________________
शतकं-१०, वर्ग:-, उद्देशकः-३
५३५ परा परर्द्धिको वा 'विमोहित्ता पमुत्ति विमोह्य' महिकायन्धकारकरणेन मोहमुत्पाद्य अपश्यन्तमेव तंव्यतिक्रामेदिति भावः। ___एवं असुरकुमारेणवि तिन्नि आलावग'त्तिअल्पर्धिकमहर्द्धिकयोरेकः समर्द्धिकयोरन्यः महर्द्धिकाल्पर्द्धिकयोरपर इत्येवंत्रयः, 'ओहिएणंदेवेणं ति सामान्येन देवेन १, एवमालापकत्रयोपेतो देवदेवीदण्डको वैमानिकान्तोऽन्यः २, एवमेव च देवीदेवदण्डको वैमानिकान्त एवापरः ३, एवमेव च देव्योर्दण्डकोऽन्यः ४ इत्येवं चत्वार एते दण्डकाः।
अनन्तरं देवक्रियोक्ता, सा चातिविस्मयकारिणीति विस्मयकरं वस्त्वन्तरं प्रश्नयन्नाह
मू. (४८३) आसस्स णं भंते! धावमाणस्स किंखुखुत्ति करेति?, गोयमा ! आसस्स णं धावमाणस्स हिदयस्स य जगयस्स य अंतरा एत्थ णं कब्बडए नामं वाए संमुच्छइ जेणं आसस्स धावमाणस्स खुखुत्ति करेइ ।।
वृ. 'आसस्से'त्यादि, 'हिययस्स य जगयस्स यत्ति हृदयस्य यकृतश्च-दक्षिणकुक्षिगतोदरावयवविशेषस्य 'अन्तरा' अन्तराले । अनन्तरं 'खुखु’त्ति प्ररूपितं तच्च शब्दः, स च भाषारूपोऽपि स्यादिति भाषाविशेषान् भाषणीयत्वेन प्रदर्शयितुमाह-- मू. (४८४) अह भंते ! आसइस्सामो सइस्सामो चिहिस्सामो निसिइस्सामो तुयहिस्सामो
वृ. 'अह भंते!' इत्यादि, अथेतिपरिप्रश्नार्थ: भंते!'ति भदन्त! इत्येवं भगवन्तं महावीरमामन्त्रय गौतमः पृच्छति-'आसइस्सामोत्ति आश्रयिष्यामो वयमाश्रयणीयं वस्तु 'सइस्सामोत्ति शयिष्यामः 'चिट्ठिस्सामो'त्तिऊर्ध्वस्थानेन स्थास्यामः 'निसिइस्सामो त्तिनिषेत्स्याम उपवेश्याम इत्यर्थः 'तुयट्टिस्सामो'त्ति संस्तारके भविष्याम इत्यादिका भाषा किं प्रज्ञापनी? इति योगः। मू. (४८५) आमंतणि आणवणी जायणि तह पुच्छणी य पन्नवणी।
पच्चक्खाणी भासा भासा इच्छानुलोमा य॥ वृ अनेन चोपलक्षणपरवचनेन भाषाविशेषाणमेवंजातीयानां प्रज्ञापनीयत्वं पृष्टमथ भाषाजातीनां तत्पृच्छति-'आमंतणि' गाहा, तत्र आमन्त्रणी हे देवदत्त ! इत्यादिका, एषा च किल वस्तुनोऽविधायकत्वादनिषेधकत्वाञ्च सत्यादिभाषात्रयलक्षणवियोगतश्चासत्यामृषेति प्रज्ञापनादावुक्ता, एवमाज्ञापन्यादिकामपि ।
आणवणि'त्ति आज्ञापनी कार्ये परस्य प्रवर्तनी यथा घटं कुरु 'जायणि त्ति याचनी-- वस्तुविशेषस्य देहीत्येवंमार्गणरूपा तथेति समुच्चये 'पुच्छणीय'त्तिप्रच्छनी-अविज्ञातस्य संदिग्धस्य वाऽर्थःस्य ज्ञानार्थं तदभियुक्तप्रेरणरूपा पन्नवणि त्तिप्रज्ञापनी-विनेयस्या-पदेशदानरूपायथा॥१॥ "पाणवहाओ नियत्ता भवंति दीहाउया अरोगा य ।
एमाई पन्नवणी पन्नत्ता वीयरागेहिं ॥" 'पञ्चक्खाणीभास'त्ति प्रत्याख्यानी याचमानस्यादित्सा मे अतो मां मा याचस्वेत्यादि प्रत्याख्यानरूपा भाषा 'इच्छानुलोम'त्ति प्रतिपादयितुर्याइच्छातदनुलोमा-तदनुकूला इच्छानुलोमा यथा कार्ये प्रेरितस्य एवमस्तु ममाप्यभिप्रेतमेतदिति वचः। मू.(४८६) अनभिग्गहिया भासा भासा य अभिग्गहँभि बोद्धव्वा ।
संसयकरणी भासा वोयडमव्वोयडा चेव ।।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org