________________
___९९
शतकं-१३, वर्गः,, उद्देशकः-१ उववदंति'त्ति उद्धर्त्तना हि परभवप्रथमसमयेस्यात्नच नारकाअसज्ञिषूत्पद्यन्तेऽ-तस्तेऽसचिनः सन्तो नोद्वर्त्तन्त इत्युच्यते, एवं 'विभंगनाणी न उववटुंती'त्यपि भावनीयं, शेषाणि तु पदान्युत्पादवद्वयाख्येवानि, उक्तञ्च चूाम्॥१॥ "असनिणो य विभंगिणो य उव्वट्ठणाइ वजेज्जा ।
दोसुविय चक्खुदंसणी मणवइ तह इंदियाई वा ।।" इति ।। अनन्तरं रलप्रभनारकाणामुत्पादे उद्वर्तनायां च परिमाणमुक्तमथ तेषामेव सत्तायां तदाह-'इमीसेणमित्यादि, केवइया अनंतरोववन्नग'त्ति कियन्तःप्रथमसमयोत्पन्नाः? इत्यर्थः 'परंपरोववन्नग'त्तिउत्पत्तिसमयापेक्षया द्वयादिसमयेषु वर्तमानाः 'अनंतरावगाढ'तिविवक्षितक्षेत्रे प्रथमसमयावगाढाः 'परंपरोगाढ'त्तिविवक्षितक्षेत्रे द्वितीयादिकः समयोऽवगाढे येषांतेपरम्परावगाढाः 'केवइया चरिम'त्ति चरमो नारकभवेषु स एव भवो येषां ते चरमाः, नारकभवस्य वा चरमसमये वर्तमानाश्चरमाः, अधरमास्त्वितरे, 'असन्नी सिय अस्थि सिय नत्यि'त्ति असज्ञिभ्य उदृत्य ये नारकत्वेनोत्पन्नास्तेऽपर्याप्तकावस्थायामसज्ज्ञिनो भूतभावत्वात्ते चाल्पा इति कृत्वा "सियअत्थी' त्याद्युक्तं, मानमायालोभकषायोपयुक्तानांनोइन्द्रियोपयुक्तानमनन्तरोपपनानामनन्तरावगाढानामनन्तराहारकाणामनन्तरपर्याप्तकानांच कादाचित्कत्वात् 'सिय अस्थि इत्यादि वाच्यं, शेषाणां तु बहुत्वात्सङ्ख्याता इति वाय॑मिति ।
अनन्तरं सङ्ख्यातविस्तृतनरकावासनारकवक्तव्यतोक्ता, अथ तद्विपर्यवक्तव्यतामभिधातुमाह- 'इमीसे ण मित्यादि, 'तिन्नि गमग'त्ति ‘उववजंति उव्वटुंति पन्नत्त'त्ति एते त्रयो गमाः, 'ओहिनाणी ओहिदंसणी य संखेना उव्वट्टावेयव्य'त्ति कथं?, ते हि तीर्थःकरादय एव भवन्ति, तेच स्तोकाः स्तोकत्वाच्च सङ्ख्याता एवेति, 'नवरं असन्नीतिसुवि गमएसुन भन्नति' कस्मात् ?, उच्यते-असज्ञिनः प्रथमायामेवोत्पद्यन्ते 'असन्नी खलु पढम' इति वचनादिति, 'नाणतंलेसासुलेसाओजहा पढमसए'त्ति, इहाद्यपृथिवीद्वयापेक्षया तृतीयादिपृथिवीषुनानात्वं लेश्यासु भवति, ताश्च यथा प्रथमशते तथाऽध्येयाः, तत्र च सङ्ग्रहगाथेयं॥१॥ "काऊदोस तइयाइ मीसिया नीलिया चउत्थीए।
पंचमिए मीसा कण्हा तत्तो परमकण्हा ।।" इति । 'नवरंओहिनाणीओहिदसणीयन उववजंति'त्ति, कस्मात्?,उच्यते, तेहिप्रायस्तीर्थःकरा एव, तेचचतुर्थ्या उद्वृत्तानोत्पद्यतइति, 'जाव अपइहाणे'त्तिइहयावत्करणात् काले महाकाले रोरुए महारोरुए'त्तिश्यम्इह चमध्यम एव सङ्खयेयविस्तृतइति, 'नवरं तिसुनाणेसुनउववजेति न उव्वटुंति'त्ति सम्यक्त्वभ्रष्टानामेव तत्रोत्पादात् तत उद्वर्तनाच्चाद्येषु त्रिषु ज्ञानेषु नोत्पद्यन्ते नापि चोद्वर्तन्त इति ‘पनत्ताएसु तहेव अथित्ति एतेषु पञ्चसु नरकावासेषु कियन्त आभिनिबोधिकज्ञानिनः श्रुतज्ञानिनोऽवधिज्ञानिनश्च प्रज्ञप्ताः ? इत्यत्र तृतीयगमे तथैवप्रथमादिपृथिवीष्विव सन्ति, तत्रोत्पन्नानांसम्यग्दर्शनलाभेआभिनिबोधिकादिज्ञानत्रयभावादिति
मू. (५६५)इमीसेणंभंते! रयणप्पभाए पुढवीएतीसाएनिरयावाससयसहस्सेतुसंखेजवि० नरएसु किं सम्मबीट्ठी नेरतिया उवव० मिच्छदिट्ठी ने० उव० सम्मामिच्छदिट्ठी नेर० उव०?, गोयमा ! सम्मदिट्ठीवि नेरइया उव० मिच्छादिट्ठीवि नेरइया उव० नो सम्मामिच्छदिट्ठी उव० ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org