________________
शतकं - १३, वर्ग:-, उद्देशकः - ४
अप्पत्तियतरा चेव २ नो तहा महड्डियता चेव १ नो महजुइयतरा चेव २ ।
छट्टीए णं तमाए पुढवीए एगे पंचूणे निरयावाससय सहस्से पन्नत्ते, तेणं नरगा अहेसत्तमाए पुढवीए ने रइ एहिंतो नो तहा महत्तरा चेव महाविच्छिन्न० ४ महम्पवेसणतरा चैव आइन० ४ तेसु णं नरएसु णं नेरतिया अहेसत्तमाए पुढवीए नेरइएहिंतो अप्पकम्मतरा चेव अप्पकिरि० ४ नो तहा महाकम्पतरा चैव महाकिरिय ४ महड्डियतरा चैव महाजुइयतरा चेव नो तहा अप्पड्डियतरा चेव अप्पजुइयतरा चेव ।
छट्टीए णं तमाए पुढवीए नरगा पंचमाए धूमप्पभाप पु० नरएहिंतो महत्तरा चेव ४ नो तहा महप्पवेसणतरा चेव ४, तेसुणं नरएसु नेरतिया पंचमाए धूमप्पभाए पुढवीएहिंतो महाकम्मतरा चैव ४ नो तहा अप्पकम्मतरा चेव ४ अप्पड्डियतरा चेव २ नो तहा महड्डियतरा चेव २ ।
पंचमाए णं धूमप्पभाए पुढवीए तिन्नि निरयावाससयसहस्सा पत्रत्ता एवं जहा छट्टीए भणिया एवं सत्तवि पुढवीओ परोप्परं भण्णंति जाव रयणप्पभंति जाव नो तहा महड्डियतरा चेव अप्पत्तियतरा चेव ।
१०५
वृ. 'कइ ण' मित्यादि, इह च द्वारगाथे क्वचिद् दृश्येते, तद्यथा"नेरइय १ फास २ पणिहो ३ निरयंते ४ चेव लोयमज्झे य ५ । दिसिविदिसाण य पवहा ६ पवत्तणं अस्थिकाएहिं ७ ॥ अत्थी पएसफुसणा ८ ओगाहणया य जीवमोगाढा । अस्थि पएसनिसीयण बहुस्समे लोगसंठाणे ।। इति
अनयोश्चार्थः उद्देशकार्थाधिगमावगम्य एवेति, 'महंततरा चेव'त्ति आयामतः 'विच्छिन्नतरा चेव'त्ति विष्कम्भतः 'महावासतरा चेव' त्ति अवकाशो--बहूनां विवक्षितद्रव्याणामवस्थानयोग्यं क्षेत्रं महानवकाशो येषु ते महावकाशाः अतिशयेन महावकाशा महावकाशतराः, ते च महाजनसङ्कीर्णा अपि भवन्तीत्यत उच्यते 'महापइरिक्कतरा चेव' त्ति महत्प्रतिरिक्तं - विजनमतिशयेन येषु ते तथा 'नो तहा महापवेसणतरा चेव' त्ति 'नो' नैव ' तथा ' तेन प्रकारेण यथा षष्ठपृथिवीनरका अतिशयेन महटावेशनं-गत्यन्तरान्नरकगतौ जीवानां प्रवेशो येषु ते तथा, षष्ठपृथिव्यपेक्षयाऽसङ्ख्यगुणहीनत्वात्तन्नारकाणामिति, नोशब्द उत्तरपदद्वयेऽपि सम्बन्धनीयः, यत एव नो महाप्रवेशनतरा अत एवं 'नो आइन्नतरा चेव' त्ति नात्यन्तमाकीर्णा सङ्कीर्णा नारकैः 'नो आउलतरा चेव' त्ति इतिकर्तव्यतया ये आकुला नारकलोकास्तेषामतिशयेन योगादाकुलतरास्ततो नोशब्दयोगः, किमुक्तं भवति ।
॥१॥
॥२॥
'अनोमानतरा चेव' त्ति अतिशयेनासङ्कीर्णा इत्यर्थः- क्वचित्पुनरिदमेवं दृश्यते'अनोयणता चेव' त्ति तत्र चानोदनतराः व्याकुलजनाभावातिशयेन परस्परं नोदनवर्जिता इत्यर्थः ‘महाकम्मतर’त्ति आयुष्कवेदनीयादिकर्म्मणां महत्त्वात् 'महाकिरियतर' त्ति कायिक्यादिक्रयाणां महत्वात् तत्काले कायमहत्वात्पूर्वकाले च महार्भादित्वाद् अत एव महाश्रक्तरा इति 'महावेयतर 'त्ति महाकर्मत्वात्, 'नो तहे' त्यादिना निषेधतस्तदेवोक्तं, विधिप्रतिषेधतो वाक्यप्रवृत्तेः, नोशब्दश्चेह प्रत्येकं सम्बन्धनीयः पदचतुष्टय इति, तथा 'अप्पड्डियतर' त्ति अवध्यादिॠद्धेरल्पत्वात् 'अप्पज्जुइयतर' त्ति दीप्तेरभावात्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org