________________
४४
भगवतीअङ्गसूत्रं १/-19/२५ व्याप्ताः,आङशब्दोऽत्रमर्यादावृत्ति, तथा क्वचित्तु 'विइइन्न'त्ति तैरेववृन्दैर्निजावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, उवत्थड'त्ति उपस्तीर्णाः, उपशब्दः सामीप्यार्थः, स्तृञ्च आच्छदनार्थस्त-तश्चोत्पतद्भिर्निपतद्भिश्चानवरतक्रीडासक्तैरुपर्युपरिच्छदिताः, संथड'त्ति संस्तीर्णा, संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित्तैरेव क्रीडमानैरन्योऽन्यस्पर्द्धया समन्ततश्चलभिराच्छदिताइति, 'फुड'त्ति 'स्पृष्टाः' आसनशयनरमणपरिभोगद्वारेण परिभुक्ताः स्फुटा वाप्रकाशा व्यन्तरसुरनिक-रकिरणविसरनिराकृतान्धकारतया, 'अवगाढगाढ'त्ति गाढं-बाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहितमनोभिरघोऽपि व्याप्ताः, गाढावगाढाइति वाच्ये प्राकृतत्वादवगाढगाढाः, इहच देवत्वयोग्यस्य जीवस्याभिधानेन तदयोग्यः सामर्थ्यादवसीयत एवेति अत्थेगइए नो देवे सिया' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं द्रष्टव्यमिति ।
अथोद्देशकनिगमनार्थमाह-“सेवं भंते सेवंभंते'त्ति, यन्मया पृष्टं तद्भगवद्भिः प्रतिपादितं तदेवमित्थमेव भदन्त! नान्यथा, अनेन भगद्वचने बहुमानंदर्शयति, द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति, एवं कृत्वा भगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति ।
शतकं-१ उद्देशकः-१ समाप्त
-शतकं-१ उद्देशकः-२:वृ. व्याख्यातः प्रथमोद्देशकः, अथ द्वितीय आरभ्यते, अस्य चैवं संबन्धः-प्रथमोद्देशके चलनादिधर्मकं कर्म कथितं तदेवेह निरूप्यते, तथोद्देशकार्थसङग्रहिण्यां दुक्खे'त्ति यदुक्तां तदिहोच्यते, तत्प्रस्तावनार्थंच पूर्वोक्तमेव ग्रन्थं स्मरन्नाह
मू. (२६) रायगिहे नगरे समोसरणं, परिसा निग्गया जाव एवं वयासी-जीवे णं भंते ! सयंकडं दुक्खं वेदेइ ?, गोयमा ! अत्थेगइयं वेएइ अत्थेगइयं नो वेएइ, से केणटेणं भंते ! एवं पुच्चइअत्थेगइयं वेदेइ अत्गइयंनो वेएइ ?, गोयमा! उदिन्नं वेएइ अनुदिन्नंनो वेएइ, से तेणदेणं एवंदुच्चइ-अत्थेगइयं वेएइ अत्थेगतियं वो वेएइ । एवं चउव्वीसदंडएणं जा वेमाणिए।
जीवाणंभंते! सयंकडंदुक्खं वेएन्ति?, गोयमा! अत्थेगइयंवेयन्ति अत्थेगइयं नोवेयन्ति, से केणटेणं?, गोयमा! उदिन्नं वेयन्ति नो अणुदिनं वेयन्ति, से तेणटेणं, एवं जाव वेमाणिया
जीवे णं भंते ! सयंकडं आउयं वेएइ ? गोयमा! अत्गइयं वेएइ अत्थेगइयं नो वेएइ जहा दुक्खेणं दो दंडा तहा आउएणविदो दंडगा एगत्तपुहुत्तिया।
एगत्तेणं जाव वेमाणिया पुहुत्तेणवि तहेव ।
वृ. 'रायगिहे' इत्यादि पूर्ववत्, ‘जीवे णमित्यादि तत्र सयंकडंदुक्खंति यत्परकृतं तत्र वेदयतीतिप्रतीतमेवातः स्वयंकृतमिति पृच्छतिस्म ‘दुक्खं तिसांसारिकंसुखमपिवस्तुतोदुःखमिति दुःखहेतुत्वाद् ‘दुःखं कर्मवेदयतीति, काकुपाठात्प्रश्नः, निर्वचनंतुयदुदीर्णंतद्वेदयति, अनुदीर्णस्य हि कर्मणो वेदनमेव नास्ति तस्मादुदीर्णंवेदयति नानुदीर्णं, न च बन्धानन्तरमेवोदेति अतोऽवश्यं वेद्यमप्येकं चेदयत्येकं न वेदयति इत्येवं व्यपदिश्यते, अवश्यं वेद्यमेव च कर्म "कडाण कम्माण न मोक्खो अस्थि" इति वचनादिति।
एवं 'जाव वेमाणिए' इत्यनेन चतुर्विसतिदण्डकः सूचितः, सचैवम् ।
Jain Education International
For Private & Personal Use Only
www.jainelibrary.org