________________
२०
संजुते सव्वागासस अनंतभागूणे ।
दव्वओ णं अहेलोगखेत्तलोए अनंताइं जीवदव्याइं अनंताई अजीवदव्वाइं अनंता जीवाजीवदव्वा एवं तिरियलोयखेत्तलोएवि, एवंऊडलोयखेत्तलोएवि, दव्वओ णं अलोए नेवत्थि जीवदव्वा नेवत्थि अजीवदव्वा नेवत्थि जीवाजीवदव्वा एगे अजीवदव्वदेसे जाव सव्वागास अनंतभागणे ।
कालओ णं अहेलोयखेत्तलोए न कयाइ नासि जाव निच्चे एवं जाव अहोलोगे । भावओ णं अहेलोगखेत्तलोए अनंता वन्नपजवा जहा खंदए जाव अनंता अगुरुयलहुयपजवा एवं जाव लोए, भावओ गं अलोए नेवत्थि वत्रपज्जया जाव नेवत्थि अगुरुयलहुयपजवा एगे अजीवदव्यदेसे जाव अनंतभागूणे ॥
भगवती अङ्गसूत्रं (२) ११/-/१०/५१०
बृ. 'रायगिहे' इत्यादि, 'दव्वलोए 'त्ति द्रव्यलोक आगमतो नोआगमतश्च तत्रागमतो द्रव्यलोको लोकशब्दार्थः ज्ञस्तत्रानुपयुक्तः 'अनुपयोगो द्रव्य' मिति वचनात्, आह च मङ्गलं प्रतीत्य द्रव्यलक्षणम्
#19 11
"आगमओऽनुवउत्तो मंगलसद्दाणुवासिओ वत्ता। तन्नाणलद्धिजुत्तो उ नोवउत्तोत्ति दव्वं ॥" ति
नो आगमतस्तु ज्ञशरीरभव्यशरीरतद्व्यतिरिक्तभेदात्रिविधः, तत्र लोकशब्दार्थः ज्ञस्य शरीरं मृतावस्थं ज्ञानापेक्षया भूतलोकपर्यायतया घृतकुम्भवल्लोकः स घ ज्ञशरीररूपो द्रव्यभूतो लोको ज्ञशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थं ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मदुघटवद् भव्यशरीरद्रव्यलोकः, नोशब्दश्चेह सर्वनिषेधे, तथा लोकशब्दार्थ ज्ञास्यति यस्तस्य शरीरं सचेतनं भाविलोकभावत्वेन मधुघटवद् भव्यशरीरद्रव्यलोकः, नोशब्द इहापि सर्वनिषेध एव, ज्ञशरीरभव्यशरीरव्यतिरिक्तश्च द्रव्यलोको द्रव्याण्येव धर्मास्तिकायादीनि,
आह च
॥१॥
इहापि नोशब्दः सर्वनिषेधे आगमशब्दवाच्यस्य ज्ञानस्य सर्वथा निषेधात्, 'खेत्तलोए' त्ति क्षेत्ररूपो लोकः स क्षेत्रलोकः, आह च
119 11
"आगासस्स पएसा उड्डुं च अहे य तिरियलोए य ।
जाणाहि खेत्तलोयं अनंतजिणदेसियं सम्मं ॥"
119 11
“जीवमजीवे रूविमरूवि सपएस अप्पएसे य । जाणाहि दव्वलोयं निञ्चमणिचं च जं दव्वं ॥”
'काललोए' त्ति कालः--समयादि - तद्रूपो लोकः काललोकः, आह च"समयावली मुहुत्ता दिवस अहोत्तपक्खमासा य ।
संवच्छरजुगपलिया सागरउस्सप्पिपरियट्टा ।।"
'भावलोए 'ति भावलोको द्वेधा-आगमतो नोआगमतश्च, तत्रागमतो लोकशब्दार्थः ज्ञस्तत्र चोपयुक्तः भावरूपो लोको भावलोक इति नो आगमस्तु भावा - औदायिकादयस्तद्रूपो लोको भावलोकः, आह च॥ १ ॥
Jain Education International
"ओदइए उवसमिए खइए य तहा खओवसमिए य । परिणामसन्निवाए य छव्विहो भालोगो उ ॥” इति
For Private & Personal Use Only
www.jainelibrary.org