वस्यैव विवक्षणादिति, एवं क्षेत्रपरमाणुः - आकाशप्रदेशः कालपरमाणुः समयः भावपरमाणुः परमाणुरेव वर्णादिभावानां प्राधान्यविवक्षणात् सर्वजधन्यकालत्वादिर्वा ।
'चउव्विहे ' त्ति एकोऽपि द्रव्यपरमाणुर्विवक्षया चतुः स्वभावः 'अच्छेज' त्ति छेद्यः - शादिना लतादिवत्तन्निषेधादच्छेद्यः 'अभेज' त्ति मेद्यः-शूच्यादिना चर्म्मवत्तन्निषेधादभेद्यः 'अडज्झे' त्ति आदाह्योऽग्निना सूक्ष्मत्वात्, अत एवाग्राह्यो हस्तादिना ।
'अणद्धे' त्ति समसङ्ख्यावयवाभावात् 'अमज्झे'त्ति विषमसङ्ख्यावयवाभावात् 'अपएसे' त्ति निरशोऽवयवाभावात् 'अविभाइणे 'त्ति अविभागेन निर्वृत्तोऽविभागिम एकरूप इत्यर्थः विभाजयितुमशक्यो वेत्यर्थः ॥
Jain Education International
शतकं - २० उद्देशकः - ५ समाप्तः
For Private & Personal Use Only
www.jainelibrary.org