________________
शतकं-१, वर्गः-, उद्देशकः-३
तथा नया-द्रव्यास्तिकादयः, तत्र यदि नाम द्रव्यास्तिकमतेन नित्यं वस्तु पर्यायास्तिकनयमतेन कथं तदेवानित्यं? विरुद्धत्वात्, इति शङ्का, इयंचायुक्ता, द्रव्यापेक्षयैवतस्य नित्यत्वात्, पर्यायापेक्षया चानित्यत्वात्, दृश्यते चापेक्षयैकत्रैकदा विरुद्धानामपि धर्माणां समावेशो, यथा जनकापेक्षया य एव पुत्रः स एव पुत्रापेक्षया पितेति ।
तथा नियमः-अभिग्रहः, तत्र यदि नाम सर्वविरति सामायिकं तदा किमन्येन पौरुष्यादिनियमेन ? सामायिकेनैव सर्वगुणावाप्तेः, उक्तश्चा सौइति शङ्का, इयं चायुक्ता, यतः सत्यपि सामायिके युक्तः पौरुष्यादिनियमः, अप्रमादवृद्धिहेतुत्वादिति, आह च॥१॥ “सामाइए वि हु सावज्जचागरूवे उ गुणकरं एयं ।
अपमायवुड्विजणगत्तणेण आणाओ विन्नेयं ।। ति तथा प्रमाण-प्रत्यक्षादि, तत्रागमप्रमाणम्-आदित्यो भूमेरुपरियोजनशतैरष्टाभिः संचरति चक्षुप्रत्यक्षं च तस्य भुवो निर्गच्छतो ग्राहकमिति किमत्र सत्यमिति सन्देहः । अत्र समाधि-न हि सम्यक् प्रत्यक्षमिदं, दूरतरदेशतो विभ्रमादिति।
शतकं-१ उद्देशकः-३ समाप्तः
- शतकं-१ उद्देशकः-४:वृ. अनन्तरोद्देशके कर्मण उदीरणवेदनाद्युक्तमिति तस्यैव भेदादान् दर्शयितुं तथा द्वारगाथायां 'पगईत्ति यदुक्तं तच्चाभिधातुमाह
मू. (४६) कति णं भंते ! कम्मप्पगडीओ पन्नत्ताओ? गोयमा ! अट्ट कम्मप्पगडीओ पण्णताओ। कम्मप्पगडीए पढ़मो उद्देसो नेयम्बो जाव अणुभागो सम्मत्तो।
वृ. 'कइ "मित्यादि व्यक्तं, नवरं 'कम्मपगडीए'त्ति प्रज्ञापनायां त्रयोविंशतितमस्य कर्मप्रकृत्यभिधानस्य पदस्य प्रथमोद्देशको नेतव्यः, एतद्वाच्यानांचार्थानां सङ्ग्रहगाथाऽस्तीत्यत आह-गाहा, सा चेयम्मू. (४७) कइ पयडी कह बंधइ कइहि व ठाणेहि बंधई पयडी।
कइ वेदेइ य पयडी अणुभागो कइविहो कस्स ।। वृ. 'कई त्यादि, तत्र 'कइप्पगडी'ति द्वारं, तच्चैवम्-कइणंभंते! कम्मप्पगडीओपन्नत्ताओ गोयमा ! अट्ट, तंजहा-नाणावरणिज मित्यादि । 'कह बंधई त्यादि द्वारमिदं चैवम्-'कहनं भंते जीवे अट्ठ कम्मपगडीओ बंधइ ?' गोयमा ! नाणावरणिज्जस्स कम्मस्स उदएणं दंसणमोहणिलं कम्मं निग्गच्छई' विपाकावस्थां करोतीत्यर्थः।
दसणमोहणिजस्स कम्मस्स उदएणं मिच्छत्तं निग्गच्छइ, मिच्छत्तेणं उदिन्नेणं एवं खलु जीवे अट्टकम्मप्पगडीओ बंधई' इत्यादि, न चैवमिहेतरेतराश्रयदोषः, कर्मबन्धप्रवाहस्यानादित्वादिति।
'कइहि व ठाणेहित्ति द्वारं, तच्चैवम्-'जीवेणं भंते ! नाणावरणिशं कम्मं कइहिं ठाणेहिं बंधइ ? गोयमा! दोहिं ठाणेहिं, तंजहा-रागेण य दोसेण य' इत्यादि । 'कइ वेएइ यत्ति द्वारमिदं चैवम्-'जीवे णं भंते ! कइ कम्मप्पगडीओ वेएइ ? गोयमा ! अत्थेगइए वेएइ अस्थेगतिए नो
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org