________________
भगवतीअङ्गसूत्रं (२) ११/-199/५१८ एषामिव स्पर्शो यस्य तत्तथा तत्र 'सुगंधवरकुसुमचुन्नसयणोवयारकलिए'त्ति सुगन्धीनि यानि वरकुसुमानि चूर्णाएतद्वयतिरितक्तथाविधशयनोपचाराश्चतैःकलितंयत्तत्तथातत्र अद्धरत्तकालसमयंसि'ति समयः समाचारोऽपि भवतीति कालेन विशेषितः कालरूपः समयः कालसमयः स चानर्द्धरात्रिखपोऽपिभवतीत्यतोऽर्द्धरात्रिशब्देन विशेषितस्ततश्चार्द्धरात्ररूपःकालसमयोऽर्द्धरात्रकालसमयस्तत्र ‘सुतजागर'त्ति नातिसुप्ता नातिजागरेति भावः किमुक्तं भवति ?
'ओहीरमाणी'त्तिप्रचलायमाना, ओरालादिविशेषणानिपूर्ववत् सुविणे तिस्वप्नक्रियायां 'हाररययखीरसागरससंककिरणदगरयरययमहासेलपंडुरतरोरुरमणिज्जपेच्छमिजं हारादयइव पाण्डुरतरः-अतिशुक्लः उरु-विस्तीर्णो रमणीयो-रम्योऽत एवं प्रेक्षणीयश्च-दर्शनीयो यः स तथा तम्, इह च रजतमहाशैलो वैताढ्य इति, "थिरलट्ठपउट्ठवट्टपीवरसुसिलिट्ठविसिट्ठतिक्खदाढाविडंबियमुहं'स्थिरौ-अप्रकम्पौ लप्टौ-मनोज्ञौ प्रकोष्ठौ-कर्पूराग्रेतनभागौ यस्य स तथा तं वृत्ता-वर्तुलाः पीवराः-स्थूलाः सुश्लिष्टा अविशर्वराः विशिष्टा-वराः तीक्ष्णा-भेदिका या दंष्ट्रास्ताभिः कृत्वा विडम्बितंमुखंयस्य स तथा ततः कर्मधारयोऽतस्तं परिकम्मियजच्चकमलकोमलामाइयसोहंतलठ्ठउटुं' परिकर्मितं कृतपरिकर्मयज्जात्यकमलंतद्वत्कोमलौ मात्रिकौ-प्रमाणोपपनौ शोभमानानां मध्ये लटौ-मनोज्ञौ ओष्ठौ. दशनच्छदौ यस्य स तथा तं 'रत्तुप्पलपत्तमउयसुकुमालतालुजीह' रक्तोत्पलपत्रवत् मृदूनां मध्ये सुकुमाले तालुजिह्ने यस्य स तथा तं ।
वाचनान्तरे तु 'रत्तुप्पलपत्तमउयसुकुमालतालुनिल्लालियग्गजीहं महुगुलियामिसंतपिंगलच्छं'त्ति दीप्यमाने पिङ्गले अक्षिणी यस्य स तथा तं 'मूसागयपवरकणगतावियआवत्तायंतवट्टतडिविमलसरिसनयणं' मूषा-स्वर्णादितापभाजनं तद्गतं यत्प्रवरकनंक तापितंकृताग्नितापम् ‘आवत्तायंत'त्ति आवर्त कुर्वाणं तद्वद्ये वर्णतः वृत्ते च तडिदिव विमले च सद्दशे च परस्परेणनयने-लोचने यस्य स तथातं 'विसालपीवरोरुपडिपुनविपुलखंध विशाले विस्तीर्णे पीवरे-उपचिते ऊरू-जङ्ग्रे यस्य परिपूर्णो विपुलश्च स्कन्धो यस्य स तथा तं 'मिउविसयसुहुमलक्खणपसत्थविच्छिन्नकेसरसडोवसोहियं' मृदवः 'विसद ति स्पष्टाः सूक्ष्माः 'लखणपसत्य'त्ति प्रशस्तलक्षणाः विस्तीर्णा पाठान्तरेण विकीर्णा याः केशरसटाः-स्कन्धकेशच्छटास्ताभिरूपशोभितो यः सतथा तम् 'ऊसियसुनिम्मियसुजायअप्फोडियलंगूल' उच्छितं-ऊर्वी कृतं सुनिर्मित-सुष्ठु अधोमुखीकृतं सुजातं-शोभनतया जातं आस्फोटितं च भूमावास्फालितं लालंयेन सतथा तम् । अतुरियमचवलंति देहमनश्चापल्यरहितंयथा भवत्येवम् असंभंताए'त्ति अनुत्सुकया 'रायहंससरिसीए'त्ति राजहंसगतिसदृश्येत्यर्थः 'आसत्य'त्ति आश्वस्ता गतिजनितश्रमाभावात् 'वीसत्य'त्ति विश्वस्ता सङ्क्षोभाभावात् अनुत्सुका वा 'सुहासणवरगयत्ति सुखेन सुखं वा शुभंवाआसनवरंगता यासा तथा 'धाराहयनीवसुरहिकुसुमचंचुमालइयतणुत्ति धाराहतनीपसुरभि-कुसुममिव 'चंचुमालइय'त्ति पुलकिता तनुः-शरीरं यस्य स तथा, किमुक्तं भवति?
"ऊसविय-रोमकूवे'त्ति उच्छ्रितानि रोमाणिकूपेषु-तद्रन्धेषुयस्य स तथा, 'मइपुव्वेणं ति आभिनिबोधिकप्रभवेन 'बुद्धिवन्नाणेणं ति मतिविशेषभूतौत्पत्तिक्यादिबुद्धिरूपपरिच्छेदेन 'अत्थोग्गहणं'तिफलनिश्चयम् 'आरोग्गतुठ्ठिदीहाउकल्लाणमंगल्लकारएणति इह कल्याणानिअर्थःप्राप्तयो मङ्गलानि-अनर्थःप्रतिघाताः अत्थलाभो देवाणुप्पिए!' भविष्यतीति शेषः 'कुल
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org