________________
१९८
भगवतीअङ्गसूत्रं (२) १५/-1-1६५९ बहूहिं २ अप्पणो आउसेसंजाणेत्ता भत्तं पञ्चक्खाहिति एवंजहा उववाइए जाव सव्वदुक्खाणमंतं काहिति । सेवं भंते! २ त्ति जाव विहरइ।।
वृ.पडिरूविएणंसुक्केणं'ति प्रतिरूपकेन' उचितेन शुक्लेन-दानेन 'भंडकरंडगसमाणे ति आभरणभाजनतुल्या आदेयेत्यर्थः 'तेल्लकेला इव सुसंगोविय'त्ति तैलकेला इव-तैलाश्रयो भाजनविशेषः सौराष्ट्रप्रसिद्धः साच सुष्ठु संगोपनीया भवत्यन्यथा लुठतिततश्चतैलहानिः स्यादिति, 'चेलपेडाइव सुसंगपरिगहिय'त्तिचेलपेडावत्-वस्त्रमञ्जूषेव सुष्ठु संपरिवृत्ता (गृहीता)-निरुपद्रवे स्थाने निवेशिता। ___'दाहिणिल्लेसुअसुरकुमारेसुदेवेसुदेवत्ताएउववजिहिति'त्तिविराधितश्रामण्यत्वादन्यथाऽनगाराणां वैमानिकेष्वेवोत्पत्ति स्यादिति, यच्छेह 'दाहिणिल्लेसु'त्ति प्रोच्यते तत्तस्य क्रूरकर्मत्वेन दक्षिणक्षेत्रेष्वेवोत्पादइतिकृत्वा, 'अविराहियसामन्ने त्तिआराधितचरण इत्यर्थः,आरधितचरणता चेह चरणप्रतिपत्तिसमयादारभ्य मरणान्तं यावनिरतिचारतया तस्य पालना, आह च॥१॥ “आराहणा य एत्थं चरणपडिवत्तिसमयओ पभिई।
आमरणंतमजस्सं संजमपरिपालणं विहिणा" इति। _ एवं चेह यद्यपि चारित्रपतिपत्तिभवा विराधनायुक्ता अग्निकुमारवर्जभवनपतिज्योतिष्कत्वहेतुभवसहिता दश अविराधनाभवास्तु यथोक्तसौधादिदेवलोकसर्वार्थसिद्धयुत्पत्तिहेतवः सप्ताष्टमश्चसिद्धिगमनभव इत्येवमष्टादश चारित्रभवा उक्ताः, श्रूयन्तेचाप्टैव भवांश्चारित्रं भवति तथाऽपि न विरोधः, अविराधनाभवानामेव ग्रहणादिति, अन्ये त्वाहु:
___ “अट्ठभवाउचरित्ते" इत्यत्र सुत्रूआदानभवानां वृत्तिकृता व्याख्यातत्वत्चारित्रप्रतिपत्तिविशेषिताएव भवा ग्राह्याः, नाराधनाविराधनाविशेषणंकार्यम्, अन्यथा यद्भगवता श्रीमन्महावीरेण हालिकाय प्रव्रज्या बीजमिति दापिता तन्निरर्थकं स्यात्, सम्यक्त्वमात्रेणैव बीजमात्रस्य सिद्धत्वात्, यतु चारित्रदानं तस्य तदष्टमचारित्रे सिद्धिरेतस्य स्यादिति विकल्पादुपन्नं स्यादिति।
___ यच्च दशसु विराधनाभवेषु तस्य चारित्रमुपवर्णितं तद्र्व्यतोऽपि स्यादिति न दोष इति, अन्ये त्वाहुः-न हि वृत्तिकारवचनमात्रावष्टम्भादेवाधिकृतसूत्रमन्यथा व्याख्येयं भवति, आवश्यकचूर्णिकारेणाप्याराधनापक्षस्य समर्थितत्वादिति । ‘एवं जहा उववाइए'इत्यादि भावितमेवाम्मडपरिव्राजककथानक इति ।।
___ शतकं-१५ समाप्तम् श्रीमन्महावीरजिनप्रभावाद्गोशालकाहङ्ककृतिवद्गतेषु ।
समस्तविघ्नेषु समापितेयं, वृत्तिः शते पञ्चदशे मयेति। मुनि दीपरत्नसागेण संशोधितासम्पादिता भगवतीअङ्ग सूत्रे पञ्चदशशतकस्य अभयदेवसूरि विरचिता टीका परिसमाप्ता ।
(शतक-१६) वृ. व्याख्यातं पञ्चदशं शतं, तत्र चैकेन्द्रियादिषु गोशालकजीवास्थानेकधा जन्म मरणं चोक्तं, इहापिजीवस्य जन्ममरणाधुच्यते इत्येवंसम्बन्धस्यास्येयमुद्देशकाभिधानसूचिका गाथा
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org