________________
भगवतीअङ्गसूत्रं 9/-1५/६४
ज्ञानद्वारे 'तिन्निनाणाइंनियम'त्तियेससम्यक्त्वा नरकेषुत्पद्यन्ते तेषां प्रथमसमयादारभ्य भवप्रत्ययस्यावधिज्ञानस्य भावात् त्रिज्ञानिनएवते, ये तुमिथ्यादृष्टयस्ते सज्ज्ञिभ्योऽसज्ञिभ्यश्वोत्पद्यन्ते, तत्र ये सज्ज्ञिभ्यस्ते भवप्रत्ययादेव विभङ्गस्य भावात् यज्ञानिनः, ये त्वसज्ञिभ्यस्तेषामाद्यादन्तर्मुहूर्तात्परतो विभङ्गस्योत्पत्तिरिति तेषांपूर्वमज्ञानद्वयं
पश्चाद्विभङ्गोत्पत्तावज्ञानत्रयमित्यत उच्यते-'तिनि अन्नाणाई भयणाए'त्ति "भजनया' विकल्पनया कदाचिद्दध्वे कदाचित्स्त्रीणात्यर्थः, अत्रार्थे गाथे स्याताम्॥१॥ "सन्नी नेरइएसुंउरलपरञ्चायणंतरे समए।
विब्भंग ओहिं वा अविग्गहे विग्गहे लहइ॥ ॥२॥ अस्सन्नी नरएसुंपजत्तो जेण लहइ विब्मंगं ।
नाणा तिन्नेव तओ अन्नाणा दोनि तिन्नेव ॥ एवं तिनिणाणेत्यादि, आभिनिबोधिकज्ञानवत्सप्तविंशतिभङ्गकोपेतानि आद्यानित्रीणि ज्ञानानि अज्ञनानि चेति, इह च त्रीणि ज्ञानानीति यदुक्तं तदाभिनिबोधिकस्य पुनर्गणनेनान्यथा द्वे एव ते वाच्ये स्यातामिति । तिन्निअन्नाणाई' इत्यत्र यदि मत्यज्ञानश्रुताज्ञाने विभङ्गात्पूर्वकालभाविनी ववक्ष्येते तदाऽशीतिभङ्गा लभ्यन्ते, अल्पत्वात्तेषां, किन्तु जघन्यावगाहनास्ते ततो जघन्यावगाहनाश्रयेणैवाशीतिर्भङ्गकासेतषामवसेया इति।
योगद्वारे ‘एवं कायजोए'त्ति, इह यद्यपि केवलकार्मणकाययोगेऽशीतिर्भङ्गाः संभवन्ति तथाऽपि तस्याविवक्षणात् सामान्याकाययोगाश्रयणाच्च सप्तविंशतिरुक्तेति।
उपयोगद्वारे 'सागरोवउत्त'त्ति, आकारो- विशेषांशग्रहणशक्तिस्तेन सहेति साकारः, तद्विकलोऽनाकारः सामान्यग्राहीत्यर्थः ।
'नाणत्तं लेसासु'त्ति, रलप्रभापृथिवीप्रकरणवच्छेषपृथिवीप्रकरणान्यध्येयानि, केवलं लेश्यासु विशेषः, तासां भिन्नत्वाद्, अत एव तद्दर्शनाय गाथामू. (६५) काऊ य दोसु तइयाए मीसिया नीलिया चउत्थीए।
पंचमियाए मीसा कण्हा तत्तो परमकण्हा । वृ.'काऊ' इत्यादि, तत्र तइयाए मीसिय'त्तिवालुकाप्रभाप्रकरणे उपरितननरकेषुकापोती अधस्तनेषुतुनीलीभवतीतितेयथासम्भवं प्रश्नसूत्रेउत्तरसूत्रेचाध्येतव्यइत्यर्थः, यच्चसूत्राभिलापेषु नरकावाससङ्घयानानात्वं तत् 'तीसा य पन्नवीसा' इत्यादिना पूर्वप्रदर्शितेन समयवेयमिति, एवं सूत्राभिलापः कार्यः--
___ 'सक्करप्पभाए णं भंते ! पुढवीए पणवीसाए निरयावाससयसहस्सेसु एकमेक्कंसि निरयावासंसि कइ लेस्साओ पन्नत्ताओ?, गोयमा! एगा काउलेस्सा पन्नत्ता । सक्करप्पभाए णं भंते ! जाव काउलेसाए वट्टमाणा नेरइया किं कोहोवउत्ता ?' इत्यादि 'जाव सत्तावीसं भंगा'।
एवं सर्वपृथिवीषु गाथाऽनुसारेण वाच्याः॥
मू. (६६) चउसट्ठीए णं भंते ! असुरकुमारावाससयसहस्सेसु एगमेगंसि असुरकुमारावासंसि असुरकुमाराणं केवइया ठिइठाणा पन्नतता?, गोयमा! असंखेजा ठितिठाणा पन्नत्ता, जहनिया ठिई जहा नेरइया तहा।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org