SearchBrowseAboutContactDonate
Page Preview
Page 682
Loading...
Download File
Download File
Page Text
________________ शतकं-१३, वर्ग:-,उद्देशकः-४ ११५ उक्तम्-'अनंत'त्ति, अद्धासमयास्तु मनुष्यलोक एव सन्ति न परतोऽतो धर्मास्तिकायप्रदेशे तेषामवगाहोऽस्ति नास्तिच,यत्रास्तितत्रानन्तानांभावनातुप्राग्वत्, एतदेवाह-'अद्धासमयेत्यादि ___'जत्थण मित्यादीन्यधर्मास्तिकायसूत्राणि षड् धर्मास्तिकायसूत्राणीव वाच्यानि, आकाशास्तिकायसूत्रेषु 'सियओगाढा सिय नोओगाढ'त्ति लोकालोकरूपत्वादाकाशस्य लोकाकाशेऽवगाढा अलोकाकाशे तु न तदभावात् ।। जत्थणं मंते ! पोग्गलस्थिकायपएसे' त्यादि, सियोएको सियदोन्नित्तियदैकत्राकाशप्रदेशेद्वयणुकः स्कन्धोऽवगाढः स्यात्तदा तत्रधर्मास्तिकायप्रदेश एक एव, यदा तु द्वयोराकाशप्रदेशयोरसाववगाढः स्यात्तदा तत्र द्वा धर्मप्रदेशाववगाढौ स्यातामिति, एवमवगाहनानुसारेणाधर्मास्तिकायाकाशास्तिकाययोरपि स्यादेकः स्याद्दाविति भावनीयं, सेसं जहा धम्मत्थिकायस्सति शेषमित्युक्तापेक्षयाजीवास्तिकायपुद्गलास्तिकायाद्धासमयलक्षणंत्रयं यथा धर्मास्तिकायप्रदेशवक्तव्यतायामुक्तं तथा पुद्गल-प्रदेशद्वयवक्तव्यतायामपि, पुद्गलप्रदेशद्वयस्थानेतदीयाअनन्ताःप्रदेशाअवगाढा इत्यर्थः ।पुद्गलप्रदेशत्रयसूत्रेषु 'सिय इक्क'इत्यादि, यदा त्रयोऽप्यणव एकत्रावगाढास्तदा तत्रैक धर्मास्ति-कायप्रदेशोऽवगाढः, यदा तु द्वयो ११२ स्तदा द्वाववगाढौ, यदा तु त्रिषु । १११११। तदा त्रय इति, एवमधर्मास्तिकायस्याकाशास्तिकायस्य च वाच्यं । "सेसं जहेव दोण्हंति 'शेषं' जीवपुद्गलाद्धासमयाश्रितं सूत्रत्रयं यथैव द्वयोः पुद्गलप्रदेशयोरवगाहचिन्तायामधीतंतथैव पुद्गलप्रदेशत्रयतिन्तायामप्यध्येयं, पुद्गलप्रदेशत्रयस्थानेऽनन्ता जीवप्रदेशा अवगाढा इत्येवमध्येयमित्यर्थः।। ___ एवं एक्कक्कोवड्डेयव्वो पएसो आइल्लेहिं तिहिं २ अस्थिकाएहि ति यथा पुद्गलप्रदेशत्रयावगाहचिन्तायां धर्मास्तिकायादिसूत्रत्रयेएकैकःप्रदेशो वृद्धिं नीतः एवंपुद्गलप्रदेशचतुष्टयाद्यवगाहचिन्तायामप्येकैकस्तत्र वर्द्धनीयः, तथाहि- . 'जत्थणंभंते! चत्तारिपुग्गलस्थिकायप्पएसाओगाढा तत्थ केवइया धम्मस्थिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि सिय तिन्नि सिय चत्तारि'इत्यादि, भावना चास्य प्रागिव, 'सेसेहिं जहेवदोण्हंति शेषेषु जीवास्तिकायादिषु त्रिषुसूत्रेषुपुद्गलप्रदेशचतुष्टयचिन्तायांतथा वाच्यं यथा तेष्वेव पुद्गलप्रदेशद्वावगाहचिन्तायामुक्तं, तच्चैवं 'जत्थणंभंते! चत्तारिपोग्गलस्थिकायप्पएसाओगाढातत्थ केवतियाजीवस्थिकायप्पएसा ओगाढा?, अनंता इत्यादि, 'जहा असंखेज्जा एवं अनंतावित्ति, अस्यायं भावार्थ: 'जत्यणभंते! अनतापोग्गलस्थिकायप्पएसा ओगाढातत्य केवतिया धम्मत्यिकायप्पएसा ओगाढा ?, सिय एक्को सिय दोन्नि जाव सिय असंखेजा'एतदेवाध्येयं न तु 'सिय अनंत'त्ति, धर्मास्तिकायाधर्मास्तिकायलोकाकाशप्रदेशानामनन्तानामभावादिति। अथप्रकारान्तरेणावगाहद्वारमेवाह--'जत्थण मित्यादि,धर्मास्तिकायशब्देनसमस्ततप्रदेशसङ्ग्रहात् प्रदेशान्तराणां चाभावादुच्यते यत्र धर्मास्तिकायोऽवगाढस्तत्र नास्त्येकोऽपि तप्रदेशोऽवगाढइति, अधर्मास्तिकायाकाशास्तिकाययोरसङ्ख्येयाः प्रदेशाअवगाढा असङ्खयेयप्रदेशत्वादधर्मास्तिकायलोकाकाशयोः, जीवास्तिकायसूत्रेचानन्तास्तप्रदेशाः, अनन्तप्रदेशवाजीवास्तिकायस्य, पुद्गलास्तिकायसूत्राद्धासूत्रयोरप्येवं, एतदेवाह-‘एवंजाव अद्धासमय'त्ति Jain Education International For Private & Personal Use Only www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy