________________
शतकं - १७, वर्ग:-, उद्देशक :- २
अनागारोवओगे वट्टमाणस्स अन्ने जीवे अन्ने जीवाया ।
से कहमेयं भंते ! एवं गोयमा ! जण्णं ते अन्नउत्थिया एवमाइक्खति जाव मिच्छं ते एवमाहंसु, अहं पुण गोयमा ! एवमाइक्खामि जाव परूवेमि- एवं खलु पाणातिवाए जाव मिच्छादंसणसल्ले वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया जाव अनागारोवओगे वट्टमाणस्स सच्चेव जीवे सच्चेव जीवाया ॥
२२९
वृ. 'अनउत्थिया ण' मित्यादि, प्राणातिपातादिषु वर्त्तमानस्य देहिनः 'अत्रे जीवे'त्ति जीवति - प्राणान् धारयतीति जीवः - शरीरं प्रकृतिरित्यर्थः स चान्यो- व्यतिरिक्तः अन्यो जीवस्यदेहस्य सम्बन्धी अधिष्ठातृत्वादात्मा - जीवात्मा पुरुष इत्यर्थः, अन्यत्वं च तयोः पुद्गलापुद्गलस्वभावत्वात्, ततश्च शरीरस्य प्राणातिपातादिषुवर्त्तमानस्य श्यत्वाच्छरीरमेव तत्कर्तृ न पुनरात्मेत्येके
अन्ये त्वाहुः - जीवीतीति जीवो - नारकादिपर्यायः जीवात्मा तु सर्वभेदानुगामि जीवद्रव्यं, द्रव्यपर्याययोश्चान्यत्वं तथाविधप्रतिभासभेदनिबन्धनत्वात् घटपटादिवत्, तथाहि - द्रव्यमनुगताकारां बुद्धिं जनयति पर्यायास्त्वननुगताकारामिति, अन्ये त्वाहुः - अन्यो जीवोऽन्यश्च जीवात्माजीवस्यैव स्वरूपमिति, प्राणातिपातादिविचित्रक्रियाभिधानं चेह सर्वावस्थासु जीवजीवात्मनोर्भेदख्यापनार्थमिति परमतं ।
स्वमतं तु 'सच्चेव जीवे सच्चैव जीवाय'त्ति स एव जीवः - शरीरं स एव जीवात्मा जीव इत्यर्थः कथञ्चिदिति गम्यं, न ह्यनयोरत्यन्तं भेदः, अत्यन्तभेदे देहेन स्पृष्टस्यासंवेदनप्रसङ्गो देहकृतस्य च कर्म्मणो जन्मान्तरे वेदनाभावप्रसङ्गः, अन्यकृतस्यान्संवेदने चाकृताभ्यागमप्रसङ्गः, अत्यन्तमभेदे च परलोकाभाव इति, द्रव्यपर्यायव्याख्यानेऽपि न द्रव्यपर्याययोरत्यन्तं भेदस्तथाऽनुपलब्धेः । यश्च प्रतिभासभेदो नासावात्यन्तिकतद्भेदकृतः किन्तु पदार्थानामेव तुल्यातुल्यरूपकृत इति, जीवात्मा - जीवस्वरूपं, इह तु व्याख्याने स्वरूपवतो न स्वरूपमत्यन्तं भिन्नं, भेदे हि निस्वरूपता तस्य प्राप्नोति, न च शब्दभेदे वस्तुनो भेदोऽस्ति, शिलापुत्रकस्य वपुरित्यादाविवेति ।
पूर्वं जीवद्रव्यस्य तत्पर्यायस्य वा भेद उक्तः, अथ जीवद्रव्यविशेषस्य पर्यायान्तरापत्तिवक्तव्यतामभिधातुमिदमाह - 'देवे ण' मित्यादि, 'पुव्वामेव रूवी भवत्ति' त्तिपूर्वं विवक्षितकालात् शरीरादिपुद्गलसम्बन्धात् मूर्तो भूत्वा मूर्त्तः सन्नित्यर्थः प्रभुः 'अरूविं'ति अरूपिणं-रूपातीतममूर्तमात्मानमिति गम्यते, 'गोयमा' इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्शनाय सद्बोधपूर्वकतां दर्शयत्रुत्तरमाह
भू. (७०२) देवे णं भंते ! महड्डीए जाव महेस० पुव्वामेव रूबी भवित्ता पभू अरूविं विउव्वित्ताणं चिट्ठित्तए ?, नो तिणट्टे समट्टे ।
सेकेणणं भंते! एवं वुच्चइ देवे णं जाव नो पभू अरूविं विउव्वित्ताणं चिट्ठित्तए ?, गोयमा ! अहमेयं जाणामि अहमेयं पासामि अहमेयं बुज्झामि अहमेयं अभिसमन्नागच्छामि ।
मए एवं नायं भए एवं दिवं मए एवं बुद्धं मए एवं अभिसमन्नागयं जण्णं तहागयस्स जीवस्स सरूविस्स सकम्मस्स सरामस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पन्नायति, तंजहा-कालत्ते वा जाव सुकिल्लत्ते वा सुब्भंगंधत्ते वा दुब्भिगंधत्ते वा तित्ते वा जाव महुर० कक्खडत्ते जाव लुक्खत्ते, से तेणट्टेणं गोयमा ! जाव चिट्ठित्तए ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org