________________
शतकं-१, वर्ग:, उद्देशक :- १
४३
कर्बर्ट -कुनगरं मडम्बं सर्वतो दूरवर्त्ति सन्निवेशान्तरं द्रोणमुखं जलपथस्थलपथोपेतं पत्तनंविविधदेशागतपण्यस्थानं, तञ्च द्विधा - जलपत्तनं स्थलपत्तनं चेति, रत्नभूमिरित्यन्ते, आश्रमतापसादिस्थानं सन्निवेशो-घोषादि, एषां द्वन्द्वस्ततस्तेषु, अथवा ग्रामादयो ये सन्निवेशास्ते तथा तेषु ।
‘अकामतण्हाए’त्ति अकामानां निर्जराद्यनभिलाषिणां सतां तृष्णा-तृडू अकामतृष्णा तया, एवमकामक्षुधा, 'अकामबंभचेरवासेणं' ति अकामानां निर्जराद्यनभिलाषिणां सताम् अकामो वा निरभिप्रायेो ब्रह्मचर्येण स्यादिपरिभोगाभावमात्रलक्षणेन वासो - रात्रौ शयनमकामब्रह्मचर्यवासोऽतस्तेन, 'अकामअण्हाणगसेयजल्लमपंकपरिदाहेणं' ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः प्रस्वेदः याति च लगति चेति जल्लो- रजोमात्रं मलः कठिनीभूतं रज एव पङ्को मल एव स्वेदेनार्द्रीभूत इति । 'अप्पतरो वा भुञ्जतरो वा कालं' ति प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत्, वाशब्दौ देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थी, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालकामनिर्जरावतामविशिष्टं तत्स्याद् इतरेषां तु विशिष्टमिति, 'अप्पाणं परिकिलेसंति' त्ति विबाधयन्ति ।
'कालमासे' त्ति कालो - मरणं तस्य मासः प्रक्रमादवसरः कालमासस्तत्र 'कालं किञ्च' त्ति मृत्वा 'वाणमंतरेसु’त्ति वनान्तरेषु दनविशेषेषु भवा (अ) वर्णागमकरणाद् वानमन्तराः, अन्ये त्याहुः वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु 'देवलोकेषु' देवाश्रयेषु 'देवत्ताए उववत्तारो भवंति त्तिये इमे इत्यत्र यच्छन्दोपादानात्ते देवतयोपपत्तारो भवन्तीति द्रष्टव्यम् ।
'तेसिं'ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति 'से जहानामए' त्ति 'से' त्ति अथ 'यथा' येन प्रकारेण नामेति संभावने वाक्यालङ्कारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव वा 'इहं' ति इह मर्त्यलोके 'असोगवणेइ वत्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात्, 'वा' इति विकल्पार्थः, अथवा 'असोगवने' इत्यत्र प्रथमैकवचनकृत एकारः, इवशब्दस्तु वाक्यालङ्कारे, अशोकादयस्तु प्रसिद्धा एव नवरं 'सत्तवन्न' त्ति सप्तपर्ण सप्तच्छद इत्यर्थः 'कुसुमिय'त्ति संजातकुसुमं 'माइय' त्ति मयूरितं संजातपुष्पविशेषमित्यर्थः, 'लवइय'त्ति लवकितं संजातपल्लवलमङ्कुरवदित्यर्थः, 'थवइय' त्ति स्तबकितं संजातपुष्पस्तबकमित्यर्थः, 'गुलइय'त्ति संजात- गुल्मकं, गुल्मं च लतासमूहः, 'गुच्छिय'त्ति संजातगुच्छं, गुच्छश्च पत्रसमूहः, यद्यपि च स्तबक- गुच्छयोरविशेषो नामकोशेऽधीतस्तथाऽपीह पुष्पपत्रकृतो विशेषो भावनीयः, 'जमलिय'त्ति यमलतया-समश्रेणितया तत्तरूणां व्यवस्थितत्वात् संजातयमलत्वेन यमलितं, 'जुवलिय'त्ति युगलतया तत्तरूणां संजातत्वेन युगलितं, 'विणमिय'त्ति विशेषेण पुष्पफलभरेण नमितमितिकृत्वा विनमितं, 'पणमिय'त्ति तेनैव नमयितुमारब्धत्वाव्यणमितं प्रशब्दस्यादिकर्मार्थत्वादिति, तथा 'सुविभक्ताः' अतिविभक्ताः सुनिष्पन्नतया पिण्डयो-लुम्ब्यो मञ्जर्यश्च प्रतीतास्ता एवावतंसकाशेखरकास्तान् धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरं ततः कुसुमितादीनां कर्मधारय इति । 'सिरीए'त्ति श्रिया-वनलक्ष्मया 'उवसोभेमाणे' त्ति इह द्विर्वचनमाभीक्ष्णये भृशत्वे इत्यर्थः, 'आइन्न'त्ति कचित्प्रदेशे देवानां देवीनांच वृन्दैरात्मीयात्मीयाऽऽवासमर्यादानुलनेन
For Private & Personal Use Only
Jain Education International
www.jainelibrary.org