SearchBrowseAboutContactDonate
Page Preview
Page 772
Loading...
Download File
Download File
Page Text
________________ शतकं-१६, वर्गः, उद्देशकः-२ २०५ तहाते पुग्गला परिणमंति'त्तितेन तेन प्रकारेण आहारादितयेत्यर्थः ते पुद्गलाः परिणमन्ति, एवं च कर्मपुद्गला अपिजीवानामेव तथा २ परिणमन्तीतिकृत्वा चौयकृतानि कर्माणि । अतो निगम्यते-'नस्थिअचेयकडाकम्मत्तिनभवन्ति 'अचेतःकृतानि' अचैतन्यकृतानि कम्माणि हे श्रमण ! हे आयुष्मन् ! इति, अथवा 'चेयकडा कम्मा कनंति'त्ति चेयं-चयनं चय इत्यर्थः भावे प्रत्ययविधानात् तत्कृतानि सञ्चयकृतानि पुद्गलसञ्चयरूपाणि कर्माणि भवन्ति, कथम् ?, 'आहारोवचिया पोग्गला'इत्यादि, आहाररूपा उपचिताः सन्तः पुद्गला भवन्ति, तथा बोन्दिरूपाश्चिताः सन्तः पुद्गला भवन्ति। तथा कडेवररूपाश्चिताः सन्तः पुद्गला भवन्ति, किंबहुना?, तथोच्छ्वासादिरूपतया ते पुद्गलाः परिणमन्ति चयादेवेति शेषः, एवं च न सन्ति 'अचेयकृतानि' असञ्चयकृतानि कर्माणि आहारयोन्दिकडेवरपुद्गलवदिति । तथा 'दुट्ठाणेसुत्ति शीतातपदंशमशकादिक्तेषुकायोत्सर्गासनाद्याश्रयेषु 'दुसेज्जासुत्तिदुःखोत्पादकवसतिषु 'दुनिसीहियासुति दुःखहेतुस्वाध्यायभूमिषु तथा २'तेन २ प्रकारेण वहुविधासातोत्पादकतया 'तेपोग्गल तिते कार्मणपुद्गलाः परिणमन्ति, ततश्चजीवानामेवासातसम्भवात्तैरेवासातहेतुभूतकर्माणिकृतानिअन्यथाऽकृताभ्यागमदोषप्रसङ्गः,जीवकृतत्वे च तेषांचेतः कृतत्वं सिद्धमतो 'नत्थिअचेयकडा कम्मत्ति, चेयत्याख्यानं त्वेवं नीयते यतो दुःस्थानादिष्वसात-हेतुतया पुद्गलाः परिणमन्तिअतो नोऽचेयकृतानि कर्माणि-नासञ्चयरूपाणि कर्माणि । . असञ्चयरूपाणामतिसूक्ष्मत्वेनासातोत्पादकत्वासम्भवाद् विषलववदिति, तथा 'आयंके इत्यादि, 'आतङ्कः' कृच्छ्रजीवितकारी ज्वरादि 'से' तस्य जीवस्य ‘वधाय' मरणाय भवति, एवं सङ्कल्पः' भयादिविकल्पः मरणान्तः-मरणरूपोऽन्तो-विनाशोयस्मात्सःमरणान्तःदण्डादिघातः, तत्रच 'तथा २' तेन २ प्रकारेण वधजनकत्वेन ते पुद्गलाः' आतङ्कादिजनकासातसंवेदनीयसम्बन्धिनः परिणमन्ति' वर्तन्ते। ____एवं च वधस्य जीवानामेव भावाद् वधहेतवोऽसातवेपुद्गला जीवकृताः अतश्चेतः कृतानि कर्माणि न सन्त्यचेतः- कृतानि, चेयव्याख्यानंतुपूर्वोक्तानुसारेणावगन्तव्यमिति ।। शतकं-१६ उद्देशकः-२ समाप्तः -शतकं-१६ उद्देशकः-३:वृ. द्वितीयोद्देशकान्ते कर्माभिहितं, तृतीयेऽपि तदेवोच्यते, इत्येवंसम्बन्धस्यास्येदमादिसूत्रम् मू. (६७०) रायगिहे जावएवं वयासी-कति णं भंते! कम्मपयडीओ पन्नत्ताओ?, अट्ठ कम्मपयडीओ-नाणावरणिशं जाव अंतराइयं, एवं जाव वेमा० । जीवेणं भंते! नाणावरणिजं कम्मं वेदेमाणे कति कम्मपगडीओ वेदेति?, गोयमा ! अट्ठ कममप्पगडीओ, एवं जहा पन्नवणाए वेदावेउद्देसओ सोचेव निरवसेसो भाणियब्बो, वेदाबंधोवि तहेव, बंधावेदोवि तहेव, बंधाबंधोवि तहेव भाणियव्वो जाव वेमाणियाणंति। सेवं भंते ! २ जाव विहरति ।। वृ. 'रायगिहे' इत्यादि, ‘एवं जहा पनवणाए'इत्यादि, 'वेयावेउद्देसओ'त्ति वेदे वेदने Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy