________________
शतकं-१२, वर्गः-, उद्देशकः-१० दिष्टोऽनात्मा २ तदुभयस्य-द्विप्रदेशिकस्कन्धतदन्यस्कन्धलक्षणस्य पर्यायैरादिष्टोऽसाववक्तव्यं वस्तु स्यात्, कथम्?, आत्मेति चानात्मेति चेति २ तथा द्विप्रदेशत्वात्तस्य देश एक आदिष्टः, सद्भावप्रधानाः-सत्तानुगताः पर्यवा यस्मिन् स सद्भावपर्यवः, अथवा तृतीयाबहुवचनमिदं स्वपर्यवैरित्यर्थः, द्वितीयस्तु देश आदिष्टः असद्भावपर्यवः परपर्यायरित्यर्थः, परपर्यवाश्च तदीयद्वितीयदेशसम्बन्धिनोवस्त्वन्तरसम्बन्धिनो वेति, ततश्चासौ द्विप्रदेशिकः स्कन्धः क्रमेणात्मा चेतिनोआत्माचेति ४, तथा तस्य देशआदिष्टः सद्भावपर्यवो देशश्चोभयपर्यवस्ततोऽसावात्मा चावक्तव्यं चेति ५, तथा तस्यैवदेश आदि-प्टोऽसद्भावपर्यवोदेशस्तूभयपर्यवस्ततोऽसौ नोआत्मा चावक्तव्यंचस्यादिति ६, सप्तमः पुनरात्माचनोआत्मा चावक्तव्यंचेत्येवंरूपोनभवति द्विप्रदेशिके यंशत्वादस्य त्रिप्रदेशिकादौ तु स्यादिति सप्तभङ्गी।
त्रिप्रदेशिकस्कन्धेतुत्रयोदशभङ्गास्तत्र पूर्वोक्तेषुसप्तस्वाद्याः सकलादेशायस्तथैव, तदन्येषु तु त्रिषु त्रयम्रय एकवचनबहुवचनभेदात्, सप्तमस्त्वेकविधि एव, यच्चेह प्रदेशद्वयेऽप्येकवचनं क्वचित्तत्तस्य प्रदेशद्वयस्यैकप्रदेशावगाढत्वाहेतुनैकत्वविवक्षणात्, भेदविवक्षायांच बहुवचनमिति चतुष्प्रदेशिकेऽप्येवं नवरमेकोनविंशतिभङ्गाः, तत्र त्रयः सकलादेशाः तथैव शेषेषु चतुर्युप्रत्येक चत्वारोविकल्पाः,तेचैवं चतुर्थादिषुत्रिषु- सप्तमस्त्वेवम् - पञ्चप्रदेशिकेतुद्वाविंशति-स्तत्राधास्त्रयस्तथैव, तदुत्तरेषु च त्रिषु प्रत्येकं चत्वारो विकल्पास्तथैव, सप्तमे तु सप्त, तत्र त्रिकसंयोगे किलाप्टौ भङ्गका भवन्ति, तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु च सप्तैवेह ग्राह्या एकस्तु तेषु न पतत्यसम्भवात्। इदमेवाह-तिगसंजोगे'त्यादि, षटप्रदेशिके त्रयोविंशतिरिति।
शतकं-१२ उद्देशकः-१० समाप्तः गम्भीररूपस्य महोदधेर्योतः परं पारमुपैति मछु । गतावशक्तोऽपि निजप्रकृत्या, कस्याप्यष्टस्य विजृम्भितं तत् ।
शतक-१२ समाप्तम् मुनि दीपरलसागरेण संशोधिता सम्पादिता भगवती अङ्गसूत्रे अभयदेवसूरि विरचिता द्वादशशतकस्य टीका परिसमाप्ता।
(शतकं-१३) वृ. व्याख्यातं द्वादशं शतं, तत्रचानेकधा जीवादयः पदार्था उक्ताः,त्रयोदशशतेऽपित एव भङ्गयन्तरेणोच्यन्त इत्येवं सम्बन्धमिदं व्याख्यायते, तत्र पुनरियमुद्देशकसङ्ग्रहगाथामू. (५६३) पुढवी १ देव २ मनंतर ३ पुढवी ४ आहारमेव ५ उववाए ६।
भासा७ कम ८ अनगारे केयाघडिया ९ समुग्घाए १०।। वृ. पुढवी'त्यादि, 'पुढवी तिनरकपृथिवीविषयः प्रथमः १, 'देव'त्तिदेवप्ररूपणार्थोद्वितीयः २ अनंतर ति अनन्तराहारा नारका इत्याद्यर्थः प्रतिपादनपरस्तृतीयः ३, पुढवि'त्ति पृथिवीगतवक्तव्यताप्रतिबद्धश्चतुर्थः४, आहारे'त्ति नारकाद्याहारप्ररूपणार्थः पञ्चमः ५, 'उववाए ति नारका
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org