________________
शतकं-९, वर्गः-, उद्देशकः-३३
५१५ योगः 'ईसिंउच्छंगउन्नयविसालधवलदंताणं ति उत्सङ्गः-पृष्ठदेशः ईषदुत्सङ्गे उन्नता विशालाश्च ये यौवनारम्भवतित्वात्ते तथा ते च ते धवलदन्ताश्चेति समासोऽतस्तेषां 'कंचणकोसीपविठ्ठदंतोवसोहियाण तिइह काञ्चनकोशी-सुवरणमयीखोला, रथवर्णकेतु सज्झयाणंसपडागाणं' इत्यत्र गरुडादिरूपयुक्तो ध्वजः तदितरातुपताका 'सखिखिणीहेमजालपेरंतपरिस्खित्ताणं'ति सकिङ्किणीकं-क्षुद्रघण्टिकोपेतं यद् हेमजालं-सुवर्णमयस्तदाभरणविशेषस्तेन पर्यन्तेषुपरिक्षिप्ता येते तथा, तेषां सनंदिघोसाणं ति इह नन्दी-द्वादशतूर्यसमुदायः, तानि चेमानि॥१॥ "भंभा १ मउंद २ मद्दल ३ कडंब ४ झल्लरि ५ हुडुक्क ६ कंसाला ७ ।
काहल ८ तलिमा ९ वंसो १० संखो ११ पणवो १२ य बारसमो।"
इति 'हेमवयचित्ततिणिसकणगनिजुत्तदारुगाणं'ति हैमवतानि-हिमवद्गिरिसम्भवानि चित्राणि-विविधानि तैनिशानि-तिनिशाभिधानतरुसम्बन्धीनि कनकनियुक्तानि-- सुवर्णखचितानि दारुकाणि-काष्ठानि येषु ते तथा तेषां, 'सुसंविद्धचक्कमंडलधाराणं'ति सुष्टुसंविद्धानि चक्राणिमण्डलाश्चवृत्ताधारायेषांतेतथा तेषां 'सुसिलिट्टचित्तमंडलधुराण'तिक्वचिद्दश्यते तत्र सुष्छु संश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च--वृत्ता धारा येषां ते तथा तेषां 'सुसिलिट्ठचित्तमंडलधुराण'ति क्वचिद्दश्यते तत्र सुष्ठुसंश्लिष्टाः चित्रवत्कुर्वत्यो मण्डलाश्च-वृत्ताधुरो येषां ते तथा तेषां 'कालायससुकयनेमिजंतकम्माणं'ति कालायसेन-लोहविशेषेण सुष्टु कृतं नेमे:चक्रमण्डनधाराया यन्त्रकर्म-बन्धनक्रिया येषां तेतथा तेषाम् 'आइन्नवरतुरगसुसंपउत्ताण'ति आकीर्णे जात्यैर्वरतुरगैः सुष्ठुसंप्रयुक्ताये तेततातेषां कुसलनरच्छेयसारहिसुसंपग्गहियाणं'ति कुशलनरैः-विज्ञपुरुषैश्छेकसारथिमिश्च दक्षप्राजिभिसुष्टु संप्रगृहीता येतेतथा तेषां सरसयबत्तीसतोणपरिमंडियाणं ति शरशतप्रधानायेद्वात्रिंशत्तोणा-भस्त्रकास्तैः परिमण्डिता येते तथा तेषां ‘सकंकडवडेंसगाणं'ति सह कङ्कटैः-कवचैरवतंसकैश्च-शेखरकैः शिरस्त्राणैर्वा येते तथा तेषां 'सचावसरपहरावरणभरियजुद्धसञ्जाणं'ति सह चापैः शरैश्च यानि प्रहरणानि-कुन्तादीनि आवरणानि च-स्फुरकादीनि तेषां भरिता युद्धसज्जाश्च-युद्धप्रगुणा ये ते तथा तेषां, शेषं तु प्रतीतार्थःमेवेति।
अथाधिकृतवाचनाऽनुश्रियते-'तयानंतरचणंबहवे उग्गा' इत्यादि, तत्र 'उग्राः' आदिदेवेनारक्षकत्वे नियुक्तास्तद्वंश्याश्च भोगास्तेनैव व्यवहृतास्तद्वंश्याश्च 'जहा उववाइए'त्तिकरणादिदं
श्य-'राइन्ना खत्तियाइक्खागा नायाकोरब्बा इत्यादि, तत्र 'राजन्याः' आदिदेवेनैव वयस्यतया व्यवहृतास्तद्वंश्याश्च क्षत्रियाश्चप्रतीताः 'इक्ष्वाकवः' नाभेयवंशजाः 'ज्ञाताः' इक्ष्वाकुवंशविशेषभूताः 'कोरव्य'त्ति कुरवः कुरुवंशजाः, अथकियदन्तमिदं सूचमिहाध्येयम् ? इत्याह-जाव महापुरिसवगुरापरिक्खित्ते'त्ति वागुरा-मृगबन्धनं वागुरेव वागुरा सर्वतः परिवारणसाधात्पुरुषाश्च ते वागुराच पुरुषवागुरा महती चासौ पुरुषवागुरा च महापुरुषवागुरा तथा परिक्षिप्ता ये ते तथा 'महंआस'त्ति महाश्वाः, किम्भूताः ? इत्याह
_ 'आसवरा अश्वानांमध्येवराः आसवार'त्तिपाठान्तरंतत्र 'अश्ववाराः' अश्वारूढपुरुषाः 'उभओपार्सि'तिउभयोः पार्श्वयोः 'नाग'त्ति नागाहस्तिनः नागवरा-हस्तिनां प्रधानाः 'रहसंगेलित्ति रथसमुदायः ‘अब्भुग्गयभिंगारे'त्ति अभ्युद्गतः-अभिमुखमुत्पाटितो भृङ्गारो यस्य स तथा पग्गहियतालियंटे' प्रगृहीतंतालवृन्तंयंप्रति सतथा ऊसवियसेयच्छत्ते उच्छ्रितश्वेतच्छत्रः
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org