________________
शतकं-१२, वर्ग:-, उद्देशक:-२
-भव्यानामेव सिद्धिरित्येतया दृष्टया-मतेनेति - ॥१०॥ "अहवा पडुच्च कालं न सव्वभव्वाण होइ वोच्छित्ती।
जं तीतनागयाओ अद्धाओ दोवि तुल्लाओ ।। ॥११॥ तत्थातीतद्धाए सिद्धो एक्को अनंतभागो सिं ।
कामं तावइओ च्चिय सिज्झिहिइअनागयताए।। ॥१२॥ ते दो अनंतभागा होउं सोच्चिय अनंतभागो सिं।
. एवंपि सव्वभव्याण सिद्धिगमणं अनिद्दिढं ॥ तौ द्वावप्यनन्तभागौ मीलितौ सर्वजीवानामनन्त एव भाग इति, यत्पुनरिदमुच्यते-- अतीताद्धतोऽनागताद्धाऽनन्तगुणेति तन्मतान्तरं, तस्य चेदं बीजं-यदि द्वेअपितेसमाने स्यातां तदा मुहूर्तादावतिक्रान्तेऽतीताद्धासमधिकाअनागताद्धाच हीनेति हतंसमत्वम्, एवंचमुहूर्त्तादिभि प्रतिक्षणंक्षीयमाणाऽप्यनागताद्धायतो नक्षीयते ततोऽवसितंततः साऽनन्तगुणेति, यच्चोभयोः समत्वं तदेवं यथाऽनागताद्धाया अन्तो नास्ति एवमतीताद्धाया आदिरिति समतेति ।
जीवाश्चन सुप्ताः किंतर्हि जागरा एवेति सुप्तजागरसूत्रम्-तत्रच 'सुत्तत्त'ति निद्रावशत्वं 'जागरियत्त'ति जागरणं जागरः सोऽस्यास्तीतिजागरिकस्तद्भावोजागरिकत्वम् अहम्मिय'त्ति धर्मेण-श्रुतचारित्ररूपेण चरन्तीति धार्मिकास्तनिषेधादधार्मिकाः, कुत एतदेवतमित्यत आह'अहम्माणुया' धर्म-श्रुतरूपमनुगच्छन्तीति धर्मानुगास्तनिषेधादधर्मानुगाः, कुत एतदेवमित्यत आह- 'अहम्मिट्ठा' धर्मः श्रुतरूप एवेष्टो-वल्लभः पूजितो येषां तेधर्मेटाः धर्मिणां वेष्टा धर्मीष्टाः अतिशयेन वाधर्मिणो धर्मिष्ठास्तनिषेधादधर्मेष्टा अधर्मीष्टाअधर्मिष्ठाव, अतएव 'अहम्मकखाई नधर्ममाख्यान्तीत्येवंशीला अधर्माख्यायिनःअथवा न धर्मात् ख्यातिर्येषां तेऽधर्मख्यातय 'अहम्मपलोइ'ति न धर्ममुपादेयतया प्रलोकयन्ति ये तेऽधर्मप्रलोकिनः 'अहम्मपलत्रण'त्ति न धर्मे प्ररज्यन्ते-आसजन्ति ये तेऽधर्मप्ररञ्जनाः। '
एवंच 'अहम्मसमुदाचार'तितिनधर्मरूपः-चारित्रात्मकः समुदाचारः-समाचारः सप्रमोदो वाऽऽचारो येषां ते तथा, अत एव 'अहम्मेण चेवे'त्यादि, 'अधर्मेण' चारित्र श्रुतविरुद्धरूपेण 'वृत्ति' जीविकां 'कल्पयन्तः' कुर्वाणा इति ॥ अनन्तरं सुप्तजाग्रतां साधुत्वं प्ररूपितम्, अथ दुर्बलादीनां तथैव तदेव प्ररूपयन् सूत्रद्वयमाह
'बलियत्तं भंते !' इत्यादि, 'बलियत्तं'ति बलमस्यास्तीति बलिकस्तद्भावो बलिकत्वं 'दुब्बलियत्तंति दुष्टं बलमस्यास्तीति दुर्बलिकस्तद्भावो दुर्बलिकत्वं । दक्षत्वं च तेषां साधु ये नेन्द्रियवशा भवन्तीतीन्द्रियवशानां यद्भवति तदाह-“सोइंदिए'त्यादि, 'सोइंदियवसट्टे'त्ति श्रोत्रेन्द्रियवशेन-तत्परतन्त्रयेण ऋतः-पीडितःश्रोत्रेन्द्रियवशातः श्रोत्रेन्द्रियवशंवा ऋतो-गतः श्रोवेन्द्रियवशातः।
शतकं-१२ उद्देशकः-२ समाप्त
-शतके-१२ उद्देशक:-३:वृ.अनन्तरं श्रोत्रादीन्द्रियवशार्ता अष्टकर्मप्रकृतीर्बघ्नतीत्युक्तं, तद्वन्दनाञ्चनरकपृथिवीष्वप्युत्पद्यन्त इति नरकपृथिवीस्वरूपप्रतिपादनाय तृतीयोद्देशकमाह, तस्य चेदमादिसूत्रम्
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org