________________
शतर्क- ९, वर्ग:, उद्देशक:- ३३
'अत्येगइया समणा निग्गंथा एयमहं नो सद्दहंति 'त्ति ये च न श्रद्दधति तेषां मतमिदं नाकृतं अभूतमविद्यमानमित्यर्थः क्रियते अभावात् खपुष्पवत् यदि पुनरकृतमपि असदपीत्यर्थः क्रियते तदा खरविषाणमपिक्रियताभसत्त्वा विशेषात्, अपिच कृतकरण पक्षे नित्यक्रियादयो दोषा भणितास्ते च असत्करणपक्षेऽपि तुल्या वर्तन्ते, तथाहि नात्यन्तमसत् क्रियतेऽ सद्भावात् खरविषाणमिव, अथात्यन्तासदपि क्रियते तदा नित्यं तत्करणप्रसङ्गः, न चात्यन्तासतः करणे क्रियासमाप्तिर्भवति, तथाऽत्यन्तासतः करणे क्रियावेफल्यं च स्यादसत्वादेव खरविषाणवत्, अथ च अविद्यमानस्य करणाभ्युपगमे नित्यक्रियादयो दोषाः कष्टतरका भवन्ति, अत्यन्ताभावरूपत्वात् खरविषाण इवेति, विद्यमानपक्षे तु पर्यायविशेषणापर्ययणात् स्यादपि क्रियाव्यपदेशो यथाऽऽकाशं कुरु, तथा च नित्यक्रियादयो दोषा न भवन्ति, न पुनरयं न्यायोऽत्यन्तासति खरविषाणादावस्तोति, यच्चोक्तंपूर्वमसदेवोत्पद्यमानं ध्श्यत इति प्रत्यक्षविरोधः', तत्रोच्यते, यदि पूर्वमभूतं समवश्यते तदा पूर्वमभूतं सद्भवत् कस्त्वया खरविषाणमपि न दृश्यते, यत्रोक्तं- 'दीर्घ क्रियाकालो दृश्यते, तत्रोच्यते', प्रतिसमयमुत्पन्नानां परस्परेणेषद्विलक्षणानां सुबह्वह्नीनां स्थासकोसादीनामारम्भसमयेष्वेव निष्ठानुयायिनीनां कार्यकोटीनां दीर्घ क्रियाकालो यदि दृश्यते तदा किमत्र घटस्यायातं ? येनोच्यते-- ६श्यते दीर्घश्च क्रियाकालो घटादीनामिति, यच्चोक्तं- 'नारम्भएव दृश्यते' इत्यादि, तत्रोच्यते, कार्यान्तरारम्भे कार्यान्तरं कथं दृश्यतां पटारम्भे घटवत् ?, शिवकस्थासकादयश्च कार्यविशेषा घटस्वरूपा न भवन्ति, ततः शिवकादिकाले कतं घटो दृश्यतामिति ।
119 11
किंच-- अन्त्यसमय एव घटः समारब्धः ?, तत्रैव च यद्यसौ दृश्यते तदा को दोषः ?, एवं च क्रियमाण एव कृतो भवति, क्रियमाणसमयस्य निरंशत्वात्, यदि च संप्रतिसमये क्रियाकालेऽप्यकृतं वस्तु तदाऽतिक्रान्ते कथं क्रियतां कषायति ?, क्रियाया उभयोरपि विनष्टत्वानुत्पन्नत्वेनासत्त्वादसम्बध्यमानत्वात्, तस्मात् क्रियाकाल एव क्रियमाणं कृतमिति, आह च— “थेराण मयं नाकयमभावओ कीरए खपुप्फंव । अहव अकपि कीरइ कीरउ तो खरविसाणंपि ॥ निच्च किरियाई दोसा नणु तुल्ला असइ कट्टतरया वा । पुव्वमभूयं न ते दीसइ किं खरविसाणंपि ॥ पइसमउप्पन्नाणं परोप्परविलक्खणाण सुबहूणं । दीहो किरियाकालो जइ दीसइ किं च कुंभस्स ।। अन्नारंभ अन्नं किह दीसउ ? जह घडो पडारंभे ।
॥२॥
॥ ३ ॥
118 11
॥५॥
५२१
सिवगादओ न कुंभो किह दीसउ तदद्धाए ॥ अंते च्चिय आरद्धो जइ दीसइ तंमि चैव को दोसो ? 1 अयं च संपइ गए किहु कीरउ किह व एसंमि ? || -इत्यादि बहु वक्तव्यं तच्च विशेषावश्यकादवगन्तव्यमिति । -
मू. (४६७) तए णं से जमाली अनगारे अन्नया कयावि ताओ रोगायंकाओ विप्पमुळे हट्टे तुट्ठे जाए अरोए बलियसरीरे सावत्थीओ नयरीओ कोट्टयाओ चेइयाओ पडिनिक्खमइ २
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org