________________
१९४
भगवती अङ्गसूत्रं (२) १५/-/-/६५७
पद्मवर्षरूपः, एवं रत्नवर्ष इति, 'सेए'त्ति श्वेतः, कथंभूतः ?
'संखदलविमलसन्निगासे' त्ति शङ्खस्य यद्दलं - खण्डं तलं वा तद्रूपं विमलं तत्संनिकाशःसध्शो यः स तथा प्राकृत्वाच्चैवं समासः, 'आउसिहिइ' त्ति आक्रोशानू दास्यति 'निच्छोडेहिइ' त्ति पुरुषान्तरसम्ब्धिदहस्ताद्यवयवाः कारणतो ये श्रमणास्तांस्ततो वियोजयिष्यति 'निब्भत्थेहिइ' ति आक्रोश व्यतिरिक्तदुर्वचनानि दास्यति 'पमारेहिइति प्रमारं मरणक्रियाप्रारम्भं करिष्यति प्रमारयिष्ति 'उद्दवेहिइ' त्ति अपद्रावयिष्यति ।
अथवा 'मारिहिइ' त्ति मारयिष्यति 'उद्दवेहिइ' त्ति उपद्रवान् करिष्यति 'आच्छिदिहि 'त्ति ईषत् छेत्स्यति 'विच्छिदेहिइ' त्ति विशेषेण विविधतया वा छेत्स्यति 'भिंदिहिइ' त्ति स्फोटयिष्यति पात्रापेक्षमेतत् 'अवहरिहिइ' त्ति अपहरिष्यति - उद्दालयिष्यति 'निन्नगरे करेहिति' त्ति 'निर्नगरान्' नगरनिष्क्रान्तान् करिष्यति, 'रज्जस्स व 'त्ति राज्यस्य वा, राज्यंच राजादिपदार्थसमुदायः, आहच“स्वाम्यमात्यश्च राष्ट्रं च, कोशो दुर्गं बलं सुहृत् । सप्ताङ्गमुच्यते राज्यं, बुद्धिसत्त्वसमाश्रयम् ॥”
119 11
राष्ट्रादयस्तु तद्विशेषाः, किन्तु राष्ट्रं - जनपदैकदेशः, विरमंतु णं देवाणुप्पिया ! एअस्स अट्ठस्स अकरणयाए 'त्ति विरमणं किल वचनाद्यपेक्षयाऽपि स्यादत उच्यते-अकरणतयाकरणनिषेधरूपतया ।
'विमलस्स' त्ति विमलजिनः किलोत्सर्पिण्यामेकविंशतितमः समवाये दृश्यते स चावसर्पिणीचतुर्थजिनस्थाने प्राप्नोति तस्माच्चार्वाचीनजिनान्तरेषु बहवः सागरोपमकोटयोऽतिक्रान्ता लभ्यन्ते, अयं च महापद्मो द्वाविंशतेः सागरोपमाणामन्ते भविष्यती दुःखगममिदं, अथवा यो द्वाविंशतेः सागरोपमाणामन्ते तीर्थकृदुत्सर्पिण्यां भविष्यति तस्यापि विमल इति नाम संभाव्यते, अनेकाभिधानाभिधेयत्वान्महापुरुषाणामिति, 'पउप्पए' त्ति शिष्यसन्तानः ।
'जहा धम्मधोसस्स वन्नओ' त्ति यथा धर्मघोषस्य - एकादशशतैकादशोद्देशकाभिहितस्य वर्णकस्तथाऽस्य वाच्यः, स च 'जाइसंपन्ने कुलसंपत्रे बलसंपन्ने' इत्यादिरिति 'रहचरियं' ति रथचर्यां 'नोल्लावेहिइ' त्ति नोदयिष्यति - प्रेरयिष्यति सहितमित्यादय एकार्थाः ।
मू. (६५८) विमलवाहणे णं भंते! राया सुमंगलेणं अनगारेणं सहए जाव भासरासीकए समाणे कहिं गच्छिहिति कहिंउववज्जिहिति ?, गोयमा ! विमलवाहणे णं राया सुमंगलेणं अनगारेणं सहये जाव मासरासीकए समाणे अहेसत्तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरयंसि नेरइयत्ताए उववज्जिहिति। सेणं ततो अनंतरं उच्चट्टित्ता मच्छेस उववज्जिहिति, सेणं तत्थ सत्थवझे दाहवकंतीए कालमासे कालं किच्चा दोघंपि अहे सत्तमाए पुढवीए उक्कोस कालट्ठितीयंसि नरगंसि नेरइयत्ताए उववज्जिहिति, से णं तओऽनंतरं उव्वट्टित्ता दोच्चंपि मच्छेसु उववज्जिहिति -
तत्यवि णं सत्यवज्झे जाव किच्चा छट्टीए तमाए पुढवीए उक्कोसकालट्ठिइयंसि नरगंसि मेरइयत्ताए उवबजिहिति । से णं तओहिंतो जाव उव्वट्टित्ता इत्थियासु उववज्जिहिति, तत्थवि णं सत्यवज्झे दाह जाव दोघंपि छट्टीए तमाए पुढवीए उक्कसकालजाव उव्वट्टित्ता दोच्चंपि इत्थियासु उक्व०, तत्थवि णं सत्यवज्झे जाब किच्चा पंचमाए धूमप्पभाए पुढवीए उक्कसकालजाव उव्वट्टित्ता उरएसु उववज्जिहिति, तत्थवि णं सत्थवज्झे जाव किच्चा दोच्चंपि पंचमाए जाव उव्वट्टित्ता दोघंपि
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org