SearchBrowseAboutContactDonate
Page Preview
Page 770
Loading...
Download File
Download File
Page Text
________________ शतकं - १६, चर्गः, उद्देशकः - २ २०३ मू. (६६७) तेणं कालेणं २ सक्के देविंदे देवराया वज्रपाणी पुरंदरे जाव भुंजमाणे विहरइ, इमं चणं केवलकप्पं जंबुद्दीवं २ विपुलेणं ओहिणा आभोएमाणे २ पासति समणं भगवं महावीरं जंबुद्दीवे २ एवं जहा ईसाणे । तइयसए तहेव सकोवि नवरं अभिओगे ण सद्दावेति हरी पायत्ताणियाहिवई सुघोसा घंटा पालओ विमाणकारी पालगं विमाणं उत्तरिल्ले निजाणमग्गे दाहिणपुरच्छिमिल्ले रतिकरपव्वए सेसं तं चैव जाव नामगं सावेत्ता पज्जुवासति धम्मकहा जाव परिसा पडिगया । तए णं से सक्क देविंदे देवराया समणस्स भगवओ महावीरस्स अंतियं धम्मं सोच्द्या निसम्म् ० समणं भगवं महावीरं वंदति नम॑सति २ एवं क्यासी- कतिविहे णं भंते! उग्गहे पत्रत्ते सक्के ! पंचविहे उग्गहे पन्नत्ते, तंजहा- देविंदोग्गहे रायोग्गहे गाहावइउग्गहे सागारियउग्गहे साहम्मियउग्गहे । जे इमे भंते! अजत्ताए समणा निग्गंधा विहरंति एएसि णं अहं उग्गहं अणुजाणामीतिकड्ड समणं भगवं महावीरं वंदति नम॑सति २ तमेव दिव्वं जाणविमाणं दुरूहति २ जामेव दिसं पाउब्भूए तामेव दिसं पडिगए। भंतेत्ति भगवं गोयमे समणं भगवं महा० वंदति न० २ एवं व्यासी- जंणं भंते! सक्के देविंदे देवराया तुझे णं एवं वदइ सच्चे णं एसमट्टे ?, हंता सच्चे ॥ वृ, 'तेणं कालेण' मित्यादि, 'एवं जहा ईसाणो तइयसए तहा सक्कोवि 'त्ति यथेशानस्तृतीयशते प्रथमोद्देशके राजप्रश्नीयातिदेशेनाभिहितस्तथा शक्रोऽपीह वाच्यः, सर्वथा साम्यपरिहारार्थं त्वाह-‘नवरमाभिओगेण सद्दावइ' इत्यादि तत्र किलेशानो महावीरमवधिनाऽवलोक्याभियोगिकान् देवान् शब्दयामास शक्रस्तु नैवं, तथा तत्र लघुपराक्रमः पदात्यनीकाधिपतिर्नन्दिघोषाघण्टाताडनाय नियुक्त उक्तः इह तु सुघोषाघण्टाताडनाय हरिणैगमेषी नियुक्त इति वाच्यं । तथा तत्र पुष्पको विमानकारी उक्त इह तु पालकोऽसौ वाच्य, तथा तत्र पुष्पकं विमानमुक्तमिह तु पालकं वाच्यं ततथा तत्र दक्षिणो निर्याणमार्ग उक्त इह तूत्तरो वाच्यः, तथा तत्र नन्दीश्वरद्वीपे उत्तरपूर्वी रतिकरपर्वत ईशानेन्द्रस्यावतारायोक्त इह तु पूर्वदक्षिणोऽसौ वाच्यः 'नामगं सावेत्त' त्ति स्वकीयं नाम श्रावयित्वा यदुताहं भदन्त ! शक्र देवराजो भवन्तं वन्दे नमस्यामि चेत्येवम् । 'उग्गहे' त्ति अवगृह्यते - स्वामिना स्वीक्रयते यः सोऽवग्रहः 'देविंदोग्गहे य'त्ति देवेन्द्रः शक्र ईशानो वा तस्यावग्रहो - दक्षिणं लोकार्द्धमुत्तरं वेति देवेन्द्रावग्रहः 'राओग्गहे' त्ति राजा - चक्रवर्ती तस्यावग्रहः-षटखण्डभरतादिक्षेत्रं राजावग्रहः 'गाहावईउग्गहे' त्ति गृहपति- माण्डलिको राजा तस्यावग्रहः - स्वकीयं मण्डलमिति गृहपत्यवग्रहः 'सागारियउग्गहे' त्ति सहागारेण - गेहेन वर्त्तत इति सागारः स एव सागारिकस्तस्वावग्रहो - गृहमेवेति सागारिकावग्रहः । 'साहम्मियउग्गहे 'त्ति समानेन धर्मेण चरन्तीति साधर्मिकाः साध्वपेक्षया साधव एव तेषामवग्रहः – तदाभाव्यं पञ्चक्रोशपरिमाणं क्षेत्रमृतुबद्धे मासमेकं वर्षासु चतुरो मासान् यावदिति साधर्म्मिकावग्रहः। एवमुपश्रुत्येन्द्रो यदाचख्यौ तदाह- 'जे इमे' इत्यादि, ' एवं वयइ' त्ति एवं पूर्वोक्तम् 'अहं उग्गहं अणुजाणामि' इत्येवंरूपं 'वदति' अभिधत्ते सत्य एषोऽर्थ इति । अथ भवत्वयमर्थ सत्यस्तथाऽप्ययं स्वरूपेण सम्यग्वादी उत न ? इत्याशङ्कयाह For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy