SearchBrowseAboutContactDonate
Page Preview
Page 691
Loading...
Download File
Download File
Page Text
________________ १२४ भगवतीअङ्गसूत्रं (२) १३/-/७/५९१ कायेअचित्तेकाये?' इत्यादि, अत्रोत्तरं-'सचित्तेविकाए' जीवदवस्थायां चैतन्यसमन्वितत्वात्, 'अचित्तेविकाए' मृतावस्थायां चैतन्यस्याभावात्, 'जीवेविकाये'त्ति जीवोऽपि विवक्षितोच्छासादिप्राणयुक्तोऽपि भवति कायः औदारिकादिशरीरमपेक्ष्य, 'अजीवेविकायेत्ति अजीवोऽपि उच्छ्वासादिरहितोऽपि भवति कायः कार्मणशरीरमपेक्ष्य, जीवाणविकायेत्तिजीवानां सम्बन्धी "कायः' शरीरं भवति, ‘अजीवाणवि कायेति अजीवानामपि स्थापनार्हदादीनां 'कायः' शरीरं भवति शरीराकार इत्यर्थः। _ 'पुबिपि काए'त्ति जीवसम्बन्धकालात्पूर्वमपि कायो भवति यथा भविष्यजीवसम्बन्धं मृतदुर्दुरशरीरं 'काइज्जमाणेवि काए'त्ति जीवेन चीयमानोऽपि कायो भवति यथा जीवच्छरीरं, 'कायसमयवीतिकंतेविकाए'त्ति कायसमयो-जीवेन कायस्यकायताकरणलक्षणस्तंव्यतिक्रान्तो यः सतथा सोऽपिकायएवमृतकडेवरवत्, पुब्बिंपिकाए भिजइत्ति जीवेन कायतया ग्रहणसमयात्पूर्वमपि कायो मघुघटादिन्यायेन द्रव्यकायो भिद्यते प्रतिक्षणं पुद्गलचयापचयभावात्, 'काइजमाणेवि काए भिजइत्ति जीवेन कायीक्रियमाणोऽपि कायो भिद्यते, सिकताकणकलापमुष्टिग्रहणवत् पुद्गलानामनुक्षणं परिशाटनभावात्, 'कायसमयवीतिकंतेऽवि काये भिञ्जइत्तिकायसमयव्यतिक्रनन्स्यचकायता भूतभावतया घृतकुम्भादिन्यायेन, भेदश्चपुद्गलानां तत्स्वभावतयेति, चूर्णिकारेण पुनः कायसूत्राणि कायशब्दस्य केवलशरीरार्थःत्यागेन चयमात्रवाचकत्वमङ्गीकृत्य व्याख्यातानि, यदाह 'कायसद्दो सव्वभावसामन्नसरीरवाई कायशब्दः सर्वभावानांसामान्यंयच्छरीरंचयमात्रं तद्वाचक इत्यर्थः, एवं च 'आयाविकाए सेसदव्वाणिविकाये'त्ति, इदमुक्तंभवति-आत्माऽपि कायः प्रदेशसञ्चयइत्यर्थः तदन्योऽप्यर्थः कायप्रदेशसञ्चयरूपत्वादिति, रूपी कायःपुद्गलस्कन्धापेक्षया, अरूपी कायो जीवधर्मास्तिकायाद्यपेक्षया, सचित्तः कायो जीवच्छरीरापेक्षया, अचित्तः कायोऽचेतनसञ्चयापेक्षया, जीवः कायः-उच्छ्वासादियुक्तावयवसञ्चयरूपः, अजीवः कायः तद्विलक्षणः,जीवानां कायो-जीवराशि, अजीवानांकायः-परमाण्वादिराशिरिति, एवं शेषाण्यपि अथ कायस्यैव भेदानाह-'कइविहे णमित्यादि, अयं च सप्तविधोऽपि प्राग विस्तरेण व्याख्यातः इह तु स्थानाशून्यार्थं लेशतो व्याख्यायते, तत्र च ओरालिए'त्ति औदारिकशरीरमेव पुद्गलस्कन्धरूपत्वादुपचीयमानत्वात्काय औदारिककायः, अयंच पर्याप्तकस्यैवेति, ओरालियमीसए"त्ति औदारिकश्चासौमिश्रश्च कार्ममेनेत्यौदारिकमिश्रः,अयंचापर्याप्तकस्य, 'वेउब्विय'त्ति वैक्रियः पर्याप्तकस्य देवादेः, वेउब्वियमीसए'त्ति वैक्रियश्चासौ मिश्रश्च कार्मणेनेति वैक्रियमिश्रः, अयं चाप्रतिपूर्णवैक्रियशरीरस्यदेवादेः, आहारएतिआहारकःआहारकशरीरनिवृत्तौ, आहारगमीसए'त्ति आहारकपरित्यागेनौदारिकग्रहणायोद्यतस्याहारकमिश्रो भवति मिश्रता पुनरौदारिकेणेति, 'कम्मए'त्ति विग्रहगतौ केवलिसमुद्घाते वा कार्मणः स्यादिति । अनन्तरं काय उक्तस्तत्यागेच मरणं भवतीति तदाह मू. (५९२) कतिविहे गंभंते ! मरणे पन्नत्ते?, गोयमा! पंचविहे मरणे पन्नत्ते, तंजहाआवीचियमरणे ओहिमरणे आदितियमरणे बालमरणे पंडियमरणे। आवीचियमरणे णंभंते! कतिविहे पन्नते?, गोयमा! पंचविहे पन्नत्ते, तंजहा-दव्वावी Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy