SearchBrowseAboutContactDonate
Page Preview
Page 576
Loading...
Download File
Download File
Page Text
________________ शतकं - ११, वर्ग:, उद्देशक :- १ अवन्धका अपि च भवन्तीति एतदेवाह - 'नवर' मित्यादि, इह बन्धकाबन्धकपदयोरेकत्वयोगे एकवचनेन द्वौ विकल्पौ बहुवचनेन च द्वौ द्विकयोगे तु यथायोगमेकत्ववहुत्वाभ्यां चत्वारः इत्येवमष्टौ विकल्पाः, ९ वेदनद्वारे ते भदन्त ! जीवा ज्ञानावरणीयस्य कर्मणः किं वेदका अवेदकाः ?, अत्रापि एकपत्रतायामेकवचनान्तता अन्यत्र तु बहुवचनान्तता एवं यावदन्तरायस्य, वेदनीये साता साताभ्यां पूर्ववदष्टौ भङ्गाः, इह च सर्वत्र प्रथमपत्रापेक्षयैकवचनान्तता, ततः परं तु बहुवचनान्तता, वेदनं अनुक्रमोदितस्योदीरणोदीरितस्य वा कर्म्मणोऽनुभवः, उदयञ्चानुक्रमोदितस्यैवेति वेदकत्वप्ररूपणेऽपि भेदेनोदयित्व प्ररूपण ७ मिति । उदीरणाद्वारे 'नो अनुदीरग' त्ति तस्यामवस्थायां तेषामनुदीरकत्वस्यासम्भवात् । 'वेयणिज्जाउएसु अट्टभंग' त्ति वेदनीये-सातासातापेक्षया आयुषि पुनरुदी रकत्वानुदीर-कत्वापेक्षयाऽटी भङ्गाः, अनुदीरकत्वं चायुष उदीरणायाः कादाचित्कत्वादिति । लेश्याद्वारेऽशीतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनेन चत्वारो बहुवचनेनापि चत्वार एव, द्विकयोगे तु यथायोगमेकवचनवहुवचनाभ्यां चतुर्भङ्गी, चतुर्णां च पदानां षड् द्विकयोगास्ते चतुर्गुणाश्चतुर्विंशति, त्रिकयोगे तुत्रयाणां पदानामष्टौ भङ्गाः, चतुर्णां च पदानां चत्वारस्त्रिकसंयोगास्ते चाष्टाभिर्गुणिता द्वात्रिंशत्, चतुष्कसंयोगे तु षोडश भङ्गाः, सर्वमीलने चाशीतिरिति, अत एवोक्तं 'गोयमा ! कण्हलेसे वे 'त्यादि । वर्णादिद्वारे 'ते पुण अप्पणा अवन्न' त्ति शरीराण्येव तेषां पञ्चवर्णादीनि ते पुनरुत्पलजीवाः 'अप्पण' ति स्वरूपेण 'अवर्णा' वर्मादिवर्जिताः अमूर्त्तत्वात्तेषामिति । उच्छ्वासकद्वारे 'नो उत्सासनिस्सासए' ति अपर्याप्तावस्थायाम्, इह च षडविंशतिर्भङ्गाः, कथम् ?, एककयोगे एकवचनान्तास्त्रयः बहुवचनान्ता अपि त्रयः, द्विकयोगे तु यथायोगमेकत्वबहुत्वाभ्यां तिश्चतुर्भङ्गिका इति द्वादश, त्रिकयोगे त्वष्टाविति, अत एवाह - 'एए छव्वीसं भंगा भवंति त्ति ॥ आहारकद्वारे ‘आहारए वा अनाहारए व 'त्ति विग्रहगतावनाहारकोऽन्यदा त्वाहारकस्तत्र चाट भङ्गाः पूर्ववत् । सञ्ज्ञीद्वारे कषायद्वारे चाशीतिर्भङ्गाः लेश्याद्वारवद्वयाख्येयाः । 'से णं भंते ! उप्पलजीवेत्ति इत्यादिनोत्पलत्वस्थितिरनुबन्धपर्यायतयोक्ता । 'से णं भंते ! उप्पलजीवे पुढविजीवे 'त्ति इत्यादिना तु संवेधस्थितिरुक्ता, तत्र च 'भवादेसेणं'ति भवप्रकारेण भवमाश्रित्येत्यर्थः 'जहन्त्रेणं दो भवग्गहणाई' ति एकं पृथिवीकायिकत्वे ततो द्वितीयमुत्पलत्वे ततः परं मनुष्यादिगतिं गच्छेदिति । ‘कालेदेसेणंजहन्त्रेणं दो अंतोमुहुत्त' त्ति पृथिवीत्वेनान्तर्मुहूर्तं पुनरुत्पलत्वे नान्तर्मुहूर्त्तमित्येवं कालादर्शन जघन्यतो द्वे अन्तर्मुहूर्ते इति, एवं द्वीन्द्रियादिषु नेयम्, 'उक्कोसेणं अट्ठ भवग्गहणाई' ति चत्वारि पञ्चेन्द्रियतिरश्चश्चत्वारि चोत्पलस्येत्येवमष्टौ भवग्रहणान्युत्कर्षत इति, 'उक्कोसेणं पुव्यकोडी हुतं' ति चतुर्षु पञ्चेन्द्रियतिर्यग्भवग्रहणेषु चतः पूर्वकोट्यः उत्कृष्टकालस्य विवक्षितत्वेनोत्पलकायोद्वत्तजीवयोग्योत्कृष्टपञ्चेन्द्रियतिर्यकस्थितेग्रहणात् उत्पलजीवितं त्वेतास्वधिकमित्येवमुत्कृष्टतः पूर्वकोटीपृथकत्वं भवतीति । For Private & Personal Use Only Jain Education International www.jainelibrary.org
SR No.003339
Book TitleAgam Sutra Satik 05 Bhagavati AngSutra 05
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherAgam Shrut Prakashan
Publication Year2000
Total Pages1096
LanguagePrakrit, Sanskrit
ClassificationBook_Devnagari, Agam, Canon, Agam 05, & agam_bhagwati
File Size23 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy