________________
शतकं - १२, वर्ग:-, उद्देशकः - १०
तस्य चारित्रात्मा स्यादस्ति संयतानामिव स्यान्नास्त्यसंयतानामिव यस्य च चारित्रात्मा तस्य दर्शनात्माऽस्त्येव साधूनामिवेति ?, तथा यस्य दर्शनात्मा तस्य वीर्यात्मा स्यादस्ति संसारिणामिव स्यान्नास्ति सिद्धानामिव, यस्य च वीर्यात्मा तस्य दर्शनात्माऽस्त्वेव संसारिणामिवेति २ ।
अथान्तिमपदयोर्योजना- 'जस्स चरिते' त्यादि, यस्य चारित्रात्मा तस्य वीर्यात्माऽस्त्येव, वीर्यं विना चारित्रस्याभावात्, यस्य पुनर्वीर्यात्मा तस्य चारित्रात्मा स्यादस्ति साधूनामिव स्यान्नास्त्यसंयतानामिवेति ।
९१
अधुनैषामेवात्मनामल्पबहुत्वमुच्यते- 'सव्वत्थोवाओ चरित्तायाओ'त्ति चारित्रिणां सङ्ख्यातत्वात् 'नाणायाओ अनंतगुणाओ' त्ति सिद्धादीनां सम्यग्ध्शां चारित्रेभ्योऽनन्तगुणत्वात् 'कसायाओ अनंतगुणाओ' त्ति सिद्धेभ्यः कषायोदयवतामनन्तगुणत्वात् 'जोगायाओ विसेसाहियाओ'त्ति अपगतकषायोदयैर्योगवद्भिरधिका इत्यर्थः 'वीरियायाओ विसेसाहियाओ'त्ति अयोगिभिरधिका इत्यर्थः, अयोगिनां वीर्यवत्त्वादिति, 'उवओगदवियदंसणायाओ तिन्निवितुल्लाओ विसेसाहियाओ' त्ति परस्परापेक्षया तुल्याः, सर्वेषां सामान्य जीवरूपत्वात्, वीर्यात्मभ्यः सकाशादुपयोगद्रव्यदर्शनात्मानो विशेषाधिका यतो वीर्यात्मानः सिद्धाश्च मीलिता उपयोगाद्यात्मानो भवन्ति, तेच वीर्यात्मभ्यः सिद्धराशिनाऽधिका भवन्तीति, भवन्ति चात्र गाथाः"कोडीसहरसपुहुत्तं जईण तो थोवियाओ चरणाया ।
॥ १ ॥
नाणायाऽनंतगुणा पडुच्च सिद्धे य सिद्धाओ ॥ होति कसायायाओऽ नंतगुणा जेण ते सरागाणं । जगाया भणियाओ अयोगिवज्राण तो अहिया || जं सेलेसियाणवि लद्धी विरियं तओ समहियाओ । उवओगदविदंसण सव्वजिया णं ततो अहिया ।। इति ।
॥ ३ ॥
मू. (५६१) आया भंते ! नाणे अन्नाणे ?, गोयमा ! आया सिय नाणे सिय अन्नाणे नाणे पुण नियमं आया। आया भंते! नेरइयाणं नाणे अन्ने नेरइयाणं नाणे ? गोयमा ! आया नेरइयाणं सिय नाणे सिय अन्नाणे नाणे पुण से नियमं आया एवं जाव थणियकुमाराणं ।
आया भंते! पुढवि० अन्नाणे अत्रे पुढविकाइयाणं अन्नाणे ? गोयमा ! आया पुढविकाइयाणं नियमं अन्नाणे अन्त्राणेवि नियमं आया, एवं जाव वणस्सइका० बेइंदियतेइंदिय जाव वेमाणियाणं जहा नेरइयाणं ।
॥२॥
आया भंते! दंसणे अत्रे दंसणे ? गोयमा !, आया नियमं दंसणे दंसणेवि नियमं आया । आया भंते ! नेर० दंसणे अन्ने नेरइयाणं दंसणे ?, गोयमा ! आया नेरइयाणं नियमा दंसणे दंसणेवि से नियमं आया एवं जाव वेमा० निरंतरं दंडओ ।
वृ. अथात्मना एव स्वरूपनिरूपणायाह - 'आया भंते! नाणे' इत्यादि, आत्मा ज्ञानं योऽयमात्माऽसौ ज्ञानं न तयोर्भेदः अथात्मनोऽन्यज्ज्ञानमिति प्रश्नः, उत्तरंतु आत्मा स्याज्ज्ञानं सम्यक्त्वे सति मत्यादिज्ञानस्वभावत्वात्तस्य, स्यादज्ञानं मिथ्यात्वे सति तस्य मत्यज्ञानादिस्वभावत्वात्, ज्ञानं पुनर्नियमादात्मा आत्मधर्मत्वाज्ञास्य, न च सर्वथा धर्मो धर्मिणो भिद्यते, सर्वथा भेदे हि विप्रकृष्टगुणिनो गुणमात्रोपलब्धौ प्रतिनियतगुणिविषय एव संशयो न स्यात्, तदन्येभ्योऽपि तस्य
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org