________________
शतकं-१, वर्ग:-, उद्देशकः-४
७१
अपसर्पेत्, उत्तमगुणस्थानकाद् हीनतरं गच्छेदित्यर्थः, 'बालवीरियत्ताए अवक्कमेजत्ति मिथ्यात्वमोहोदये सम्यक्त्वात् संयमाद्देशसंयमाद्वा अपक्रामेत' मिथ्याद्दष्टिर्भवेदिति।
____ 'नोपंडियवीरियत्ताए अवक्कमेजत्ति, नहि पण्डितत्वात्प्रधानतरंगुणस्थानकमस्ति यतः पण्डितवीर्येणापसर्पत, 'सिय बालपंडियवीरियत्ताए अवक्कमेज'त्तिस्यात्-कदाचिच्चारित्रमोहनीयोदयेन संयमादपगत्यबालपण्डितवीर्येण देशविरतो भवेदिति । वाचनान्तरे त्वेवम्-‘बालवीरियत्ताए नो पंडियवीरियत्ताए नो बालपंडियवीरियत्ताए'त्ति, तत्र च मिथ्यात्वमोहोदये बालवीर्यस्यैव भावादितरवीर्यद्वयनिषेध इति ।
उदीर्णविपक्षत्वादुपशान्तस्येत्युपशान्तसूत्रद्वयं तथैव, नवरम् 'उवठाएजा पंडियवीरियत्ताए'त्ति उदीर्णालापकापेक्षयोपशान्तालापकयोरयं विशेषः-प्रथमालापके सर्वथा मोहनीयेनोपशान्तेनसतोपतिछेत क्रियासु पण्डितवीर्येण, उपशान्तमोहावस्थायां पण्डितवीर्यस्यैवभावादितरयोश्चाभावात्।वृद्धैस्तु काञ्चिद्वाचनामाश्रित्येदं व्याख्यातं-मोहनीयेनोपशान्तेनसतानमिथ्यादृष्टिर्जायते, साधुः श्रावको वा भवतीति । द्वितीयालाके तु अवक्कमेज बालपंडियीरियत्ताए'त्ति, मोहनीयेन हि उपशान्तेन संयतत्वाद्वालपण्डितवीर्येणापक्रामन् देशसंयतो भवति, देशतस्तस्य मोहोपशमसद्भावात्, नतुमिथ्याष्टि, मोहोदय एव तस्य भावात्, मोहोपशमस्यचेहाधिकृतत्वादिति
अथापक्रामतीति यदुक्तंतत्र सामान्येन प्रश्नयन्नाह-'से भंते! कि'मित्यादि, ‘से'त्ति असौ जीवः, अथार्थो वा सेशब्दः, 'आयाए'त्ति आत्मना 'अणायाए'त्ति अनात्मना, परत इत्यथः 'अप-क्रामति' अपसर्पति, पूर्वं पण्डितत्वरुचिर्भूत्वा पश्चान्मिश्ररुचिर्मिध्यारुचिर्वा भवतीति, कोऽसौ ? इत्याह-मोहनीयं कर्म मिथ्यात्वमोहनीयं चारित्रमोहनीयं वा वेदयन्, उदीर्णमोह इत्यर्थ 'से' कहमेयं भंते!'त्तिअथ कथं' केनप्रकारेण ‘एतद्' अपक्रमणम् ‘एवं'तिमोहनीयं वेदयमानस्येति, इहोत्तरं-'गोयमे'त्यादि, पूर्वम्' अपक्रमणात् प्राग् 'असौ' अपक्रमणकारी जीवः ‘एतद्' जीवादि अहिंसादि वा वस्तु एवं यथा जिनैकुंतं रोचते' श्रद्धत्ते करोति वा, 'इदानीं' मोहनीयोदयकाले 'सः' जीवः 'एतत्' जीवादि अहिंसादिवा एवं यथा जिनैरुक्तं 'नो रोचते' न श्रद्धत्तेन करोति वा, ‘एवं खलु उक्तप्रकारेण एतद् अपक्रमणम्, ‘एवं' मोहनीयवेदने इत्यर्थः ।
मोहनीयकर्माधिकारात् सामान्यकर्म चिन्तयन्नाह
मू. (४९) से नूनं भंते ! नेरइयस्स वा तिरिक्खजोणियस्स वा मणूसस्स वा देवस्स वा जे कडे पावे कम्मे नत्थि तस्स अवेइयत्ता मोक्खो?, हंता गोयमा! नेरइयस्स वा तिरिक्ख०मणु० देवस्स वाजे कडे पावे कम्मे नत्थि तस्स अवेइत्ता मोक्खो से केणढेणं भंते! एवं वुचतिनेरइयस्सवाजीव मोक्खो, एवंख लुमए गोयमा! दुविहे कम्मे पन्नत्ते, तंजहा-पएसकम्मे यअणुभागकम्मे य, तत्थ णं जंतं पएसकम्मं तं नियमा वेएइ, तत्थ णं जंतं अणुभागकम्मं तं अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ।
नायमेयंअरहया सुयमेयं अरहया विनायमेयंअरहयाइमेकम्मंअयंजीवे अज्झोवगमियाए वेयणाए वेदिस्सइइमं कम्मंअयंजीवे उवक्कमियाए वेदणाए वेदिस्सइ, अहाकम्मं अहानिकरणं जहाजहातं भगवया दिटुंतहा तहातं विप्परिणमिस्सतीति, से तेणटेणं गोयमा! नेरइयस्स वा४ जाव मोक्खो।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org